श्रीदत्त उवाच ॥ ॐ मिति गदितं गगनसमं तन्न परापरसारविचार इति । अविलासविलासनिराकरणं कथमक्षरबिन्दुसमुच्चरणम्‌ ॥१॥

इति तत्त्वमसिप्रभृ - तिश्रुतिभि : प्रतिपादितमात्मनि तत्त्वमसि । त्वमुपाधिविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्‌ ॥२॥

अधऊर्ध्वविवर्जितसर्वसमं बहिरन्तरवर्जितसर्वसमम्‌ । यदि चैकविवर्जितसर्वसमं किमु रोदिषि मानसि सर्वसमम्‌ ॥३॥

नहि कल्पितकल्पविचार इति नहि कारणकार्यविचार इति । पदसंधिविवर्जितसर्वसमं किमु० ॥४॥

नहि बोधविबोधसमाधिरिति नहि देशविदेशसमाधिरिति । नहि कालविकालसमाधिरिति किमु० ॥५॥

नहि कुंभनभो नहि कुंभ इति नहि जीववपुर्नहि जीव इति । नहि कारणकार्यविभाग इति किमु० ॥६॥

इह सर्वनिरन्तरमोक्षपदं लघुदीर्घविचारविहीन इति । नहि वर्तुलकोणविभाग इति किमु रोदिषि० ॥७॥

इह शून्यविशून्यविहीन इति इह शुद्धविशुद्धविहीन इति । इह सर्वविसर्वविहीन इति किमु रोदिषि० ॥८॥

नहि भिन्नविभिन्नविचार इति बहिरन्तरसंधिविचार इति । अरिमित्रविवर्जितसर्वसमं किमु रोदिषि० ॥९॥

नहि शिष्यविशिष्यसरूप इति न चराचरभेदविचार इति । इह सर्वनिरन्तरमोक्षपदं किमु० ॥१०॥

ननु रूपविरूपविहीन इति ननु भिन्नविभिन्नविहीन इति । ननु सर्गविसर्गविहीन इति किमु रोदिषि० ॥११॥

न गुणागुणपाशनिबन्ध इति मृतजीवनकर्म करोमि कथम्‌ । इति शुद्धनिरञ्जनसर्वसमं किमु० ॥१२॥

इह भावविभावविहीन इति इह कामविकामविहीन इहि । इहि बोधत मं खलु मोक्षसमं किमु० ॥१३॥

इह तत्त्वनिरन्तरतत्त्वमिति नहि संधिविसंधिविहीन इति । यदि सर्वविवर्जितसर्वसमं किमु० ॥१४॥

अनिकेतकुटीपरिवारसमं इह संगविसंग - विहीनपरम्‌ । इह बोधविबोधविहीनपरं किमु० ॥१५॥

अविकारविकारमसत्यमिति अविलक्षविलक्षमसत्यमिति । यदि केवलमात्मनि सत्यमिति किमु० ॥१६॥

इह सर्वतमं खलु जीव इति इह सर्वनिरन्तरजीव इति । इह केवलनिश्चलजीव इति किमु० ॥१७॥

अविवेकविवेकमबोध इति अविकल्पविकल्पमबोध इति । यदि चैकनिरन्तरबोध इति किमु० ॥१८॥

नहि मोक्षपदं नहि बन्धपदं नहि पुण्यपदं नहि पापपदम्‌ । नहि पूर्णपदं नहि रिक्तपदं किमु० ॥१९॥

यदि वर्णविवर्णविहीनसमं यदि कारणकार्यविहीनसमम्‌ । यदि भेदविभेदविहीनसमं किमु० ॥२०॥

इह सर्वनिरन्तरसर्वचिते इह केवलनिश्चलसर्वचिते । द्विपदादिविवर्जितसर्वचिते किमु० ॥२१॥

अतिसर्वनिरन्तरसर्वगतं रतिनिर्मलनिश्चलसर्वगतम्‌ । दिनरात्रिविवर्जित - सर्वगतं किमु० ॥२२॥

नहि बन्धविबन्धसमागमनं नहि योगवियोगसमागमनम्‌ । नहि तर्क वितर्क समागमनं किमु रोदिषि० ॥२३॥

इह कालविकाल - निराकरणमणुमात्रकृशानुनिराकरणम्‌ । नहि केवलसत्यनिराकरणं किमु रोदिषि० ॥२४॥

इह देहविदेहविहीन इति ननु स्वप्नसुषुप्तिविहीनपरम्‌ । अभिधानविधान - विहीनपरं किमु रोदिषि ॥२५॥

गगनोपमशुद्धविशालसमं अविसर्वविवर्जित - सर्वसमम‌ । गतसारविचारविकारसमं किमु रोदिषि० ॥२६॥

इह धर्मविधर्मविरागतरं इह वस्तुविवस्तुविरागतरम्‌ । इह कामविकामविरागतरं किमु रोदिषि० ॥२७॥

सुखदु : खविवर्जितसर्वसममिह शोकविशोकविहीनपरम्‌ । गुरुशिष्यविवर्जिततत्त्वपरं किमु रोदिषि० ॥२८॥

न किलांकुरसारविसार इति न चलाचलसाम्यविसाम्यमिति । अविचारविचारविहीनमिति किमु० ॥२९॥

इह सारसमुच्चयसारमिति कथितं निजभावविभेद इति । विषये करणत्वमसत्यमिति किमु० ॥३०॥

बहुधा श्रुतय : प्रवदन्ति यतो वियदादिरिदं मृगतोयसमम्‌ । यदि चैकनिरन्तरसर्वसमं किमु० ॥३१॥

विदन्ति विदन्ति नहि नहि यत्र छन्दो लक्षणं नहि नहि तत्र । समरसमग्नो भावितपूत : प्रलपति तत्त्वं परमवधूत : ॥२॥

॥ इति श्रीदत्तात्रेयविरचितायामवधूतगीतायां स्वामिकार्तिकसंवादे आत्मसंवित्त्युपदेशे समदृष्टिकथनं नाम पञ्चमोऽध्याय : ॥५॥

N/A

References : N/A
Last Updated : October 03, 2013

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP