संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
भोजनविधिः

अथान्हिकादिप्रकरणम् - भोजनविधिः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


बालवृद्धगर्भिण्यातुरसखीबांधवादीन् संभोज्य पाणिपादं प्रक्षाल्याचम्य शुचौ देशे रहसि भूमौ मंडलं कृत्वा कांस्यादिपात्रे परिविष्टमन्नं प्राड्मुखोपविष्टो मौनी घृताक्तं प्रोक्ष्य ‘ धर्मराजाय नमः चित्राय नमः चित्रगुप्ताय० प्रेतेभ्यो नमः ’ इति बलिं दक्षिणतो भूमौ दत्त्वा तदुपरि जलं दत्त्वा ‘ अद्भ्यो नमः ’ इति जलं प्राश्य देवतीर्थेन सांगुष्ठेन तूष्णीं ‘ नमः ’ इत्यनेन वा पंचग्रासान् प्राश्य यथासुखं भुंजीयात् । अन्ये भोजननियमाः द्विजवदेव ज्ञेयाः । भोजनांते मुखपाणिपादं प्रक्षाल्य द्विराचम्य जानुनी स्पृष्ट्वा पुनराचम्य अगस्तिं कुंभकर्णं च शनिं च वडवानलम् । आहारपरिणामार्थं स्मरामि च वृकोदरम् ॥ इत्युदरं संस्पृश्य तांबूलं प्राश्य पुराणश्रवणादिनाऽहः शेषं निनयेत् ॥ ततो रात्रौ रविपर्वसंक्रमव्यतीपातवैधृतिश्राद्धतत्पूर्वदिनभिन्नरात्रौ द्वितीयवारं भुक्त्वा यामोत्तरं अगस्तये नमः माधवाय० मुचुकुंदाय० कपिला० आस्तिकाय० इति नत्वा प्राच्यां दक्षिणतो वा शिरः कृत्वा स्वपेत् । तत्र स्त्रिया ऋतावाद्यदिनचतुष्कैकादश - त्रयोदशवर्ज - षोडशदिनमध्ये चतुर्थ्यष्टमी षष्ठी चतुर्दशी पर्वद्वयश्राद्धतत्पूर्वदिनभिन्नायां रात्रौ शनिरविभौमवर्जं भरणी कृत्तिकार्द्रा मघा पूर्वा विशाखा ज्येष्ठा मूल पूर्वाषाढा पूर्वाभाद्रपदा जन्मर्क्षसंक्रमपातवैधृतिवर्जं समरात्रौ संगं कृत्वा मूत्रात्र्त्रिगुणं शौचं स्नानं च कुर्यात् । स्त्रिया अनृतौ संगे कृते स्नानवर्जं शौचं कृत्वा स्वपेत् । इदमाह्निकं प्रत्यहं कुर्यात् ॥ ॥ इति कृत्यदिवाकरे मध्यमांशौ क्षत्रियादित्रैवर्णाह्निकं समाप्तम् ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP