संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|अथान्त्येष्टिप्रयोगः| शवदाहादिविधिः अथान्त्येष्टिप्रयोगः तत्रादौ प्राक्कर्तव्यविधिः शवदाहादिविधिः धनिष्ठापंचक - त्रिपान्नक्षत्र - मरणविधिः प्रथमदिनकृत्यम् विषमश्राद्धम् अथ नग्नप्रच्छादनश्राद्धम् अथ पाथेयश्राद्धम् अस्थिसंचयनम् अस्थिसंचयनश्राद्धम् द्वितीयदिनकृत्यम् तृतीयदिनकृत्यम् चतुर्थदिनकृत्यम् अथ पंचमदिनकृत्यम् अथ षष्ठदिनकृत्यम् अथ सप्तमदिनकृत्यम् अथाष्टमदिनकृत्यम् अथनवमदिनकृत्यम् अथ दशमदिनकृत्यम् अथ वेदिकाश्राद्धम् अथैकादशाहकृत्यम् अथ महैकोद्दिष्टश्राद्धविधिः अथ रुद्रगणश्राद्धम् अथ वसुगणश्राद्धम् षोडशमासिकश्राद्धानि पुनश्च दशदानानि अष्टदानानि उपदानानि बृहच्छय्यादानम् वृषोत्सर्गः सपिंडीकरणश्राद्धम् पाथेयश्राद्धम् निधनशान्तिः उदकुंभश्राद्धम् धनिष्ठापंचकमरणशांतिः श्रवणामान्नविधिः पालाशप्रतिकृतिदाहविधिः रजस्वला - सूतिका - मरणविधिः कुष्ठीमरणविधिः गर्भिणीमरणविधिः पाखण्ड्यादिमरणनिर्णयः तीर्थेऽस्थिप्रक्षेपविधिः अश्मबद्धश्मशानोत्सर्गः सर्पदष्टव्रतविधिः एतद्ग्रन्थविषयानुक्रमः ग्रन्थप्रणेतुर्वंशानुवर्णनम् अथान्त्येष्टिप्रयोगः - शवदाहादिविधिः ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत शवदाहादिविधिः Translation - भाषांतर प्राणोत्क्रमणानंतरं पुत्रादिः कर्ता स्नात्वा देशकालौ संकीर्त्य अपसव्यं अमुकगोत्रस्य अमुकप्रेतस्य सव्यं ऊर्ध्वोच्छिष्टाधरोच्छिष्टोभयोच्छिष्टास्पृश्यस्पृष्टे मरण - खट्वादिमरण - जनित - प्रत्यवायपरिहाराथ कृच्छ्रत्रयप्रायश्चित्तं तत्प्रत्याम्नायत्वेन सूतकांते यथाशक्ति गोनिष्क्रयीभूतद्रव्यदानेनाहमाचरिष्ये तथा अद्येत्यादि० ममात्मशुद्धिद्वारा पित्रादेरौर्ध्वदेहिकाधिकारसिद्ध्यर्थं कृच्छ्रत्रयप्रायश्चित्तं प्रतिकृच्छ्रं तत्प्रत्याम्नायत्वेन सूतकांते यथाशक्ति गोनिष्क्रयीभूतद्रव्यदानेनाहमाचरिष्ये । तथा अद्येत्यादि० अपसव्यं अमुकगोत्रस्य अमुकप्रेतस्य मरणनिमित्तकं केशश्मश्रुलोमनखानि वापयिष्ये इति संकल्प्य ‘ यानि कानि च पापानि ब्रह्महत्यासमानि च । केशानाश्रित्य तिष्ठंति तस्मात् केशान्वपाम्यहम् ॥ ’ इत्युक्त्वा दक्षिणमुखः केशश्मश्रुलोमनखानि वापयेत्कक्षोपस्थवर्जं कर्तृभिन्नानां दशमेऽहनि वपनं दिने मृतस्य दिवैव दाहः रात्रौ मृतस्य रात्रावेव दाहः वपनं तु परेद्युः कार्यम् । एवं वपनं कृत्वा स्नायात् । दिवारात्रौ वाऽवस्थितं शवं पर्युषितम् तदा पर्युषितं शवं पंचगव्येन स्नापयित्वा कृच्छ्रत्रयप्रायश्चित्तं कृत्वा दहेत् । तद्यथा - देशकालौ स्मृत्वा अपसव्यं ‘ अमुकगोत्रस्यामुकप्रेतस्य रात्रावकृतदाहसंस्कारजनितप्रत्यवायपरिहारद्वारा कृच्छ्रत्रयप्रायश्चित्तं प्रतिकृच्छ्रं तत्प्रत्याम्नायत्वेन सूतकांते यथाशक्तिगोनिष्क्रयीभूतद्रव्यदानद्वाराऽहमाचरिष्ये ’ इति संकल्पयेत् । ततः प्रेतस्य मृज्जलाभ्यां मलं प्रक्षाल्य स्नापयेत् । ततः कर्ता आचम्य देशकालौ स्मृत्वा अपसव्यं अमुकगोत्रस्य अमुकप्रेतस्य ( मात्रादिमरणे अमुकगोत्रायाः अमुकप्रेताया इति ) प्रेतत्वनिवृत्त्योत्तमलोकप्राप्त्यर्थं और्ध्वदेहिकं करिष्ये इति संकल्प्य भूमिं प्रोक्षयेत् । प्रेतकृत्ये स्नानाचमनसंकल्पादौ सव्यं इतरत्सर्वं प्रेतकृत्यमपसव्येनैव । ‘ सर्वसस्याश्रया भूमिर्वराहेण समुद्धृता । अनंतफलदात्री च मम पापं व्यपोहतु ’ ॥ इति भूमिं प्रार्थ्य अपवित्रः पवित्रो वेति मंत्रेण भूमिं प्रोक्षयेत् ततो दाहदेशे आयसेन रेखात्रयमुल्लिखेत् । यथा - ‘ यमाय दहनपतये चोल्लिखामि ’ इति मध्ये ‘ कालाय दहनपतये चोल्लिखामि ’ इत्युत्तरतः । ‘ मृत्यवे दहनपतये चोल्लिखामि ’ इति दक्षिणतः । दाहदेशे हिरण्यशकलं तिलांश्च क्षिप्त्वा तिलोदकं क्षिपेत् । ‘ यमाय दहनपतये पितृभ्यो नमः कालाय दहनपतये पितृभ्यो नमः मृत्युवे दहनपतये पितृभ्यो नमः ’ इति मंत्रैस्तिलोदकं क्षिपेत् । ततः सजातीयाश्चितिकरणकुशला यज्ञियकाष्ठैर्दहनपर्याप्तां चितिं कुर्युः । ततोऽग्नेरुत्तरेण प्रेतं नीत्वा दक्षिणदिशि तस्य वायव्यामग्नेर्निधानं ततश्चितौ प्रेतं दक्षिणशिरसं निवेशयेत् । प्रेतमुखे नासिकाद्वये चक्षुर्द्वये श्रोत्रद्वये च एवं सप्तच्छिद्रेषु आज्यबिंदून् क्षिपेत् प्रेतशरीरे घृताक्तांस्तिलान् क्षिपेत् ततो देशकालौ स्मृत्वा ‘ प्रेतोपासनं करिष्ये क्रव्यादनामानमग्निं प्रतिष्ठापयामि ’ इति प्रतिष्ठाप्य समिदद्वयमादाय अग्निं कामं लोकं अनुमतिं एताः देवताः अग्नौ आज्येन यक्ष्ये प्रेतं प्रेतोरसि आज्येन यक्ष्ये प्रजापतये नमः इति समिदद्वयमग्नौ क्षिपेत् । प्रजापतय इदं न ममेति त्यागः । ततः चितिसहितमग्निं परिसमुह्य परिस्तीर्य पर्युक्ष्य ततोऽग्नेरुत्तरतः प्रोक्षणीं स्रुवं चमसं आज्यपात्रं चासाद्य प्रोक्षणीपूरणादि कृत्वा चमसं शुद्धाभिरद्भिः पूरयित्वा गंगे च यमुने चैवेति मंत्रेण चमसानुमंत्रणं कुर्यात् । ततस्तूष्णीमाज्यं संस्कृत्य उत्पूय बर्हिषि निधाय स्रुवं संभृज्य अग्निं तूष्णीमलंकृत्य वामजानुं पातयित्वा स्रुवेणाज्यं जुहुयात् । अग्नये नमः अग्नय इदं न मम कामाय नमः कामायेदं० लोकाय नमः लोकायेदं० अनुमतये नमः अनुमतय इदं० ‘ असौ अमुकप्रेतः संस्कार्यलोकाय नमः ’ इति मंत्रेण प्रेतोरसि आज्यं जुहुयात् । अत्र स्विष्टकृदादि नास्ति पात्रसंयोजनं नास्ति ततः सक्तुपिष्टेन पंचापूपान् कृत्वा आज्येनाभिघार्य तान् अवयवपिंडान् प्रेतस्य ललाटे मुखे बाहुद्वये ह्रदये च पंचसु स्थानेषु दद्यात् । अग्नये नमः इति ललाटे अग्नये नमः मुखे सारमेयाभ्यां० बाहुद्वये श्वभ्यां० ह्रदये इति दद्यात् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP