अथान्त्येष्टिप्रयोगः - सपिंडीकरणश्राद्धम्
‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.
आचम्य पवित्रं धृत्वा ऊर्ध्वकेशीति दर्भेण शिखां बध्वां उत्तरीयांचले कुशं बध्वा देशकालौ स्मृत्वा अपसव्यं अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्यं मृताहात् अद्य द्वादशेऽहनि अमुकगोत्रैः अमुकवर्मभिः वसुरुद्रादित्यस्वरुपैः तत्पितृपितामहप्रपितामहैः सह सपिंडीकरणश्राद्धं सदैवं सपिंडं साग्नौकरणं पार्वणैकोद्दिष्टेन विधिना अन्नेन ( आमान्नेन वा ) हविषा चटेषु ( सव्यं ) सद्यः करिष्ये । ( मातुः सपिंडीकरणे तु अमुकगोत्रायाः अमुकप्रेतायाः प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं मृताहात् अद्य द्वादशेऽहनि अमुकगोत्राभिः अमुकदाभिः वसुरुद्रादित्यस्वरुपाभिः प्रेतभर्तृमातृपितामहीप्रपितामहीभिः सह सपिंडीकरणश्राद्धं सदैवमित्यादिपूर्ववत् ) तदंगतिलोदकं च करिष्ये इति संकल्प्य ‘ गंगे च यमुने चैव० तिलयवोदकदेवताभ्यो नमः ’ इति मंत्रेण ‘ कूर्चं यवांस्तिलान् गधं तुलसीं भृंगराजं च दत्तं नमः ’ द्रव्यं फलं च क्षिप्त्वा ‘ सर्वे उपचाराः तिलयवैः संपूर्णाः संतु ’ । ब्रह्मदंडार्थे सकुशतिलहिरण्यं निधाय विप्रौघदर्शनात्क्षिप्रं० आधिव्याधिहरं नृणां० ’ इति मंत्रौ पठन् त्रिः प्रदक्षिणाः द्वौ नमस्कारौ च कृत्वा अपसव्यं । अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥ अमुकगोत्रस्य अमुकप्रेतस्य ‘ अद्यस पिंडीकरणश्राद्धं कर्तुं ममाधिकारसंपदस्त्विति भवंतो ब्रुवंतु ’ ‘ अस्तु श्राद्धाधिकारसंपत् ’ सव्यं ‘ कालस्य मुख्यः कालोऽस्त्विति भवंतो ब्रुवंतु ’ ‘ कालस्य मुख्यः कालोस्तु । ‘ क्षणादि करिष्ये ’ प्रागग्रौ उदक्संस्थौ द्वौ दर्भबटू स्थापयित्वा ‘ कामकालसंज्ञकानां विश्वेषां देवानां स्थाने क्षणं नमः ’ एवं द्वितीये ‘ क्षणं नमः ’ इति क्षणं दत्त्वा अपसव्यं एकं दर्भबटुं देवदक्षिणतः उदगग्रं संस्थाप्य ‘ अमुकगोत्रस्य अमुकप्रेतस्य सपिंडीकरणश्राद्धे क्षण उपतिष्ठतां ’ ततः पृथक्पंक्तौ प्राक्संस्थानुदगग्रान् दर्भबटून् त्रीन् स्थापयित्वा प्रेतपितृस्थाने ‘ क्षणं नमः ’ इति दत्त्वा एवं प्रेतपितामहस्थाने प्रेतप्रपितामहस्थाने च क्षणं दत्त्वा सव्यं ‘ सर्वषां स्वागतं ’ ‘ सुस्वागतं ’ ‘ देवाः समाध्वं ’ ‘ सुसमास्महे ’ इति स्पृष्ट्वा अपसव्यं ‘ प्रेतपितृपितामहप्रपितामहाः समाध्वं ’ ‘ सुसमास्महे ’ । सव्यं ‘ कामकालसंज्ञकानां विश्वेषां देवानां इदमासनं ’ ‘ स्वासनं ’ एवं द्वितीयेपि दत्त्वा ‘ अत्रास्यतां धर्मोसि ’ ‘ अत्रास्यामः ’ । ‘ दैवे क्षणः क्रियतां ’ ‘ ओंतथा ’ ‘ प्राप्नोतु भवान् ’ ‘ प्राप्नुवानि ’ देवाग्रे अर्घ्यपात्रद्वयं दर्भेषु निधाय तत्र पार्वणश्राद्धवत्पवित्रस्थापनादि अर्घ्यं संपाद्य ‘ कामकालसंज्ञका विश्वेदेवाः इदं वो अर्घ्यं नमः ’ एवं द्वितीये दत्त्वा ‘ कामकालसंज्ञका विश्वेदेवाः एष वो गंधो नमः ’ एवं पुष्पतुलसीधूपदीपाच्छादनांतोपचारान् दत्त्वा ‘ एते गंधाद्युपचाराः सर्वे परिपूर्णा भवंतु इति संपूर्णतां वाचयित्वा ‘ प्रेताद्यर्चनं करिष्ये ’ । अपसव्यम् । अपो दत्त्वा ‘ अमुकगोत्रस्य अमुकप्रेतस्य इदमासनमुपतिष्ठतां प्रेतपितृपितामह प्रपितामहानां अमुकगोत्राणां अमुकवर्मणां वसुरुद्रादित्यस्वरुपाणां इदमासनं अत्रास्यतां ’ इत्यादि० ‘ पित्र्ये क्षणः क्रियतां ’ ‘ ओंतथा ’ । प्रेताग्रे अर्घ्यार्थमेकं पात्रमासाद्य प्रेतपित्रग्रे अर्घ्यार्थं पात्रत्रयमाग्नेयीसंस्थमासाद्य प्रेतपात्रे चतुर्दर्भकूर्चं निधाय पितृपात्रत्रये त्रिकुशकूर्चान्निधाय प्रेतपात्रे तिलान् ‘ प्रेताय नमः ’ इति क्षिप्त्वा तथैव पात्रेषु ‘ पितृभ्यो नमः ’ इति तिलान् क्षिप्त्वा सर्वेष्वर्घ्यपात्रेषु गंधपुष्पतुलसीपत्रभृंगराजादि क्षिप्त्वा ‘ पित्रर्घ्यपात्राणि संपन्नानि ’ ‘ सुसंपन्नानि ’ । ततः प्रेतपात्रस्थमेकं कुशं प्रेतस्थाने दत्वा अर्घ्यपात्रोदकं किंचिद्गृहीत्वा ‘ अमुकगोत्र अमुकप्रेत इदं ते अर्घ्यमुपतिष्ठतां इति दत्त्वा अद्येत्यादि० ‘ अमुकगोत्रस्या मुकप्रेतस्य अर्घ्यपात्रोदकं अमुकगोत्राणां अमुकवर्मणां प्रेतपितृपितामहप्रपितामहानां अर्घ्यपात्रोदकेन सह संयोजयिष्ये ’ ‘ संयोजय ’ इति ब्राह्मणोक्तिः । ततः प्रेतपात्रस्थं कुशत्रयं पितृपात्रत्रये दत्त्वा प्रेतार्घ्यपात्रजलं पितृपात्रत्रये किंचित् किंचित् संमीलयेत् । ‘ अमुकगोत्र अमुकप्रेत अमुकगोत्रैः अमुकवर्मभिः ( गुप्तैर्दासैर्वा ) पितृपितामहप्रपितामहैः सह सायुज्यं गच्छ ’ इत्युक्त्वा अनंतरं पित्रादिपात्रोदकेन पार्वणवत्पित्रादिभ्योऽर्घ्याणि दत्त्वा प्रेतादिभ्यो गंधाद्याच्छादनांतोपचारान् दद्यात् । प्रेतस्थाने विशेषेण । ततो देवाग्रे चतुरस्त्रमंडले सव्येन कृत्वा अपसव्येन प्रेताग्रे त्रिकोणं पित्रादित्रयाग्रे वर्तुलानि च मंडलानि कृत्वा सव्येन पात्राण्यासाद्य सर्वपात्रपरितः सव्यापसव्याभ्यां भस्ममंडलानि कृत्वा ‘ अग्नौकरणं करिष्ये ’ इति संकल्प्य कुरुष्व ’ इत्यनुज्ञातः किंचित् घृताक्तं अन्नं आमं वा गृहीत्वा अपसव्येन ‘ प्रेतायेयमाहुतिरुपतिष्ठतां ’ इति दत्त्वा त्यक्त्या च ‘ यमायेयमाहुतिरुप० ’ इति द्वितीयाहुतिं दत्त्वा त्यक्त्वा च द्वितीयपात्रे किंचित् आमादिकं गृहीत्वा पित्रादित्रिभ्यो दद्यात् तत्र ‘ सोमाय पितृमते नमः ’ इति त्यक्त्वा ‘ अग्नये कव्यवाहनाय नमः ’ इति द्वितीयां दत्त्वा त्यक्त्वा पात्राण्यभिघार्य सर्वेषु यथाचारं यथासोपस्करं अन्नं आमान्नं वा परिविष्य अभिघार्य प्रोक्ष्य देवाग्रे दक्षिणजानुं पातयित्वोपविश्य पाणिभ्यां पात्रमालभ्य ‘ कामकालसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः इदं आमं - ( अन्नं वा ) यथासोपस्करं दत्तं अमृतरुपेण संपद्यंतां नमः ’ एवं द्वितीये दत्त्वा ‘ देवेभ्यो नमः ’ अपसव्यं वामं जान्वाच्योपविश्य प्रेतपात्रमालभ्य ‘ अमुकगोत्राय अमुकप्रेताय इदं आमं यथाशक्तिसोपस्करं अमृतरुपेणोपतिष्ठतां ’ इत्युदकमुत्सृजेत् । ततः प्रेतपितृपात्रमालभ्य ‘ पित्रे अमुकवर्मणे अमुकगोत्राय वसुरुपाय इदमामं ( अन्नं वा ) यथासोपस्करं अमृतरुपेण संपद्यंतां नमः ’ । एवं ‘ प्रेतपितामहाय अमुकवर्मणे अमुकगोत्रस्य रुद्ररु० इदं ’ इत्यादिपूर्ववत् । ततः ‘ प्रेतप्रपितामहाय अमुकवर्मणे अमुकगोत्राय आदित्यरुपाय इदं ’ इत्यादि० । पितृभ्यो नमः । एको विष्णुर्महद्भूतं० अनेन अमुकस्य सपिंडीकरणश्राद्धीयामान्ननिवेदनेन भगवान् पितृरुपी परमेश्वरः प्रीयताम् ॥ ॥ अथ पिंडदानम् ॥ अद्येत्यादि० ‘ सपिंडीकरणश्राद्धांगत्वेन पिंडप्रदानं करिष्ये ’ इति संकल्प्य अपसव्यं पिंडस्थाने भूमिं प्रोक्ष्य दर्भासनं दत्त्वा द्वादशांगुलमितं प्रेतपिंडं कृत्वा ‘ अमुकगोत्राय अमुकप्रेताय सपिंडीकरणश्राद्धे अयं पिंड उप० ’ इति दत्त्वा तदुपरि तिलोदकमुप० ’ । ततः तद्दक्षिणतः पार्वणवत् पित्रादिभ्यः पिंडत्रयं दत्त्वा प्रेतपिंडोपरि ‘ अंजनाभ्यंजने वासः सूत्रं भृंगराजं तुलसी चोपतिष्ठतां इति दत्त्वा ‘ अमुकगोत्रस्य अमुकप्रेतस्य सपिंडीकरणश्राद्धीयामान्नमुदकादिकं चाक्षय्यं उपतिष्ठतां तांबूलदक्षिणामुप० । अनादिनिधनो देवः शंखचक्रगदाधरः । अक्षय्यः पुंडरीकाक्षः प्रेतमोक्ष प्रदोऽस्तु वै ॥ इदं पिंडदानं० अभिरम्यतां ’ इति विसर्जयेत् । अत्र केचित् मोक्षधेनुदानं कुर्वंति । तत्र अद्येत्यादि० ‘ अमुकगोत्रस्य अमुकप्रेतस्य प्रेतत्वनिवृत्तिद्वारा मोक्षप्राप्त्यर्थं श्रीमोक्षदाता महाविष्णुप्रीत्यर्थं मोक्षधेनुदानं करिष्ये ’ इति संकल्प्य ब्राह्मणं गां च संपूज्य दद्यात् । हिरण्यद्वारा वा दद्यात् । ततः अद्येत्यादि० ‘ अमुकगोत्रस्य अमुकप्रेतस्य पिंडं तत्पितृपितामहप्रपितामहपिंडैः सह संयोजयिष्ये ’ ‘ संयोजय ’ इति प्रतिवचनम् । ततः त्रिगुणितसुवर्णरज्ज्वा - अशक्तौ कुशपाशेन वा - प्रेतपिंडं त्रेधा विभज्य प्रथमशकलं पितृपिंडेन सह संयोज्य ‘ अमुकगोत्र अमुकप्रेत अमुकगोत्रेण अमुकवर्मणा ( अमुकगुप्तेन दासेन वेति सर्वत्र ) वसुरुपेण स्वपित्रा सह संयोजयस्व सायुज्यं गच्छ विष्णुलोकं गच्छ नमो भगवते वासुदेवाय ’ इति दधिमधुभ्यां मिश्रीकुर्यात् । ततः द्वितीयशकलं तत्पितामहपिंडेन सह संयोज्य ‘ अमुकगोत्र अमुकप्रेत अमुकगोत्रेण अमुकवर्मणा रुद्ररुपेण स्वपितामहेन सह संयोजयस्व सायुज्यं गच्छ विष्णुलोकं गच्छ नमो भगवते वासुदेवाय ’ इति दधिमधुभ्यां० । ततस्तृतीयशकलं प्रेतप्रपितामहपिंडेन सह संयोज्य ‘ अमुकगोत्र अमुकप्रेत अमुकगोत्रेण अमुकवर्मणा आदित्यरुपेण स्वप्रपितामहेन सह संयोजयस्व सायुज्यं गच्छ विष्णुलोकं गच्छ नमो भगवते० इत्युक्त्वा दधिमधुभ्यां मिश्रीकुर्यात् ( मातुः सपिंडने तु अमुकगोत्रे अमुकप्रेते अमुकगोत्रया अमुकदया वसुरुपया स्वभर्तृमात्रासह संसृजस्वेति । एवं अमुकगोत्रे अमुकप्रेते अमुकगोत्रया अमुकदया रुद्रस्वरुपया स्वभर्तृपितामह्या सहेति० तथैव अमुकगोत्रे अमुकप्रेते अमुकगोत्रया अमुकदया आदित्यस्वरुपया स्वभर्तृप्रपितामह्या सहेति संयोजयेत् ) ततः तानेव पिंडान् पावर्णवद्दद्यात् । यथाअस्मत्पितः अमुकवर्मन् अमुकगोत्र वसुरुप अयं ते पिंडो नमो नमः । अस्मत्पितामह अमुकवर्मन् अमुकगोत्र रुद्ररुप अयं ते पिंडो नमो नमः । अस्मत्प्रपितामह अमुकवर्मन् अमुकगोत्र आदित्यरुप अयं ते पिंडो नमः । एवमाग्नेयीसंस्थान् त्रीन् पिंडान् दत्त्वा तदुपरि तिलोदकं दत्त्वा अंजनाभ्यंजनवासः सूत्रादि पार्वणवद्दत्त्वा ‘ कुलाभिवृद्ध्यर्थं सव्येन पिंडपूजां करिष्ये ’ इति संकल्प्य ‘ पिंडस्थपितृभ्यो नमः ’ इति मंत्रेण यथाशक्ति वस्त्र - चंदन - पुष्प - धूप - दीप - नैवेद्य - तांबूल - दक्षिणा - फल - मंत्रपुष्प - नमस्कारांतं संपूज्य द्वादशदिनधारितं वस्त्रं पिंडोपरि प्रक्षिप्य ‘ एष वोऽनुगतः प्रेतः पितृभागमवाप्नुयात् । शुभं भवतु शेषाणां जायतां चिरजीविनः ’ ॥ इति पठेत् । ( माता चेत् ‘ एषा वोऽनुगता प्रेता ’ इति वदेत् ) ततो विकिरद्वयं दत्त्वा अपसव्यं ‘ अस्मत्पितृपितामहप्रपितामहानां अमुकवर्मणां अमुकगोत्राणां वसुरुद्रादित्यस्वरुपाणां यद्दत्तं मम पितुः ( मातुर्वा ) सपिंडीकरणश्राद्धं तदक्षय्यमस्त्विति भवंतो ब्रुवंतु ’ ‘ अस्त्वक्षय्यं ’ इति प्रतिवचनम् । सव्यं कामकालसंज्ञकानां विश्वेषां देवानां यद्दत्तमित्यादि पूर्ववदक्षय्यं दत्त्वा ‘ दक्षिणाः पांतु ’ इति दक्षिणातांबूलानि दत्त्वा ‘ अयोध्या मथुरा माया ’ इति पिंडान् विसृज्य ‘ उत्तिष्ठंतु पितरः सव्येन विश्वदेवैः सह ’ इति मुक्तग्रंथिकूर्चेन दर्भबटून् ब्राह्मणान् वा स्पृष्ट्वा ‘ आयुः प्रजां धनं ’ इति मंत्राशीर्वादं गृहीत्वा अमुकस्य यत्कृतं सपिंडीकरणश्राद्धं गयाकृतश्राद्धफलमस्त्विति वाचयित्वा एकोविष्णुर्महद्भूतं० अनेन अमुकस्य सपिंडीकरणश्राद्धेन भगवान् परमेश्वरः प्रीयतां विष्णवे नमो विष्णवे नमः इति ३। आचम्य पवित्रं विसृजेत् ॥ इदं वर्षांते मृततिथ्यादौ द्वादशाहे वा कार्यम् ॥ इति सपिंडीकरणश्राद्धप्रयोगः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP