श्रीदत्त उवाच ॥ त्वद्यात्रया व्यापकता हता ते ध्यानेन चेत : परता हता ते । स्तुत्या मया वाक्परता हता ते क्षमस्व नित्यं त्रिविधापराधान्‌ ॥१॥
कामैरहतधीर्दान्तो मुदु : शुचिरकिंचन : । अनीहो मितभुक्‌ शान्त : स्थिरो मच्छरणो मुनि : ॥२॥
अप्रमत्तो गभीरात्मा धृतिमान्‌ जितषडगुण : । अमानी मानद : कल्पो मैत्र : कारुणिक : कवि : ॥३॥
कृपालुरकृतद्रोहस्तितिक्षु : सर्व सदेहिनाम्‌ । सत्यासरोऽनवद्यात्मा सम : सर्वोपकारक : ॥४॥
अवधूतलक्षणं वर्णेर्ज्ञातव्यं भगवत्तमै : । वेदवर्णार्थ - तत्त्वज्ञैर्वेदवेदान्तवादिभि : ॥५॥
आशापाशविनिर्मुक्त आदिमध्यान्तनिर्मल : । आनन्दे वर्तते नित्यमकारं तस्य लक्षणम्‌ ॥६॥
वासना वर्जिता येन वक्तव्यं च निरामयम्‌ । वर्तमानेषु वर्तेत वकारं तस्य लक्षणम्‌ ॥७॥
धूलिधूसरगात्राणि धूतचित्तो निरामय : । धारणाध्याननिर्मुक्तो धूकारस्तस्य लक्षणम्‌ ॥८॥
तत्त्वचिंता धृता येन चिंताचेष्टावि - वर्जित : । तमोहंकारनिर्मुक्तस्तकारस्तस्य लक्षणम्‌ ॥९॥
आत्मानं चामृतं हित्वा अभिन्नं मोक्षमव्ययम्‌ । गतो हि कुत्सित : काको वर्तते नरकंप्रति ॥१०॥
मनसा कर्मणा वाचा त्यज्यतां मृगलोचना । न ते स्वर्गोऽपवर्गो वा सानन्द ह्रदयं यदि ॥११॥
न जानामि कथं तेन निर्मिता मृगलोचना । विश्वासघातकीं विद्धि स्वर्गमोक्ष - सुखार्गलाम्‌ ॥१२॥
मूत्रशोणितदुर्गंधे हयमेध्यद्वारदूषिते । चर्मकुंडे ये रमन्ति ते लिप्यन्ते न संशय : ॥१३॥
कौटिल्यदम्भसंयुक्ता सत्यशौचविवर्जिता । केनापि निर्मिता नारी बन्धनं सर्वदेहिनाम्‌ ॥१४॥
त्रैलोक्यजननी धात्री सा भगी नरको ध्रुवम्‌ । तस्यां जातो रतस्तत्र हाहा संसारसंस्थिति : ॥१५॥
जानामि नरकं नारी ध्रुवं जानामि बन्धनम्‌ । यस्यां जातो रतस्तत्र पुनस्तत्रेव धावति ॥१६॥
भगादिकुचपर्यन्तं संविध्दि नरकार्णवम्‌ । य रमन्ति पुनस्तत्र तरन्ति नरकं कथम्‌ ॥१७॥
विष्ठादिनरकं घोरं भगं च परिनिर्मितम्‌ । किमु पश्यति रे चित्त कथं तत्रैव धावसि ॥१८॥
भगेन चर्मकुण्डेन दुर्गन्धेन व्रणेन च । खण्डितं हि जगत्सर्वं सदेवासुरमानुषम्‌ ॥१९॥
देहार्णवे महाघोरे पूरितं चैव शोणितम्‌ । केनापि निर्मिता नारी भगं चैव हयधोमुखम्‌ ॥२०॥
अन्तरे नरकं विध्दि कौटिल्यं बाहयमण्डितम्‌ । ललितामिह पश्यन्ति महामन्त्रविरोधिनीम्‌ ॥२१॥
आज्ञात्वा जीवितं लब्धं भवस्तत्रैव देहिनाम्‌ । अहो जातो रतस्तत्र अहो भवविडम्बना ॥२२॥
तत्र मुग्धा रमन्ते ज सदेवासुरमानवा : । ते यान्ति : नरकं घोरं सत्यमेव न संशय : ॥२३॥
अग्निकुण्डसमा नारी घृतकुम्भसमो नर : । संसर्गेण विलीयेत तस्मात्तां परिवर्जयेत्‌ ॥२४॥
गौडी माध्वी तथा पैष्ठी विज्ञेया त्रिविधा सुरा । चतुर्थी स्त्री सुरा ज्ञेया ययेदं मोहितं जगत्‌ ॥२५॥
मद्यपानं महापापं नारीसंगस्तथैव च । तस्माद्‌द्वयं परित्यज्य तत्त्वनिष्ठो भवेन्मुनि : ॥२६॥
चित्तायत्तं धातुबध्दं शरीरं नष्टे चित्ते धातवो यान्ति नाशम्‌ । तस्माच्चित्तं सर्वतो रक्षणीयं स्वस्थे चित्ते बुद्धय : संभवन्ति ॥२७॥
दत्तात्रेयावधूतेन निर्मितानन्दरूपिणा । ये पठन्ति च श्रुण्वन्त तेषां नैव पुनर्भव : ॥२८॥
॥ इति श्रीदत्तात्रेयकृतायामवधूतगीतायां स्वामिकार्तिकसंवादे स्वात्मसंवित्त्युपदेशेऽष्टमोऽध्याय : ॥८॥

N/A

References : N/A
Last Updated : November 02, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP