अवधूत गीता - अध्यायः ४

अवधूत गीता पठन केल्याने सर्व प्रकारच्या अनिष्ठ बाधा दूर होतात .


अध्यायः ४

श्रीदत्त उवाच ॥ नावाहनं नैव विसर्जनं वा पुष्पाणि पत्राणि कथं भवन्ति ॥ ध्यानानि मन्त्राणि कथं भवन्ति समासमं चैव शिवार्चनं च ॥१॥

न केवलं बन्धविबन्धमुक्तो न केवलं शुद्धविशुद्धमुक्त : । न केवलं योगवियोगमुक्त : स वै विमुक्तो गगनोपमोऽहम्‌ ॥२॥

संजायते सर्वमिदं हि तथ्यं संजायते सर्वमिदं वितथ्यम्‌ ॥ एवं विकल्पो मम नैव जात : स्वरूपनिर्वाणमनामयोऽहम्‌ ॥३॥

न साञ्जनं चैव निरञ्जनं वा न चान्तरं वापि निरन्तरं वा ॥ अन्तर्विभिन्नं नहि मे विभाति स्वरूपनिर्वाणमनामयोऽहम्‌ ॥४॥

अबोधबोधो मम नैव जातो बोधस्वरूपं मम नैव जतम्‌ ॥ निर्बोधबोधं च कथं वदामि स्वरूपनिर्वाणमनामयो‍ऽहम्‌ ॥५॥

न धर्मयुक्तो न च पापयुक्तो न बन्धयुक्तो न च मोक्षयुक्त : ॥ युक्तं वियुक्तं न च मे विभाति स्वरूप० ॥६॥

परापरं वा न च मे कदाचिन्मध्यस्थभावो हि न चारिमित्रम्‌ ॥ हिताहितं चापि कथं वदामि स्व० ॥७॥

नोपासको नैवमुपास्यरूपं न चोपदेशो न च मे क्रिया च । संवित्स्वरूपं च कथं वदामि स्व० ॥८॥

नो व्यापकं व्याप्यमिहास्ति किंचिन्न चालयं वापि निरालयं वा । अशून्यशून्यं च कथं वदामि स्वरूप० ॥९॥

न ग्राहको ग्राह्यकमेव किंचिन्न कारणं वा मम नैव कार्यम्‌ ॥ अचिंत्यचिंत्य च कथं वदामि स्वरूप० ॥१०॥

न भेदकं वापि न चैव भेद्यं न वेदकं वा मम नैव वेद्यम्‌ । गतागतं तात कथं वदामि स्वरूप० ॥११॥

न चास्ति देहो न च मे विदेहो बुद्धिर्मनो मे न हि चेंद्रियाणि । रागो विरागश्च कथं वदामि स्वरूप० ॥१२॥

उल्लेखमात्रं न हि भिन्नमुच्चैरुल्लेखमात्रं न तिरोहितं वै । समासमं मित्र कथं वदामि स्वरूप० ॥१३॥

जितेंद्रियोऽहं त्वजितेंद्रियो वा न संयमो नियमो न जात : । जयाजयौ मित्र कथं वदामि स्वरूप० ॥१४॥

अमूर्तमूर्तिर्न च मे कदाचिदाद्यन्तमध्यं न च मे कदाचित्‌ । बलाबलं मित्र कथं वदामि स्व० ॥१५॥

मृतामृतं वापि विषाविषं च संजायते तात न मे कदाचित्‌ । अशुद्धशुद्धं च कथं वदामि स्व० ॥१६॥

स्वप्न : प्रबोधो न च योगमुद्रा नक्तं दिवा वापि न मे कदाचित्‌ । अतुर्यतुर्य च कथं वदामि स्वरूप० ॥१७॥

संविद्धि मां सर्वविसर्वमुक्तं माया विमाया न च मे कदाचित्‌ । संध्यादिकं कर्म कथं वदामि स्वरूप० ॥१८॥

संविद्धि मां सर्वसमाधियुक्तं संविद्धि मां लक्ष्यविलक्ष्यमुक्तम्‌ । योगं वियोगं च कथं वदामि स्वरूप० ॥१९॥

मूर्खो‍ऽपि नाहं न च पण्डितोऽहं मौनं विमौनं न च मे कदाचित्‌ । तर्कं वितर्कं च कथं वदामि स्वरूप० ॥२०॥

पिता च माता च कुलं न जातिर्जन्मादिमृत्युर्न च मे कदाचित्‌ । स्नेहं विमोहं च कथं वदामि स्वरूप० ॥२१॥

अस्तं गतो नैव सदोदितोऽहं तेजो वितेजो न च मे कदाचित्‌ । संध्यादिकं कर्म कथं वदामि स्वरूप० ॥२२॥

असंशयं विद्धि निराकुलं मामसंशयं विद्धि निरन्तरं माम्‌ । असंशयं विद्धि निरञ्जनं मां स्वरूप० ॥२३॥

ध्यानानि सर्वाणि परित्यजन्ति शुभाशुभं कर्म परित्यजन्ति । त्यागामृतं तात पिबन्ति धीरा : स्वरूप० ॥२४॥

विदन्ति विदन्ति नहि नहि यत्र छन्दोलक्षणं नहि नहि तत्र । समरसमग्नो भावितपूत : प्रलपति तत्त्वं परमवधूत : ॥२५॥

॥ इति श्रीदत्तात्रेयविरचितायामवधूतगीतायां स्वामिकार्तिकसंवादे स्वात्मसंवित्त्युपदेशे स्वरूपनिर्णयो नाम चतुर्थोऽध्याय : ॥४॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2013-10-03T10:53:42.1030000