संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्| तत्रादौ प्रातः कृत्यम् अथान्हिकादिप्रकरणम् तत्रादौ प्रातः कृत्यम् श्रीगणेशप्रातः स्मरणम् श्रीशिवप्रातः स्मरणम् श्रीविष्णुप्रातः स्मरणम् श्रीसूर्यप्रातः स्मरणम् श्रीदेवीप्रातः स्मरणम् मूत्रपुरीषोत्सर्ग - ( शौच ) - विधिः दंतधावनम् स्नानविधिः मंत्रादिस्नानविधिः ब्रह्मयज्ञः ब्रह्मयज्ञांगतर्पणम् ब्रह्मयज्ञांगस्वपितृतर्पणम् उत्सर्जनोपाकरणे ( श्रावणीप्रयोगः ) उत्सर्जनाड्गस्नानविधिः ऋषिपूजनम् तदड्गतर्पणम् उपाकरणम् यज्ञोपवीताभिमंत्रणम् अथ सर्वदेवानां साधारणपूजा मंत्रपुष्पाञ्जलिमंत्राः वैश्वदेवः साड्गः नित्यश्राद्धम् मनुष्ययज्ञः गोग्रासार्पणम् भोजनविधिः पार्वणश्राद्धप्रयोगः अथ पिंडप्रदानम् श्राद्धांगतर्पणम् केवलामान्नदानश्राद्धप्रयोगः दर्शश्राद्धम् अविधवानवमीश्राद्धम् अक्षय्यतृतीयायां उदकुम्भदानम् महालयश्राद्धादौ पितृगणक्रमः अथान्हिकादिप्रकरणम् - तत्रादौ प्रातः कृत्यम् ‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते. Tags : krutya divakarpoojaकृत्य दिवाकरपूजासंस्कृत तत्रादौ प्रातः कृत्यम् Translation - भाषांतर नत्वा महालसां देवीं यक्षिणीं ग्रामदेवताम् । क्षत्रियादि त्रिवर्णानां किंचिदाह्निकमुच्यते ॥ ब्राह्मे मुहूर्ते चोत्थाय चिंतयेदात्मनो हितम् । स्मरणं वासुदेवस्य कुर्यात्कलिमलापहम् ॥१॥ सुप्तः प्रबोधितो विष्णो हृषीकेशेन यत्त्वया । यद्यत्कारयसे कर्म तत्करोमि तवाज्ञया ॥२॥ त्रैलोक्यचैतन्यमयाधिदेव श्रीनाथ विष्णो भवदाज्ञयैव । प्रातः समुत्थाय तव प्रियार्थं संसारयात्रामनुवर्तयिष्ये ॥३॥ जानामि धर्मं न च मे प्रवृत्तिर्जानाम्यधर्मं न च मे निवृत्तिः । केनापि देवेन ह्रदि स्थितेन यथा नियुक्तोस्मि तथा करोमि ॥४॥ स्थितिः सेवा गतिर्यात्रा स्मृतिश्चिंतास्तुतिर्वचः । सर्वदा भगवन् विष्णो मदीयाराधनं तव ॥५॥ इति पठित्वाऽऽचम्य इष्टदेवतां पितरौ च नत्वा - पुण्यश्लोको नलो राजा पुण्यश्लोको युधिष्ठिरः । पुण्यश्लोका च वैदेही पुण्यश्लोको जनार्दनः ॥६॥ कर्कोटकस्य नागस्य दमयंत्या नलस्य च । ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥७॥ इति पठित्वा गणेशादीनीष्टदैवतानि स्मरेत् ॥ तद्यथा - N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP