संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्| अथ सर्वदेवानां साधारणपूजा अथान्हिकादिप्रकरणम् तत्रादौ प्रातः कृत्यम् श्रीगणेशप्रातः स्मरणम् श्रीशिवप्रातः स्मरणम् श्रीविष्णुप्रातः स्मरणम् श्रीसूर्यप्रातः स्मरणम् श्रीदेवीप्रातः स्मरणम् मूत्रपुरीषोत्सर्ग - ( शौच ) - विधिः दंतधावनम् स्नानविधिः मंत्रादिस्नानविधिः ब्रह्मयज्ञः ब्रह्मयज्ञांगतर्पणम् ब्रह्मयज्ञांगस्वपितृतर्पणम् उत्सर्जनोपाकरणे ( श्रावणीप्रयोगः ) उत्सर्जनाड्गस्नानविधिः ऋषिपूजनम् तदड्गतर्पणम् उपाकरणम् यज्ञोपवीताभिमंत्रणम् अथ सर्वदेवानां साधारणपूजा मंत्रपुष्पाञ्जलिमंत्राः वैश्वदेवः साड्गः नित्यश्राद्धम् मनुष्ययज्ञः गोग्रासार्पणम् भोजनविधिः पार्वणश्राद्धप्रयोगः अथ पिंडप्रदानम् श्राद्धांगतर्पणम् केवलामान्नदानश्राद्धप्रयोगः दर्शश्राद्धम् अविधवानवमीश्राद्धम् अक्षय्यतृतीयायां उदकुम्भदानम् महालयश्राद्धादौ पितृगणक्रमः अथान्हिकादिप्रकरणम् - अथ सर्वदेवानां साधारणपूजा ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत अथ सर्वदेवानां साधारणपूजा Translation - भाषांतर आचम्य श्रीवरदमूर्तिश्रीमन्महागणाधिपतये नमः । इष्टदेवतायै नमः कुलदेवतायै० श्रीगुरुभ्यो० परात्परगुरुभ्यो० लक्ष्मीनारायणाभ्यां० उमामहेश्वराभ्यां० शचीपुरंदराभ्यां० ग्रामदेवताभ्यो० स्थानदेवताभ्यो० वास्तुदेवताभ्यो न० आदित्यादिनवग्रहदेवताभ्यो० सर्वेभ्यो देवेभ्यो नमः सर्वेभ्यो ब्राह्मणेभ्यो नमो नमः अविघ्नमस्तु । सुमुखश्चैकदंतश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो गणाधिपः ॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः । द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥ विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोस्तु ते ॥ विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् । सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥ अभीप्सितार्थसिद्ध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिंदीवरश्यामो ह्रदयस्थो जनार्दनः ॥ सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् । येषां ह्रदिस्थो भगवान् मंगलायतनं हरिः ॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवानीतिर्मतिर्मम ॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः । देवा दिशंतु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥ श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्यास्मिन् ब्रह्मांडे भूर्लोके ब्रह्मणो द्वितीये परार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वंतरे अष्टाविंशतितमे युगे युगचतुष्के कलियुगे प्रथमचरणे जंबुद्वीपे भरतवर्षे भरतखंडे दक्षिणापथे रामक्षेत्रे बौद्धावतारे दंडकारण्ये देशे शालिवाहनशके संध्यावर्तमाने गोदावर्याः दक्षिणे तीरे वर्तमानव्यावहारिके अमुकनामसंवत्सरे अमुकायने अमुकऋता अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवासरे अमुकदिवसनक्षत्रे अमुकराशिस्थिते चंद्रे अमुकराशिस्थिते सूर्ये अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथं राशिस्थानस्थितेषु सत्सु शुभनामयोगे शुभकारणे एवंगुणविशेषणविशिष्टायां शुभपुण्यतिथौ ममात्मनः सकलशास्त्रपुराणोक्तफलप्राप्त्यर्थं अस्माकं सर्वेषां सकुटुंबानां क्षेमस्थैर्यविजयाभयायुरारोग्यैश्वर्याभिवृद्ध्यर्थं समस्तमंगलावाप्त्यर्थं समस्ताभ्युदयार्थ समस्तदुरितोपशांत्यर्थं च अमुकदेवताप्रीत्यर्थं यथासंपादितद्रव्यैर्ध्यानावाहनादि षोडशोपचारैः अमुकदेवतापूजनं करिष्ये तदंगत्वेनादौ कलशपूजनं शंखपूजनं घंटापूजनं दीपपूजनं च करिष्ये तत्रादौ निर्विघ्नतासिद्ध्यर्थं गणपतिपूजनं ( स्मरणं वा ) करिष्ये इति संकल्प्य वक्रतुंडेति गणेशं संपूज्य ( धात्वा वा ) कलशं पूजयेत् । कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुंधरा । ऋग्वेदोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ अंगैश्च सहिताः सर्वे कलशं तु समाश्रिताः । अत्र गायत्री सावित्री शांतिपुष्टिकरी तथा ॥ आयांतु देवपूजार्थं दुरितक्षयकारकाः । गंगे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिंधो कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥ अस्मिन् कलशे गंगायमुनादिसर्वतीर्थान्यावाहयाभि कलशदेवतायै नमः ( वरुणाय नमः वा ) सर्वोपचारार्थे गंधाक्षतपुष्पाणि समर्पयामि ‘ अपवित्रः पवित्रो वा ’ इति कलशोदकेन पूजाद्रव्याणि प्रोक्ष्य आत्मानं च प्रोक्षयेत् ॥ शंखादौ चंद्रदैवत्यं कुक्षौ वरुणदेवता । पृष्ठे प्रजापतिश्चैव अग्रे गंगा सरस्वती ॥ त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया । शंखे तिष्ठंति विप्रेंद्र तस्माच्छंखं प्रपूजयेत् ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । निर्मितः सर्वदेवैश्च पांचजन्य नमोस्तु ते ॥ शंखदेवताभ्यो नमः सर्वोपचारार्थ गंधपुष्पतुलसीपत्राणि सम० ॥ आगमार्थं तु देवानां गमनार्थंतु रक्षसाम् । कुरु घंटे रवं तत्र देवताह्वानलक्षणम् । घंटादेवतायै नमः सर्वोपचारार्थे गंधाक्षत० ॥ भो दीप ब्रह्मरुपस्त्वं ज्योतिषां प्रभुरव्ययः । अरोग्यं देहि पुत्रांश्च अतः शांतिं प्रयच्छ मे ॥ दीपदेवतायै० सर्वोप० ॥ अथध्यानं ॥ - शांताकारं० ’ इति विष्णुं, ‘ ध्यायेन्नित्यं महेशं० ’ इति शिवं, ‘ गजवदनमचिंत्यं० ’ इति गणेश्म, ‘ ध्येयः सदा० ’ इति सूर्यं, ‘ नमो देव्यै० ’ इति देवीं, ध्यायेदाजानुबाहुं इति रामं, ‘ मालाकमण्डुरधः करपद्मयुग्मे मध्यस्थपाणियुगुले डमरुत्रिशूले । यस्यस्त ऊर्ध्वकरयोः शुभशंखचक्रे वंदे तमत्रिवरदं भुजषकयुक्तम् ॥ इति दत्तात्रेयं वा ध्यायेत् । अमुकदेवतायै नमः ध्यायामि ॥ आगच्छ देवदेवेश तेजोराशे जगत्पते । क्रियमाणां मया पूजां गृहाण सुरसत्तम । ‘ अमुकदेवतायै नमः ’ ( इति सर्वोपचारेषु ) आवाहयामि ॥ नानारत्नसमायुक्तं कार्तस्वरविभूषितम् । आसनं देवदेवेश प्रीत्या च प्रतिगृह्यताम् । आसनं समर्प० ॥ पाद्यं गृहाण देवेश सर्वक्षेमसमर्थ भो । भक्त्या समर्पितं देव लोकनाथ नमोऽस्तु ते । पाद्यं स० ॥ नमस्ते देवदेवेश नमस्ते धरणीधर । नमस्ते जगदाधार अर्घ्यमेतत्प्रगृह्यताम् । अर्घ्यं स० ॥ कर्पूरवासितं तोयं मंदाकिन्याः समाह्रतम् । आचम्यतां जगन्नाथ मया दत्तं हि भक्तितः । मलापकर्षस्नानं स० ॥ पंचामृतैः स्नपयिष्ये - कामधेनोः समुद्भूतं देवर्षिपितृतृप्तिदम् । पयो ददामि ते देव स्नानार्थं प्रतिगृह्यताम् । पयः स्नानंस० ॥ पयः स्नानानंतरं शुद्धोदकस्नानं स० ( सकलपूजार्थे गंधाक्षतपुष्पाणि स० अथवा सर्वत्र गंधादि मंत्रपुष्पांतैः पंचोपचारैः पूजयेत् ) ॥ चंद्रमंडलसंकाशं सर्वदेवप्रियं दधि । स्नानार्थं ते मया देव दत्तं तत्प्रतिगृह्यताम् । दधिस्नानं स० शुद्धोदकस्नानं० ॥ आज्यं सुराणामाहार आज्यं यज्ञे प्रतिष्ठिम् । आज्यं पवित्रं परमं स्नानार्थं प्रतिगृह्यताम् । घृतस्नानं स० शुद्धो० ॥ सर्वौषधिसमुत्पन्नं पीयूषसदृशं मधु । स्नानार्थं ते प्रयच्छामि गृह्यतां परमेश्वर । मधुस्ना० शुद्धो० ॥ इक्षुसंभूतया देव दिव्यशर्करया विभो । भक्त्या त्वां स्नापयाम्यद्य प्रीतो भव सदा मम । शर्करास्ना० शुद्धो० ॥ मलयाचलसंभूतं घनसारं मनोहरम् । ह्रदयानंदनं चारु स्नानाय प्रतिगृह्यताम् । गंधोदकस्नानं स० ॥ भवः शर्वो रुद्र इति मंत्रेण शुद्धोदकस्नानं स० आचमनीयं स० ॥ ततो गंधपुष्पधूपदीपनैवेद्याद्युपचारैः पूजयित्वा अनेन पंचामृतपूर्वाराधनेन अमुकदेवता प्रीयताम् । ततो उत्तरे निर्माल्यं विसृज्य तत्तद्देवतामंत्रैर्महाभिषेकं महिम्नस्तोत्रेण महापुरुषविद्यया सुरास्त्वेत्यादिमंत्रैश्च कुर्यात् । ततः स्नानांते आचमनीयं स० सुप्रतिष्ठितो भव इति प्रतिष्ठाप्य ॥ सर्वभूषाधिके सौम्ये लोकलज्जानिवारणे । मयोपपादिते तुभ्यं वासासी प्रतिगृह्यताम् । वस्त्रयुग्मं स० आचमनं स० । यज्ञोपवीतं सहज ब्रह्मणा निर्मितं पुरा । आयुष्यं बलवर्चस्यमुपवीतं गृहाण भो । यज्ञोपवीतं स० आचमनं स० ॥ श्रीखंडं चंदनं० ॥ चंदनं स० ॥ अक्षताश्च० अक्षतान् स० ॥ हरिद्रा स्वर्णवर्णाभा सर्वसौभाग्यदायिनी । सर्वालंकारमुख्या हि देवि त्वं प्रतिगृह्यताम् । हरिद्रां० ॥ हरिद्राचूर्णसंभूतं कुंकुमं कामदायकम् । वस्त्रालंकरणं दिव्यं देवि त्वं प्रतिगृह्यताम् । कुंकुमं० ॥ कज्जलं नवनीताढ्यं दिव्यदृष्टिदमंजनम् । नेत्रयोर्भूषणर्थाय देवि त्वं प्रतिगृह्यताम् । कज्जलं० ॥ उदितारुणसंकाशं जपाकुसुमसन्निभम् । सीमंते भूषणार्थाय सिंदूरं प्रति गृह्यतां ॥ सिंदूरं स० ॥ मांगल्यतंतुग्रथितं मुक्तामणिविराजितम् । कंठस्य भूषणार्थाय ददामि त्वं प्रगृह्यताम् ॥ कंठस्यभूषणानि स० ॥ काचस्य निर्मितं दिव्यं कंकणं त्वं सुरेश्वरि । हस्तालंकरणार्थाय प्रतिगृह्य नमोऽस्तु ते । कंकणानि स० ॥ अलंकारान् मया देवि सुवर्णेन विनिर्मितान् । अनेकरत्नखचितानर्पये तुभ्यमुत्तमान् । नानालंकारान् ० ॥ नानासुगंधिद्रव्योत्थं घ्राणतृप्तिकरं परम् । भक्त्या समर्पये तुभ्यं प्रसीद परमेश्वर । परिमलद्रव्यं० ॥ माल्यादीनि सुगंधीनि मालत्यादीनि वै प्रभो । मया ह्रतानि पूजार्थं पुष्पाणि प्रतिगृह्यताम् । पुष्पाणि० । केशवादि चतुर्विंशतिनामभिस्तुलसीपत्राणि समर्पयेत् ॥ त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् । त्रिजन्मपापसंहारं एकबिल्वं शिवार्पणम् ॥ इति शिवाय बिल्वपत्राणि गणपतये च दूर्वांकुरान् समर्पयेत् । ततः । वनस्पतिरसोत्पन्नो गंधाढ्यो गंध उत्तमः । आघ्रेयः सर्वदेवानां धूपोऽयंप्रतिगृह्यतां । धूपं० ॥ साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया । दीपं गृहाण देवेश त्रैलोक्यतिमिरापह । दीपं सम० ॥ नैवेद्यं गृह्यतां देव भक्तिं मेह्यचलां कुरु । ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥ शर्कराखंडखाद्यानि दधिक्षीरघृतानि च । आहारं भक्ष्यं भोज्यं च नैवेद्यं प्रति० नैवेद्यार्थे ( देवताधिक्ये यथांशतः ) अमुकनैवेद्यं रक्षस्व ( रक्षध्वं ) प्राणाय नमः अपानाय नमः व्यानाय नमः उदानाय नमः समानाय नमः ब्रह्मणे नमः नैवेद्यं स० । मध्ये पानीयं० पुनः प्राणाय नम इति ६। उत्तरापोशनं हस्तप्रक्षालनं० मुखप्रक्षालनं० करोद्वर्तनार्थे चंदनं० मुखावासार्थे पूगीफलं सतांबूलं० - पूगीफल महाद्दिव्यं नागवल्ल्या दलैर्युतम् । कर्पूरैलासमायुक्तं तांबूलं प्रति० । तांबूलं स० ॥ हिरण्यगर्भगर्भस्थं० दक्षिणां० ॥ इदं फलं मया देव० नारीकेल महाफलं स० ॥ चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम् ॥ आर्तिक्यं कल्पितं भक्त्या गृहाण परमेश्वर । आर्तिक्यदीपं स० ॥ कर्पूरपूरेण मनोहरेण सुवर्णपात्रोदरसंस्थितेन । प्रदीप्तमासा सहसागतेन नीराजनं ते जगदीश कुर्वें । कर्पूरातिंक्यदीपं० ॥ तत्तद्देवतामंत्रैः नमस्काराम्न् ० ॥ यानि कानि च पापा० प्रदक्षिणा० ॥ विश्वेश्वर विरुपाक्ष विश्वरुप सदाशिव । शरणं भव भूतेश करुणाकर शंकर ॥ हर शंभो महादेव विश्वेशामरवल्लभ । शिवशंकर सर्वात्मन् नीलकंठ नमोऽस्तु ते ॥ मृत्युंजयाय रुद्राय नीलकंठाय शंभवे । अमृतेशाय शर्वाय महादेवाय ते नमः । मंत्रपुष्पांजलिं स० ॥ छत्रचामरगीतनृत्यवाद्यादर्शांदोलनादि सर्वराजोपचार्थे गंधाक्षतपुष्पाणि स० । आवाहनं न जानामि न जानामि विसर्जनम् ॥ पूजां चैव न जानामि क्षम्यतां परमेश्वर ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । तस्मात्कारुण्यभावेन रक्षस्व परमेश्वर ॥ गतं दुःखं गतं पापं गतं दारिद्यमेव च । आगता सुखसंपत्तिः पुण्याच्च तव दर्शनात् ॥ त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥ कायेन वाचा मनसेंद्रियैर्वा बुद्ध्यात्मना वानुसृतः स्वभावत् । करोमि यद्यत्सकलं परस्मै नारायणायेति समर्पयेत्तत् ॥ रुपं देहि जयं देहि यशो देहि द्विषो जहि । पुत्रान् देहि धनं देहि सर्वानू कामांश्च देहि मे । प्रार्थनां स० ॥ यस्य स्मृत्या च नामोक्त्या तपः पूजाक्रियादिषु । न्यूनं संपूर्णतां याति सद्यो वंदे तमच्युतम् । मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर । यत्पूजितं मया देव परिपूर्णं तदस्तु मे ॥ अनेन यथाज्ञानतः यथामीलितोपचारद्रव्यैर्ध्यानावाहनादिषोडशोपचारैः कृतपूजनेन भगवान् अमुकदेवतास्वरुपी परमेश्वरः प्रीयतां तत्सद्ब्रह्मार्पणमस्तु विष्णवे नमो विष्णवे नमो विष्णवेनमः । आचामेत् ॥ इति कृत्यदिवाकरे सर्वदेवसाधारणपूजा समाप्ता ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP