संस्कृत सूची|पूजा विधीः|कृत्य दिवाकरः|मध्यमांशुः|अथान्हिकादिप्रकरणम्|
वैश्वदेवः साड्गः

अथान्हिकादिप्रकरणम् - वैश्वदेवः साड्गः

‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.


तत्रादौ देवयज्ञः । दर्भहस्तः आचम्य देशकालौ स्मृत्वा ममात्मनः पंचसूनादोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थं वैश्वदेवं करिष्ये इति संकल्प्य कुंडे स्थंडिले वोपलेपनोल्लेखने कृत्वा लौकिकाग्निं प्रतिष्ठाप्य अग्नये नमः । मुखं यः सर्वदेवानां हव्यभुक्कव्यभुक्‍ तथा । पितृणां च नमस्तस्मै विष्णवे पावकात्मने ॥ अग्नये नमः इति ध्यात्वा परिसमुह्य पर्युक्ष्य अग्नौ गृहान्नेन तंदुलैराज्यप्लुतैः फलैर्वा जुहुयात् तदद्रव्यं अग्नौ निधायोद्वास्य अभ्युक्ष्य च भागत्रयं कृत्वा घृतप्लुतं हस्तेन जुहुयात् । आहुतिस्तु द्वादशपर्वपूरिका आमलकप्रमाणमात्रा वा । यथा - अग्नये नमः अग्नय इदं न मम ( एवमग्रेपि त्यागः ) । वायवे नमः । सूर्याय० प्रजापतये० अग्नये० ब्रह्मणे० इति षट्‍ । पुनः - ब्रह्मणे० प्रजापतये० गृह्येभ्यो० कश्यपाय० अनुमतये० विश्वेभ्यो देवेभ्यो० अग्नये स्विष्टकृते० इति सप्ताहुतीर्हुत्वा ततः पर्युक्ष्य गंधादिपंचोपचारैः संपूज्य ललाटे इति कंठे नाभौ दक्षिणस्कंधे वामस्कंधे शिरसि विभूतिं धृत्वा । अग्ने त्वं नः शिवस्राता वसुदाता सदा भव । नमस्ते यज्ञपुरुष हुतभुग्घव्यवाहन ॥ अनेन कर्मणाऽग्निनारायणः प्रीयताम् ॥ इति नमस्कुर्यात् ॥ ॥ इति देवयज्ञः ॥

बलिहरणाख्यो भूतयज्ञः ॥ देवयज्ञांते ‘ बलिहरणाख्यं कर्म करिष्ये ’ इति संकल्प्य भुवं प्रोक्ष्य मध्ये - पर्जन्याय नमः पर्जन्यायेदं न मम अद्भ्यो नमः अद्भ्य इदं न मम पृथिव्यै नमः पृथिव्या इदं न० । द्वारशाखयोः - धात्रे नमः धात्र इदं० विधात्रे० विधात्र इ० । प्रदिशं - वायवे० । प्रतिदिशं - प्राच्यै० दक्षिणस्यै० प्रतीच्यै० उत्तरस्यै० । प्रतिदिशं - इंद्राय० धर्मराजाय० वरुणाय० इंदवे० । ईशान्यांधन्वंतरये० । वायव्यां - वायवे० ब्रह्मणे० अंतरिक्षाय० सूर्याय० । उत्तरे - विश्वेभ्यो देवेभ्यो० विश्वेभ्यो भूतेभ्यो० भूतानां पतये० । ततः दक्षिणे प्राचीनावीती - पितृभ्यो नमः इदं पितृभ्यो न मम । जलस्पर्शः । पात्रं प्रक्षाल्य तज्जलं वायव्ये ‘ यक्ष्मैतत्ते ’ इति निनयेत् यक्ष्मण इदं० । ततो गृहांगणैकदेशे भूमिं प्रोक्ष्य तृतीयभागादन्नमादाय । ‘ द्वौ श्यामशबलौ श्वानौ वैवस्वतकुलोद्भवौ ॥ ताभ्यां पिंडं प्रदास्यामि स्यातामेतावहिंसकौ ॥ ‘ श्वभ्यां नमः ’ इति दत्त्वा पुनरन्नमादाय । ‘ ऐंद्रवारुणवायव्याः सौम्या वै नैऋतास्तथा । वायसाः प्रतिगृह्णंतु भूमौ पिंडं मयार्पितम् । ‘ वायसेभ्यो नमः ’ इति दत्त्वा त्यक्त्वा च हस्तौ पादौ प्रक्षाल्याचऽऽम्य ‘ पृथिव्याः शांतिरद्भ्यश्च शांतिः शांतिश्च तेजसः । वायोः शांतिस्तथा व्योम्नः शांतिर्दिग्भ्योऽस्तु नः सदा ’ ॥ इति पठन् गृहं प्रविशेत् । शूद्राणां दिवैव वैश्वदेवो न तु सायमित्युक्तं स्मृत्यंतरे । इति संक्षेपतो भूतयज्ञः ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP