अथान्हिकादिप्रकरणम् - मंत्रपुष्पाञ्जलिमंत्राः
‘कृत्य दिवाकरः’ या ग्रंथाद्वारे शास्त्रोक्त पूजा पाठ कसे करावेत याचे ज्ञान मिळते.
तत्रादौ देवे लिख्यंते ॥ ॥ नमामरुद्भ्योनमोअप्सरोभ्यो नमोवसुभ्योनमआदित्येभ्यः । नमामिरुद्रान्यमशक्नवाय्वग्निंचयेऽन्येबृहतश्चदेवाः १। श्रीनागवक्रः सुमुखोगणेशो विघ्नेश्वरोभक्तजनेष्टदाता । यः शंकरानंदकृदेकदंतः पायात्सवोयंप्रभजंतिदेवाः २। योब्रह्मरुपोभगवान्स्वयंभूः पद्मासनः पद्मभवोविधाता । लोकेश्वरोविश्वसृजामधीशः पायात्सवोयंप्रणमंतिदेवाः ३। क्षीराब्धिजायाः पतिरादिदेवः सर्वांतरात्मास्वजनार्तिहर्ता । नित्योऽनवद्योऽनिधनोद्भवोयः पायांत्सवोयंप्रणमंतिदेवाः ४। दिगंशुकस्त्र्यक्षउमाधवश्च यः पन्नगालंकृतआत्मजारिः । जटाकलापोवृषकेतुरुग्रः पायात्सवोयंशरणाश्चदेवाः ५। षाण्मातुरस्तारकसू दनोयः स्कंदोऽग्निजन्माशरभूः षडास्यः । नित्यंसवोरक्षतुदैत्यजन्ये यप्रार्थयंत्यात्मजयायदेवाः ६। वैकुंठपादांबुजसंनिकृष्टस्थितानिशंस्मेरमुखांबुजन्मा । यालोकमाताप्रणतोऽस्म्यहंतां यत्प्राप्तिमिच्छंतिभवादिदेवाः ७। योब्रह्मसत्रेहयशीर्षआस यच्छासतोवेदगिरो बभूवुः । तयज्ञमूर्तिंशरणंप्रपद्ये यस्मिन्वसंतेय जनीयदेवाः ८ । ब्रह्माननात्प्रच्युतवेदसंघानादातुमंभः सुयुगांतकाले ॥ मीनोऽभवद्योभगवाननंतस्तस्मै नमोयंशरणाश्चदेवाः ९। क्षीरोदधिंयर्हिसुरासुराणामुन्मथ्नतां कूर्मवपुर्हिभूत्वा । योऽद्रिंस्वपृष्ठेधृतवान्प्रपद्ये तंचाऽवितायोनसुधार्थिदेवाः १०। योदंष्ट्रयाक्ष्मोद्धरणेप्रकुर्वन्हेमाक्षमब्धावसुरंजघान । तत्क्रोंडरुपंप्रणतोऽस्मिदेवं यचेडिरेपद्मभवादिदेवाः ११। यः पद्मयोनेर्वरदानदृप्तं दैत्येंद्रमुग्रंस्वनियोज्यगुप्त्यै । देवानृसिंहोहतवानहंतं वंदेऽस्तुवन् यंद्रुहिणादिदेवाः १२। भूत्वाऽतिखर्वोऽर्थिमिषेणदेवो बलिंत्रिपद्भिर्निगृहीतवान्यः । आह्रत्यसर्वांश्रियमानतस्तंये नाप्तकामाश्चकृतांहिदेवाः १३। ब्रह्मद्रुहांयः क्षितिकंटकानां क्षत्रान्वयानांकदनंचकार । रामतमीडेप्रथितप्रभावं यत्पर्शुनावीतभियः कुदेवाः १४। संजघ्निवान्यातुकुलंक्षितोयोऽवतीर्यरामंत महंप्रपद्ये । भूभारमुत्तारयितुपुरायमादौबभूवुः शरणाश्चदेवाः १५। यः पूतनामाद्रिधृगप्यजन्मा जातः परा त्माभुविदैत्यहत्यै ॥ कृष्णः स्वयंतंशरणोऽस्मियस्य ह्यंशैः सहायाअभवंश्चदेवाः १६॥ वेदोक्तधर्माचरतांजना नांगतेर्विमोहायबभूवबुद्धिः । यस्तंसदाहंप्रणतोऽस्मिदेवं यंचौपधर्म्यंप्रवदंतिदेवाः १७। विष्णोः कथानैवसतीगृहेषु पाखंडिनः स्युश्चयदात्रिवर्णाः । शास्ताभविष्यत्यथकल्किरित्थं ब्रुवंतिधीराः खलुभूमिदेवाः १८। अत्रेरपत्यमभिकांक्षतआहतुष्टो दत्तोमयाऽहमितियद्भगवान् सदत्तः ॥ तस्मैनमोऽस्तुनिजभक्तसुरद्रुमाय यत्पादपंकजरजोंऽभिलषंतिदेवाः १९। विष्णोर्नुवीर्यगणनांकतमोऽर्हतीहयः पार्थिवान्यपिकविंर्विममेरजांसि । चस्कंभयः स्वरंहसास्खलतात्रिपृष्ठयस्मिन्सदाप्रमुदितानिवसंतिदेवाः २०। दस्त्रौयमोवह्निविधीदुरुद्रा अदितिर्जीवोऽहिः पितरोभगः । अर्यमार्कस्त्वष्टाचप्रभंजनइमे युष्मान्पांत्वनिशंभदेवाः २१। इंद्राग्नीमित्रोवृत्रहानिऋतिरापोविश्वेदेवाविष्णुर्वसुश्च । पाश्यजैकपादहिर्बुध्न्यः पूषा चेमेयुष्मान्पांत्वनिशंभदेवाः २२। वन्हिर्ब्रह्मोमागणपत्यहीगुहो रविः शिवोदुर्गांतकोविश्वे । हरिः कामः पशुपति र्निशाकर इमेतिथी नांवः शंतन्वंतुदेवाः २३। धाताऽर्यमामित्रोवरुणइंद्रश्च विवस्वास्त्वाष्ट्रोपेद्रोअंशुर्भगः । पूषापर्जन्योऽविरतंवोऽभि रक्षंत्विमेआदित्याः क्रमतोमासदेवाः २४। आदित्यः सोमः क्षितिसूनुर्बुधश्च बृहस्पतिरुशनासूरपुत्रः । एवंवाराणांपतयः स्युरेते युष्मभ्यंशर्मप्रदिशंतुदेवाः २५। कुजः कवीरौहिणेयोविधुश्च रविः सौम्यउशनालोहितांगः ॥ गुरुः शनिरैनिजीवौचकुर्वंन्त्वेतेऽयंवः सततंराशिदेवाः ॥२६॥ इतिदेवे संज्ञामंत्राः ॥
॥ अथ हवै पुरा हरिश्चंद्रो नाम राजा आस तस्य शतं पत्न्य आसुः सोऽनपत्यः पुत्रकामो नारदोपदेशतो वरुणं शरणं जगाम पुत्रो मे जायतां यदि वीरो जातस्तेन त्वांयजामीति तथेति वरुणेनोक्तेऽस्य पुत्रो जातस्तुरोहितः । जातः सुतो ह्यनेनांगमां यजस्वेति सोऽब्रवीद्यदापशुर्निर्दशो भवेत्त्वथ स मेध्यो भवेदिति निर्दशे जाते चस आगत्य यजस्व मामित्याह सोऽब्रवीद्दंताः पशोर्यदा जायेरन्नथ समेध्यो भवेदिति जाता दंता यजस्वेति स प्रत्याह सोऽब्रवीद्यदापतंत्यस्य दंता अथ समेध्यो भवेदिति पशोर्दंता निपतिता यजस्वेत्याह सोऽब्रवीद्यदा पशोर्दंताः पुनर्जायेरन्नथ स मेध्यो भवेदिति ’ पुनर्दंता जाता यजस्वेत्याहाथ सोऽब्रवीद्यदासान्वाहिको भवत्यथ समेध्यो भवेदथ सराजन्यः पशुः शुचिः । इति पुत्रानु रागेण स्नेहयंत्रितचेतसा ॥ कालं वंचयिता तंतमुक्तो देवस्तमैक्षत ॥ रोहितस्तदभिज्ञाय पितुः कर्म चिकिर्षितम् । प्राणप्रेप्सुर्धनुष्पाणिररण्यं प्रत्यपद्यत ॥१॥ अथ पितरं वरुणग्रस्तजातमहोदरं श्रुत्वा रोहितो ग्राममेयाय तमिंद्रः स्थविरोविप्रो भूत्वाभ्येत्य प्रतिषेधयन्नितिहोवाच - भूमेः पर्यटनं पुण्यंतीर्थक्षेत्रनिषेवणम् । रोहितायाऽऽदिशच्छक्रः सोप्यरण्येऽवसत्समाम् ॥ एवंद्वितीयेतृतीये चतुर्थेपंचमेतथा । षष्ठंसंवत्सरं तत्रचरित्वा रोहितः पुरीम् ॥ उपव्रजन्नजीगर्तादक्रीणान्मध्यमं सुतम् । शुनः शेपं पशुं पित्रे प्रादायसमवंदत ॥ ततः पुरुषमेधेनहरिश्चंद्रो महत्कथोमहाशयोमुक्तोदरोवरुणादीन्देवानयजत्तत्र विश्वामित्रोहोताभवज्जमदग्निरध्वर्युरभूद्बसिष्ठो ब्रह्मायास्यउद्गाताचाभवत्तदा तस्मैतुष्टोददाविंद्रः शातकौंभमयंरथमथचराज्ञः सभार्यस्य सत्यसारांधृतिंदृष्ट्वा विश्वामित्रोभृशंप्रीतोऽविहतांगतिंददावित्येतद्धारिश्चंद्रमाख्यानं पुण्यंधन्यं यशस्यमायुष्यं यआख्यातिपठतिशृणोतिषां
सइहदीर्घायुष्मानारोग्यवान् धनधान्यपशुपुत्रकीर्तिमानतुलंसुखंचसमश्नुतेदिवीतिससर्वलभते ससर्वंलभते ॥२॥ देवाधिदेवाय भक्तकल्पशाखिने नमोऽस्तुनित्यंसकलेष्टदायिने ॥ समेसर्वान्कामकामायकामान् । सर्वेश्वरः सर्वदातांददातु । शरण्यायशरणार्तिहराय । देवराजायनमः । स्वस्ति । साम्राज्यादिदायकंसार्वकामिकंदेवतासान्निध्यविधायकं देवतायाअहरहः परिचर्यांतेश्रद्धान्वितः प्रह्वः प्रांजलिरेतत्प्रपठन् पुष्पांजलिंसमर्पयेत्सदेवलोकेदेवतुल्योभवतिंतथैवेह प्राज्यानभिलषितान्कामान् समश्नुतेसमस्नुते । नमः सर्वहितार्थाय नम आनंदकारिणे ॥ नमः कल्याणकर्त्रे च नित्य देवाय ते नमः ॥१॥ इति मंत्रपुष्पाञ्जलिः ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP