संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्| यज्ञोपवीताभिमंत्रणम् अथान्हिकादिप्रकरणम् तत्रादौ प्रातः कृत्यम् श्रीगणेशप्रातः स्मरणम् श्रीशिवप्रातः स्मरणम् श्रीविष्णुप्रातः स्मरणम् श्रीसूर्यप्रातः स्मरणम् श्रीदेवीप्रातः स्मरणम् मूत्रपुरीषोत्सर्ग - ( शौच ) - विधिः दंतधावनम् स्नानविधिः मंत्रादिस्नानविधिः ब्रह्मयज्ञः ब्रह्मयज्ञांगतर्पणम् ब्रह्मयज्ञांगस्वपितृतर्पणम् उत्सर्जनोपाकरणे ( श्रावणीप्रयोगः ) उत्सर्जनाड्गस्नानविधिः ऋषिपूजनम् तदड्गतर्पणम् उपाकरणम् यज्ञोपवीताभिमंत्रणम् अथ सर्वदेवानां साधारणपूजा मंत्रपुष्पाञ्जलिमंत्राः वैश्वदेवः साड्गः नित्यश्राद्धम् मनुष्ययज्ञः गोग्रासार्पणम् भोजनविधिः पार्वणश्राद्धप्रयोगः अथ पिंडप्रदानम् श्राद्धांगतर्पणम् केवलामान्नदानश्राद्धप्रयोगः दर्शश्राद्धम् अविधवानवमीश्राद्धम् अक्षय्यतृतीयायां उदकुम्भदानम् महालयश्राद्धादौ पितृगणक्रमः अथान्हिकादिप्रकरणम् - यज्ञोपवीताभिमंत्रणम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत यज्ञोपवीताभिमंत्रणम् Translation - भाषांतर अद्येत्यादि० उपाकर्माड्गत्वेन यज्ञोपवीताभिमन्त्रणं धारणं च करिष्ये । यज्ञोपवीतं प्रक्षाल्य ब्रह्मणे नमः विष्णवे नमः रुद्राय नमः त्र्यम्बकाय नमः ‘ आपो देव्य ऋषीणां विश्वधात्र्यो दिव्यामदन्त्यो याः शड्करा धर्मधात्र्यः । हिरण्यवर्णाः पावकाः शिवतमेन रसेन श्रेयसो मां जुषन्तु ॥ ‘ अपवित्रः पवित्रो वा० ’ इति प्रोक्ष्य । परमेष्ठिनं प्रथमतन्तौ न्यसामि वह्निं द्वितीयतंतौ० सर्पांस्तृती० चंद्रमसं चतुर्थ० पितृन्पञ्चम० प्रजापतिं षष्ठ० वायुं सप्तम० सूर्यमष्टमतंतौ० विश्वान् देवान्नवम० इति प्रतियज्ञोपवीतं ‘ यो देवः सविताऽस्माकं धियो धर्मादि गोचरे । प्रेरयेत्तस्य यद्भर्गस्तद्वरेण्यमुपास्महे ॥ इति दशवारं जप्त्वा ‘ परो रजः सवितुर्जातवेदो देवस्य भर्गो मनसेदं जजान । सुरेतसाऽदः पुनराविश्य चष्टे हंसं गृध्राणं नृपद्रिं गिरामिमः ॥ ’ इति सूर्याय दर्शयित्वा ‘ यज्ञोपवीतं सहजं विधातुरनादिदिव्यं परमं पवित्रम् । तेजोबलायुष्प्रदमुज्ज्वलं च श्रेष्ठं स्वकण्ठे प्रतिमुञ्च एतत् ॥ ’ इति मन्त्रेण धारयेत् । आचम्य जीर्णं यज्ञोपवीतं जले विसृजेत् । तत उत्सर्जनवत् ‘ धृता त्वं विष्णुना - ’ इत्यादि ब्रह्मयज्ञान्ते सर्वे ‘ उपाकृता वै स्वविद्यामन्त्राः ’ इत्यञ्जलिस्थान् कुशान् दक्षिणकटौ निवेशयेयुः । आचार्यः प्रायश्चित्तादिहोमशेषं समापयेत् । कर्मणः साड्गतासिद्ध्यर्थं ब्राह्मणेभ्य आमद्रव्यं दक्षिणां च दद्युः । आचार्योऽग्निं विसृज्य कर्मेश्वरार्पणं कृत्वा विष्णुं नत्वा द्विराचामेत् । इति संक्षिप्रोपाकरणप्रयोगः ॥ ॥दिवाकरकृतस्यास्य कृत्याणां पूर्तिमिच्छता । ईश्वरान्तस्य यज्ञस्य सूनुनाऽनन्तशर्मणा ॥ धूपकारेत्युपाह्वेन सोपाकरणसंयुता । उत्सर्जनाख्या स्वकृतिर्लोकोपकृतयेऽर्पिता ॥ ‘ साधले ’ इत्युपाह्वाय श्रीगजाननशर्मणे । तेन श्रीशड्करः सोमः प्रीणातु जनशड्करः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP