संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः|
अस्थिसंचयनश्राद्धम्

अथान्त्येष्टिप्रयोगः - अस्थिसंचयनश्राद्धम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आचम्य देशकालौ स्मृत्वा अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं अस्थिसंचयनश्राद्धं करिष्ये तूष्णीं तिलोदकं कृत्वा दक्षिणाग्रदर्भशिखोपरि अमुकगोत्रस्य अमुकप्रेतस्य अस्थिसंचयनश्राद्धे क्षणमुप० एवं आसनपाद्यार्घ्यार्चनतिलतुलसीभृंगराजाच्छादनानि दत्त्वा अमुकगोत्राय अमुकप्रेताय अस्थिसंचयनश्राद्धे दास्यमानमामं यथासोपस्करं सोदकुंभं सदक्षिणं सूतकांते उपतिष्ठतां ततो दर्भशिखायां तिलोदकं दत्त्वा अद्येत्यादि० अमुकगोत्राय अमुकप्रेताय अस्थिसंचयनश्राद्धे अयं सक्तुपिंड उपति० तस्योपरि तिलोदकमु० घृताभ्यंजनं० अंजनं० वासः सूत्रं अर्चनं तुलसीपत्रं भृंगराजपत्रं चोपिति० इति दत्त्वा । अनादिनिधनो देव इति पठित्वा इदं पिंडदानं सतिलोदकमित्यादि प्रवाहणांतं कृत्वा स्नायात् । इत्यस्थिसंचयनविधिः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP