अवधूत गीता - अध्यायः २

अवधूत गीता पठन केल्याने सर्व प्रकारच्या अनिष्ठ बाधा दूर होतात.

अवधूत उवाच ॥ बालस्य वा विषयभोगरतस्य वापि । मूर्खस्य सेवकजनस्य गृहस्थितस्य ।

एतद्‍गुरोः किमपि नैव न चिन्तनीयं । रत्नं कथं त्यजति कोऽप्यशुचौ प्रतिष्ठम् ‍ ॥१॥

नैवात्र काव्यगुण एव तु चिन्तनीयो ग्राह्यः परं गुणवता खलु सार एव ।

सिन्दूरचित्ररहिता भुवि रुपशून्या पारं न किं नयति नौरिह गन्तुकामान् ‍ ॥२॥

प्रयत्नेन विना येन निश्चलेन चलाचलम् ‍ । ग्रस्तं स्वभावतः शान्तं चैतन्यं गगनोपमम् ‍ ॥३॥

अयत्नाच्चालयेद्यस्तु एकमेव चराचरम् ‍ । सर्वगं तत्कथं भिन्नमद्वैतं वर्तते मम ॥४॥

अहमेव परं यस्मात्सारासारतरं शिवम् ‍ । गमागमविनिर्मुक्तं निर्विकल्पं निराकुलम् ‍ ॥५॥

सर्वावयवनिर्मुक्तं तदहं त्रिदशार्चितम् ‍ । संपूर्णत्वान्न गृण्हामि विभागं त्रिदशादिकम् ‍ ॥६॥

प्रमादेन न संदेहः किं करिष्यामि वृत्तिवान् ‍ । उत्पद्यन्ते विलीयन्ते बुद्‍बुदाश्च यथा जले ॥७॥

महदादीनि भूतानि समाप्यैवं सदैव हि । मृदुद्रव्येषु तीक्ष्णेषु गुडेषु कटुकेषु च ॥८॥

कटुत्वं चैव शैत्यत्वं मृदुत्वं च यथा जले । प्रकृतिः पुरुषस्तद्वदभिन्नं प्रतिभाति मे ॥९॥

सर्वाख्यारहितं यद्यत्सूक्ष्मात्सूक्ष्मतरं परम् ‍ । मनोबुद्धींद्रियातीतमकलड्कं जगत्पतिम् ‍ ॥१०॥

ईदृशं सहजं यत्र अहं तत्र कथं भवे । त्वमेव हि कथं तत्र कथं तत्र चराचरम् ‍ ॥११॥

गगनोपमं तु यत्प्रोक्तं तदेव गगनोपमम् ‍ । चैतन्यं दोषहीनं च सर्वज्ञं पूर्णमेव च ॥१२॥

पृथिव्यां चरितं नैव मारुतेन च वाहितम् ‍ । वारिणा पिहितं नैव तेजोमध्ये व्यवस्थितम् ‍ ॥१३॥

आकाशं तेन संव्याप्तं न तद्व्याप्तं च केनचित् ‍ । सबाह्याभ्यंतरं तिष्ठत्यवच्छिन्नं निरंतरम् ‍ ॥१४॥

सूक्ष्मत्वात्तददृश्यत्वान्निर्गुणत्वाच्च योगिभिः । आलम्बनादि यत्प्रोक्तं क्रमादालम्बनं भवेत् ‍ ॥१५॥

सतताऽभ्यासयुक्तस्तु निरालम्बो यदा भवेत् ‍ । तल्लयाल्लीयते नान्तर्गुणदोषविवर्जितः ॥१६॥

विषविश्वस्य रौद्रस्य मोहमूर्च्छाप्रदस्य च । एकमेव विनाशाय ह्यमोघं सहजामृतम् ‍ ॥१७॥

भावगम्यं निराकारं साकारं दृष्टिगोचरम् ‍ । भावाभावविनिर्मुक्तमन्तरालं तदुच्यते ॥१८॥

बाह्यभावं भवेद्विश्वमन्तः प्रकृतिरुच्यते । अन्तरादन्तरं ज्ञेयं नारिकेलफलाम्बुवत् ‍ ॥१९॥

भ्रान्तिज्ञानं स्थितं बाह्यं सम्यक् ‍ ज्ञानं च मध्यगम् ‍ । मध्यान्मध्यतरं ज्ञेयं नारिकेलफलाम्बुवत् ‍ ॥२०॥

पौर्णमास्यां यथा चन्द्र एक एवातिनिर्मलः ॥ तेन तत्सदृशं पश्येदद्विधादृष्टिर्विपर्ययः ॥२१॥

अनेनैव प्रकारेण बुद्धिभेदो न सर्वगः । दाता च धीरतामेति गीयते नामकोटिभिः ॥२२॥

गुरुप्रज्ञाप्रसादेन मूर्खो वा यदि पण्डितः । यस्तु संबुध्यते तत्त्वं विरक्तो भवसागरात् ‍ ॥२३॥

रागद्वेषविनिर्मुक्तः सर्वभूतहिते रतः । दृढबोधश्च धीरश्च स गच्छेत्परमं पदम् ‍ ॥२४॥

घटे भिन्ने घटाकाश आकाशे लीयते यथा । देहाभावे तथा योगी स्वरुपे परमात्मनि ॥२५॥

उक्तेयं कर्ममुक्तानां मतिर्यान्तेऽपि सा गतिः ।

न चोक्ता योगयुक्तानां मतिर्यान्तेऽपि सा गतिः ॥२६॥

या गतिः कर्मयुक्तानां सा च वागिंद्रियाद्वदेत् ‍ ।

योगिनां या गतिः क्कापि ह्यकथ्या भवतोर्जिता ॥२७॥

एवं ज्ञात्वा त्वमुं मार्गं योगिनां नैव कल्पितम् ‍ ।

विकल्पवर्जनं तेषां स्वयंसिद्धिः प्रवर्तते ॥२८॥

तीर्थे वान्त्यजगेहे वा यत्र कुत्र मृतोऽपि वा ।

न योगी पश्यते गर्भं परे ब्रह्मणि लीयते ॥२९॥

सहजमजमचिन्त्यं यस्तु पश्येत्स्वरुपं घटति यदि यथेष्टं लिप्यते नैव दोषैः ।

सकृदपि तदभावात्कर्म ‘ किंचिन्न कुर्यात्तदपि न च विबद्धः संयमी वा तपस्वी ॥३०॥

निरामयं निष्प्रतिमं निराकृतिं निराश्रयं निर्वपुषं निराशिषम् ‍ ।

निर्द्वन्द्वनिर्मोहमलुप्तशक्तिकं तमीशमात्मानमुपैति शाश्वतम् ‍ ॥३१॥

वेदो न दीक्षा न च मुण्डनक्रिया गुरुर्न शिष्यो नच यंत्रसंपदः ।

मुद्रादिकं चापि न यत्र भासते तमीशमात्मानमुपैति शाश्वतम् ‍ ॥३२॥

न शांभवं शक्तिकमानवं न वा । पिण्डं च रुपं च पदादिकं न वा ।

आरम्भनिष्पत्तिघटादिकं च नो । तमीशमात्मानमुपैति शाश्वतम् ‍ ॥३३॥

यस्य स्वरुपात्सचराचरं जगदुत्पद्यते तिष्ठति लीयतेऽति वा ।

पयोविकारादिव फेनबुद्‍बुदास्तमीशमात्मानमुपैति शाश्वतम् ‍ ॥३४॥

नासानिरोधो न च दृष्टिरासनं बोधोऽप्यबोधोऽपि न यत्र भासते ।

नाडीप्रचारोऽपि न यत्र किंचित्तमीशमात्मानमुपैति शाश्वतम् ‍ ॥३५॥

नानात्वमेकत्वमुभत्वमन्यता अणुत्वदीर्घत्वमहत्त्वशून्यता ।

मानत्वमेयत्वसमत्ववर्जितं तमीशमात्मानमुपैति शाश्वतम् ‍ ॥३६॥

सुसंयमी व यदि वा न संयमी सुसंग्रही वा यदि वा न संग्रही ।

निष्कर्मको वा यदि वा सकर्मकस्तमीशमात्मानमुपैति शाश्वतम् ‍ ॥३७॥

मनो न बुद्धिर्न शरीरमिन्द्रियं तन्मात्रभूतानि न भूतपञ्चकम् ‍ ।

अहंकृतिश्चापि वियत्स्वरुपकं तमीशमात्मानमुपैति शाश्वतम् ‍ ॥३८॥

विधौ निरोधे परमात्मतां गते न योगिनश्चेतसि भेदवर्जिते ।

शौचं न वाशौचमलिड्गभावना सर्वं विधेयं यदि वा निषिध्यते ॥३९॥

मनो वचो यत्र न शक्तमीरितुं नूनं कथं तत्र गुरुपदेशता ।

इमां कथामुक्तवतो गुरोस्तद्युक्तस्य तत्त्वं हि समं प्रकाशते ॥४०॥

॥ इति श्रीदत्तात्रेयविरचितायामवधूतगीतायामात्मसंवित्त्युपदेशो नाम द्वितीयोऽध्यायः ॥२॥

N/A


References : N/A
Last Updated : October 03, 2013