संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
मंत्रादिस्नानविधिः

प्रातः स्मरणम् - मंत्रादिस्नानविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


आतुरत्वादिनास्नानाशक्तौ दर्भैर्मार्जनं भस्मस्नानं गोरजसा स्नानमार्द्रवस्त्रेणांगमार्जनं विप्रवाक्येन सारस्वतं मार्जनं मानसं वा स्नानं कार्यम् । तद्यथा - ध्यायेदादित्यसंकाशं वासुदेवं चतुर्भुजम् । शंखचक्रगदापद्मवनमालाविराजितम् ॥ तत्पादोदकजां धारां निपतंतीं स्वमूर्धनि । चिंतयेद्ब्रह्मरंध्रेण प्रविशंतीं स्वकां तनूम् ॥ तया संक्षालयेत् सर्वमंतर्देहगतं मलम् । अपवित्रः पवित्रो वा सर्वावस्थां गतोपि वा । यः स्मरेत् पुंडरीकाक्षं सबाह्याभ्यंतरः शुचिः ॥ इति मंत्रैर्मार्जयेत् । इति मंत्रस्नानादिविधिः ॥ ॥ ततः कांस्यपात्रस्थे आज्ये स्वप्रतिबिंबं अवलोक्य - आज्यं तेजः समुद्दिष्टमाज्यं पापहरं परम् । आज्यं सुराणामाहार आज्ये यज्ञाः प्रतिष्ठिताः ॥ इति - कामधेनुसमुद्भूतं सर्वक्रतुषु संस्थितम् । देवानामाज्यमाहारमतः शांतिं प्रयच्छ मे ॥ इति मंत्राभ्यां विप्राय तद्दद्यात् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP