अवधूत उचाच ॥ गुणविगुणविभागो वर्तते नैव किंचिद्रतिविरतिहीनं निर्मलं निष्प्रपञ्चम् । गुणविगुणविहीनं व्यापकं विश्वरूपं कथमहमिह वन्दे व्योमरूपं शिवं वै ॥१॥
श्वेतादिवर्णरहितो नियतं शिवश्च कार्यं हि कारणमिदं हि परं शिवश्च । एवं विकल्परहितोऽहमलं शिवश्च । स्वात्मानमात्मनि सुमित्र कथं नमामि ॥२॥
निर्मूलमूलरहितो हि सदोदितोऽहं निर्धूमधूमरहितो हि सदोदितोऽहम् । निर्दीपदीपरहितो हि सदोदितोऽहं ज्ञानामृतं समरसं गगनोपमोऽहम् । ॥३॥
निष्कामकाममिह नाम कथं वदामि नि : संगसंगमिह नाम कथं वदामि । नि : सारसाररहितं च कथं वदामि ज्ञानामृतं समरसं गगनोपमोऽहम् ॥४॥
अद्वैतरूपमखिलं हि कथं वदामि द्वैत - स्वरूपमखिलं हि कथं वदामि । नित्यं त्वनित्यमखिलं हि कथं वदामि ज्ञानामृतं समरसं० ॥५॥
स्थूलं हि नो नहि कृशं न गतागतं हि आद्यन्तमध्यरहितं न परात्परं हि । सत्यं वदामि खलु वै परमार्थतत्त्वं ज्ञानामृतं समरसं० ॥६॥
संविद्धि सर्वकरणानि नभोनिभानि संविद्धि सर्वविषयाश्च नमोनिभाश्च । संविद्धि चैकममलं न हि बन्धमुक्तं ज्ञानामृतं समरसं० ॥७॥
दुर्बोधबोधगहनो न भवामि तात दुर्लक्ष्यलक्ष्यगहनो न भवामि तात । आसन्नरूपगहनो न भवामि तात ज्ञानामृतं समरसं० ॥८॥
निष्कर्मकर्मदहनो ज्वलनो भवामि निर्दु : खदु : खदहनो ज्वलनो भवामि । निर्देहदेहदहनो ज्वलनो भवामि ज्ञानामृतं समरसं० ॥९॥
निष्पापपापदहनो हि हुताशनोऽहं । निर्धर्मधर्मदहनो हि हुताशनोऽहम् । निर्बन्धबन्धदहनोज हि हुताशनोऽहं ज्ञानमृतं समरसं० ॥१०॥
निर्भावभावरहितो न भवामि वत्स निर्योगयोगरहितो न भवामि वत्स । निश्चित्तचित्तरहितो न भवामि वत्स ज्ञानामृतं समरसं० ॥११॥
निर्मोहमोहपदवीति न मे विकल्पो नि : शोकशोकपदवीति न मे विकल्प : । निर्लोभलोभपदवीति न मे विकल्पो ज्ञानामृतं समरसं० ॥१२॥
संसारसंततिलता न च मे कदाचित् संतोषसंततिसुखे न च मे कदाचित् । अज्ञानबन्धनमिदं न च मे कदाचित् ज्ञानामृतं समरसं० ॥१३॥
संसारसंततिरजो न च मे विकार : संतापसंततितमो न च मे विकार : । सत्त्वं स्वधर्मजनकं न च मे विकारो ज्ञानामृतं समरसं० ॥१४॥
संतापदु :- खजनको न विधि : कदाचित् संतापयोगजनितं न मन : कदाचित् । यस्मादहंकृतिरियं न च मे कदाचित् ज्ञानामृतं समरसं० ॥१५॥
निष्कम्पकम्पनिधनं न विकल्पकल्पं स्वप्नप्रबोधनिधनं न हिताहितं हि । नि : सारसारनिधनं न चराचरं हि ज्ञानामृतं समरसं० ॥१६॥
ने वेद्यवेदकमिदं न च हेतुतर्क्य वाचामगोचरमिदं न मनो न बुद्धि : । एवं कथं हि भवत : कथयामि तत्त्वं ज्ञानामृतं समरसं० ॥१७॥
निर्भिन्नभिन्नरहितं परमार्थ - तत्त्वमन्तर्बहिर्न हि कथं परमार्थतत्त्वम् । प्राक्संभवं न च रतं न हि वस्तु किञ्चिज्ज्ञानामृतं समरसं० ॥१८॥
रागादिदोषरहितं त्वहमेव तत्त्वं दैवादिदोषरहित त्वहमेव तत्त्वम् । संसारशोकरहितं त्वहमेव तत्त्वम् ज्ञानामृतं समरसं० ॥१९॥
स्थानत्रयं यदि च नेति कथं तुरीयं कालत्रयं यदि च नेति कथं दिशश्च । शान्तं पदं हि परमं परमार्थतत्त्वं ज्ञानामृतं समरसं० ॥२०॥
दीर्घो लघु : पुनरितीह न मे विभागो विस्तारसंकटमितीह न मे विभाग : । कोणं हि वर्तुलमितीह न मे विभागो ज्ञानामृतं समरसं० ॥२१॥
मातापितादि तनयादि न मे कदाचिञ्जातं मृतं न च मनो न च मे कदाचित् । निर्व्याकुलं स्थिरमिदं परमार्थतत्त्वं ज्ञानामृतं समरंस० ॥२२॥
शुद्धं विशुद्धम - चिचारमनन्तरूपं निर्लेपलेपमविचारमनन्तरूपम् । नि : खण्डखण्डमविचारमनन्तरूपं ज्ञानामृतं समरसं० ॥२३॥
ब्रह्यादय : सुरगणा : कथमत्र संति स्वर्गादयो वसतय : कथमत्र संति । यद्येकरूपममलं परमार्थतत्त्वं ज्ञानामृतं समरसं० ॥२४॥
निर्नेति नेति विमलो हि कथं वदामि नि : शेषशेषविमलो हि कथं वदामि । निर्लिङगलिङगविमलो हि कथं वदामि ज्ञानामृतं समरसं० ॥२५॥
निष्कर्मकर्मपरमं सततं करोमि नि : संगसंगरहितं परमं विनोदम् । निर्देहदेहरहितं सततं विनोदं ज्ञानामृतं समरसं० ॥२६॥
माया प्रपञ्चरचना न च मे विकारो कौटिल्यदम्भरचना न च मे विकार : । सत्यानृतेति रचना न च मे विकारो ज्ञानामृतं समरसं० ॥२७॥
संध्यादिकालरहितं न च मे वियोगो ह्यन्त : प्रबोधरहितं बधिरो न मूक : । एवं विकल्परहितं न च भावशुद्धं ज्ञानामृतं समरसं० ॥२८॥
निर्नाथनाथरहितं हि निराकुलं वै निश्चित्तचित्तविगतं हि निराकुलं वै । संविद्धि सर्वविगतं हि निराकुलं वै ज्ञानामृतं समरसं० ॥२९॥
कान्तारमन्दिरमिदं हि कथं वदामि संसिद्धसंशयमिदं हि कथं वदामि । एवं निरत्नरसमं हि निराकुलं वै ज्ञानामृतं समरसं० ॥३०॥
निर्जीवजीवरहितं सततं विभाति । निर्बीजबीजरहितं सततं विभाति । निर्वाणबन्धरहितं सततं विभाति ज्ञानामृं समरसं० ॥३१॥
संभूतिवर्जित - मिदंसततं विभाति । संसारवर्जितमिदं सततं विभाति । संहार - वर्जितमिदं सततं विभाति ज्ञानामृतं समरसं० ॥३२॥
उल्लेखमात्रमपि ते न च नामरूपं निर्भिन्नभिन्नमपि ते न हि वस्तु किंचित् । निर्लज्जमानस करोषि कथं विषादं ज्ञानामृतं समरसं० ॥३३॥
किं नाम रोदिषि सरखे न जरा न मृत्यु : किं नाम रोदिषि सखे न च जन्मदु : खम् ॥ किं नाम रोदिषि सखे न च ते विकारो ज्ञानामृतं समरसं० ॥३४॥
किं नाम रोदिषि सखे न च ते स्वरूपं किं नाम रोदिषि सखे न च ते विरूपम् । किं नाम रोदिषि सखे न च ते वयांसि ज्ञानामृतं समरसं० ॥३५॥
किं नाम रोदिषि सखे न च ते वयांसि किं नाम रोदिषि सखे न च ते मनांसि । किं नाम रोदिषि सखे न तवेन्द्रियाणि ज्ञानामृतं समरसं० ॥३६॥
किं नाम रोदिषि सखे न च तेऽस्ति काम : किं नाम रोदिषि सखे न च ते प्रलोभ : । किं नाम रोदिषि सखे न च ते विमोहो ज्ञानामृतं समरसं० ॥३७॥
ऐश्वर्यमिच्छसि कथं न च ते धनानि ऐश्वर्यमिच्छसि कथं न च ते हि पत्नी । ऐश्वर्यमिच्छसि कथं न च ते ममेति ज्ञानामृतं समरसं० ॥३८॥
लिङ्गप्रपञ्चजनुषी न च ते न मे च निर्लज्जमानसमिदं च विभाति भिन्नम् । निर्भेदभेदरहितं न च ते न मे च ज्ञानामृतं समरसं० ॥३९॥
नो वाणुमात्रमपि ते हि विरागरूपं नो वाणुमत्रमपि ते हि सरागरूपम् । नो वाणुमात्रमपि ते हि सकामरूपं ज्ञानामृतं समरसं० ॥४०॥
ध्याता न ते हि ह्रदयं नच ते समाधिर्ध्यानं न ते हि ह्रदये न बहि : प्रदेश : । ध्येयं न चेति ह्र्दयं न हि वस्तुकालो ज्ञानामृतं समरसं० ॥४१॥
यत्सारभूतमखिलं कथितं मया ते न त्वं न मे न महतो न गुरुर्नशिष्य : । स्वच्छन्द - रूपसहजं परमार्थतत्त्वं ज्ञानामृतं समरसं० ॥४२॥
कथमिह परमार्थ तत्त्वमानन्दरूपं कथमिह परमार्थ नैवमानन्दरूपम् । कथमिह परमार्थ ज्ञानविज्ञानरूपं यदि परमहमेकं वर्तते व्योमरूपम् ॥४३॥
दहनपवनहीनं विद्धि विज्ञानमेकमवनिजलविहीनं विद्धि विज्ञानरूपम् । समगमनविहीनं विद्धि विज्ञानमेकं गगनमिव विशालं विद्धि विज्ञानमेकम् ॥४४॥
न शून्यरूपं न विशून्यरूपं न शुद्धरूपं न विशुद्धरूपम् । रूपं विरूपं न भवामि किंचित्स्वरूपरूपं परमार्थतत्त्वम् ॥४५॥
मुञ्च मुञ्च हि संसारं त्यागं मुञ्च हि सर्वथा ॥ त्यागात्त्यागविषं शुद्धममृतं सहजं ध्रुवम् ॥४६॥
॥ इति श्रीदत्तात्रेयविरचितायामवधूतगीतामायामात्मसंवित्त्युपदेशो नाम तृतीयोऽध्याय : ॥३॥