संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
श्राद्धांगतर्पणम्

अथान्हिकादिप्रकरणम् - श्राद्धांगतर्पणम्

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आचम्य पवित्रपाणिर्देशकालौ स्मृत्वा अस्मत्पितुः अमुकश्राद्धांगभूतं तिलोदकतर्पणं परेऽहनि करिष्ये ( श्राद्धदिन एव कर्तव्ये तु परेऽहनि करिष्यमाणं पितृतर्पणं अद्यैवाऽपकर्षेण सद्यः करिष्ये ) इति संकल्प्य यवोदकेन ‘ पुरुरवार्द्रवसंज्ञकान् विश्वान् देवांस्तर्पयामि ’ इत्यंजलिद्वयं दत्त्वा द्वितीयविश्वान् देवांस्तर्पयामि ’ । अपसव्यं - ‘ अस्मत्पिता अमुकवर्मा अमुकगोत्रः वसुरुपस्तृप्यताम् इति पितृतीर्थेन
सकुशतिलोदकांजलिं त्रिर्दद्यात् । एवं अस्मत्पितामहः अमुकवर्मा अमुकगोत्रः रुद्ररुपस्तृप्यताम् अस्मत्प्रपितामहः अमुकवर्मा अमुकगोत्रः आदित्यरुपस्तृप्यताम् । ‘ आब्रह्मस्तंबपर्यंतं देवर्षिपितृमानवाः । तृप्यंतु पितरः सर्वे मातृमातामहादयः ॥ अतीतकुलकोटीनां सप्तद्वीपनिवासिनाम् । आब्रह्मभुवनाल्लोकादिदमस्तु तिलोदकम् । ’ इत्यंजलिं दत्त्वा ‘ ये के चास्मत्कुले जाता अपुत्रा गोत्रिणो मृताः । ते गृह्णंतु मया दत्तं वस्त्रनिष्पीडनोदकम् ॥ ’ इति पठित्वा वस्त्रं निष्पीड्य सव्येन - एको विष्णुर्महद्भूतं० । अनेन मम पितुः अमुकश्राद्धांगतिलोदकतर्पणेन भगवान् पितृरुपी जनार्दनवासुदेवः प्रीयतां तत्सद्ब्रह्मार्पणमस्तु विष्णवे नम इति त्रिरुक्त्वा आचम्य पवित्रं विसृजेत् ॥ इति कृत्यदिवाकरे मध्यांशौ श्राद्धांगतर्पणम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP