अवधूत गीता - अध्यायः ६

अवधूत गीता पठन केल्याने सर्व प्रकारच्या अनिष्ठ बाधा दूर होतात .

श्रीदत्त उवाच ॥ बहुधा श्रुतय : प्रवदन्ति वयं वियदादिरिदं मृगतोयसमम्‌ । यदि चैकनिरन्तरसर्वशिवमुपमेयमथो ह्युपमा च कथम्‌ ॥१॥

अविभक्तिविभक्ति - विहीनपरं ननु कार्यविकार्यविहीनपरम्‌ । यदि चैकनिरन्तरसर्वशिवं यजनं च कथं तपनं च कथम्‌ ॥२॥

मन एव निरन्तरसर्वगतं ह्यविशालविशालविहीनपरम्‌ । मन एव निरन्तरसर्वशिवं मनसापि कथं वचसा च कथम्‌ ॥३॥

दिनरात्रिविभेद - निराकरणमुदितानुदितस्य निराकरणम्‌ । यदि चैकनिरन्तरसर्वशिवं रविचन्द्रमसौ ज्वलनश्च कथम्‌ ॥४॥

गतकामविकामविभेद इति गतचेष्टविचेष्टविभेद इति । यदि चैकनिरन्तरसर्वशिवं बहिरन्तरभिन्नमतिश्च कथम्‌ ॥५॥

यदि सारविसारविहीन इति यदि शून्यविशून्यविहीन इति । यदि चैकनिरन्तरसर्वशिवं प्रथमं च कथं चरमं च कथम्‌ ॥६॥

यदि भेदविभेदनिराकरणं यदि वेदकवेद्यनिराकरणम्‌ । यदि चैकनिरत्नरसर्वशिवं तृतीयं च कथं तुरीयं च कथम्‌ ॥७॥

गदितागदितं नहि सत्यमिति विदिताविदितं नहि सत्यमिति । यदि चैकनिस्तरसर्वशिवं विषयेन्द्रियबुद्धिमनांसि कथम्‌ ॥८॥

गगनं पवनो नहि सत्यमिति धरणी दहनो नहि सत्यमिति । यदि चैकनिरन्तरसर्वशिवं जलदश्च कथं सलिलं च कथम्‌ ॥९॥

यदि कल्पितलोकनिराकरणं यदि कल्पितदेवनिराकरणम्‌ । यदि चैकनिरन्तरसर्वशिवं गुणदोषविचारमतिश्च कथम्‌ ॥१०॥

मरणामरणं हि निराकरणं करणाकरणं हि निराकरणम्‌ । यदि चैकनिरन्तरसर्वशिवं गमनागमनं हि कथं वदति ॥११॥

प्रकृति : पुरुषो नहि भेद इति नहि कारणकार्यविभेद इति । यदि चैकनिरन्तरसर्वशिवं पुरुषापुरुष च कथं वदति ॥१२॥

तृतीयं नहि दु : खसमागमनं न गुणाद्वितीयस्य समागमनम्‌ । यदि चैकनिरन्तरसर्वशिवं स्थविरश्च युवा च शिशुश्च कथम्‌ ॥१३॥

ननु आश्रमवर्णविहीनपरं ननु कारणकर्तृविहीनपरम्‌ । यदि चैकनिरन्तरसर्वशिवम - विनष्टविनष्टमतिश्च कथम्‌ ॥१४॥

ग्रसिताग्रसितं च वितथ्यमिति जनिताजनितं च वितथ्यमिति । यदि चैकनिरन्तरसर्वशिवमविनाशविनाशि कथं हि भवेत्‌ ॥१५॥

पुरुषापुरुषस्य विनष्टमिति वनितावनितस्य विनष्टमिति । यदि चैकनिरन्तरसर्वशिवम - विनोदविनोदमतिश्च कथम्‌ ॥१६॥

यदि मोहविषादविहीनपरो यदि संशयशोक - विहीनपर : । यदि चैकनिरन्तरसर्वशिवमहमिति ममेति कथं च पुन : ॥१७॥

ननु धर्मविधर्मविनाश इति ननु बन्धविबन्धविनाश इति । यदि चैकनिरन्तरसर्वशिवमिह दु : खविदु : खमतिश्च कथम्‌ ॥१८॥

नहि याज्ञिकयज्ञि विभाग इति न हुताशनवस्तुविभाग इति । यदि चैकनिरन्तरसर्वशिववं वद कर्मफलानि भवन्ति कथम्‌ ॥१९॥

ननु शोकविशोकविमुक्त इति ननु दर्पविदर्पविमुक्त इति यदि चैकनिरन्तरसर्वशिवं ननु रागविरागमतिश्च कथम्‌ ॥२०॥

नहि मोहविमोहविचार इति नहि लोभविलोभविकार इति । यदि चैकनिरन्तरसर्वशिवं ह्यविवेकविवेकमतिश्च कथम्‌ ॥२१॥

त्वमहं नहि हंत कदाचिदपि कुलजातिविचारसत्यमिति । अहमेव शिव : परमार्थ इति अभिवादनमत्र करोमि कथम्‌ ॥२२॥

गुरुशिष्यविचारविशीर्ण इति उपदेशविचारविशीर्ण इति । अहमेव शिव : परमार्थ इति अभिवादनमत्र करोमि कथम्‌ ॥२३॥

नहि कल्पितदेहविभाग इति । अहमेव शिव : परमार्थ इति अभिवादनमत्र करोमि कथम्‌ ॥२४॥

सरजो विरजो न कदाचिदपि ननु निर्मलनिश्चलशुद्ध इति । अहमेव शिव : परमार्थ इति । अभिवादनमत्र करोमि कथम्‌ ॥२५॥

नहि देहविदेहविकल्प इति अनृतं चरितं न हि सत्यमिति । अहमेव शिव : परमार्थ इति अभिवादनमत्र करोमि कथम्‌ ॥२६॥

विन्दति विन्दति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमग्नो भावितपूत : प्रलपति तत्त्वं परमवधूत : ॥२७॥

॥ इति श्रीदत्तात्रेयविरचितायामवधूतगीतायां स्वामिकार्तिकसंवादे स्वात्मसंवित्त्युपदेशे मोक्षनिर्णयो नाम षष्ठोऽध्याय : ॥६॥

N/A


References : N/A
Last Updated : October 03, 2013