अवधूत गीता - अध्यायः १

अवधूत गीता पठन केल्याने सर्व प्रकारच्या अनिष्ठ बाधा दूर होतात.

ईश्वरानुग्रहादेव पुंसामद्वैतवासना ॥ महद्‍भयपरित्राणाद्वित्राणामुपजायते ॥१॥

येनेदं पूरितं सर्वमात्मनैवात्मनात्मनि ॥ निराकारं कथं वन्दे ह्यभिन्नं शिवमव्ययम् ‍ ॥२॥

पञ्चभूतात्मकं विश्वं मरीचिजलसन्निभम् ‍ । कस्याप्यहो नमस्कुर्यामहमेको निरञ्जनः ॥३॥

आत्मैव केवलं सर्वं भेदाभेदो न विद्यते । अस्ति नास्ति कथं ब्रूयां विस्मयः प्रतिभाति मे ॥४॥

वेदान्तसारसर्वस्वं ज्ञानं विज्ञानमेव च । अहमात्मा निराकारः सर्वव्यापी स्वभावतः ॥५॥

यो वै सर्वात्मको देवो निष्कलो गगनोपमः । स्वभावनिर्मलः शुद्धः स एवाहं न संशयः ॥६॥

अहमेवाव्ययोऽनन्तः शुद्धविज्ञानविग्रहः । सुखं दुःखं न जानामि कथं कस्यापि वर्तते ॥७॥

न मानसं कर्म शुभाशुभं मे न कायिकं कर्म शुभाशुभं मे ।

न वाचिकं कर्म शुभाशुभं मे ज्ञानामृतं शुद्धमतीन्द्रियोऽहम् ‍ ॥८॥

मनो वै गगनाकारं मनो वै सर्वतोमुखम् ‍ । मनोऽतीतं मनः सर्वं न मनः परमार्थतः ॥९॥

अहमेकमिदं सर्वं व्योमातीतं निरन्तरम् ‍ ॥ पश्यामि कथमात्मानं प्रत्यक्षं वा तिरोहितम् ‍ ॥१०॥

त्वमेवमेकं हि कथं न बुध्यसे समं हि सर्वेषु विमृष्टमव्ययम् ‍ ।

सदोदितोऽसि त्वमखण्डितः प्रभो दिवा च नक्तं च कथं हि मन्यसे ॥११॥

आत्मानं सततं विद्धी सर्वत्रैकं निरन्तरम् ‍ । अहं ध्याता परं ध्येयमखण्डं खण्ड्यते कथम् ‍ ॥१२॥

न जातो न मृतोऽसि त्वं न ते देहः कदाचन । सर्वं ब्रह्मेति विख्यातं ब्रवीति बहुधा श्रुतिः ॥१३॥

स बाह्याभ्यन्तरोऽसि त्वं शिवः सर्वत्र सर्वदा । इतस्ततः कथं भ्रान्तः प्रधावसि पिशाचवत् ‍ ॥१४॥

संयोगश्च वियोगश्च वर्तते न च ते न मे । न त्वं नाहं जगन्नेदं सर्वमात्मैव केवलम् ‍ ॥१५॥

शब्दादीपञ्जकस्यास्य नैवासि त्वं न ते पुनः । त्वमेव परमं तत्त्वमतः किं परितप्यसे ॥१६॥

जन्ममृत्युर्न ते चित्तं बन्धमोक्षौ शुभाशुभौ । कथं रोदिषि रे वत्स नामरुपं न ते न मे ॥१७॥

अहो चित्त (!) कथं भ्रान्तः प्रधावसि पिशाचवत् ‍ । अभिन्नं पश्य चात्मानं रागत्यागात्सुखी भव ॥१८॥

त्वमेव तत्त्वं हि विकारवर्जितं निष्कम्पमेकं हि विमोक्षविग्रहम् ‍ ।

न ते च रागो ह्यथवा विरागः कथं हि संतप्यसि कामकामतः ॥१९॥

वदन्ति श्रुतयः सर्वा निर्गुणं शुद्धमव्ययम् ‍ । अशरीरं समं तत्त्वं तन्मां विद्धि न संशयः ॥२०॥

साकारमनृतं विद्धि निराकारं निरन्तरम् ‍ । एतत्तत्त्वोपदेशे न पुनर्भवसंभवः ॥२१॥

एकमेव समं तत्त्वं वदन्ति हि विपश्चितः । रागत्यागात्पुनश्चित्तमेकानेकं न विद्यते ॥२२॥

अनात्मरुपे च कथं समाधिरात्मस्वरुपं च कथं समाधिः ।

अस्तीति नास्तीति कथं समाधिर्मोक्षस्वरुपं यदि सर्वमेकम् ‍ ॥२३॥

विशुद्धोऽसि सम तत्त्वं विदेह स्त्वमजोऽव्ययः । जानामीह न जानामीह चात्मानं मन्यसे कथम् ‍ ॥२४॥

तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः । नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम् ‍ ॥२५॥

आत्मन्येवात्मना सर्वं त्वया पूर्णं निरन्तरम् ‍ । ध्याता ध्यानं न ते चित्तं निर्लज्जं ध्यायते कथम् ‍ ॥२६॥

शिवं न जानामि कथं वदामि शिवं च जानामि कथं भजामि ॥

अहं शिवश्चेत्परमार्थतत्त्वं समस्वरुपं गगनोपमं च ॥२७॥

नाहं तत्त्वं समं तत्त्वं कल्पनाहेतुवर्जितम् ‍ । ग्राह्यग्राहकनिर्मुक्तं स्वसंवेद्यं कथं भवेत् ‍ ॥२८॥

अनन्तरुपं न हि वस्तु किंचित्तत्त्वस्वरुपं न हि वस्तु किंचित् ‍ ।

आत्मैकरुपं परमार्थतत्त्वं न हिंसको वापि न चापि हिंसा ॥२९॥

विशुद्धोऽसि समं तत्त्वं विदेहमजमव्ययम् ‍ । विश्रमः कथमात्मार्थे विभ्रान्तोऽहं कथं पुनः ॥३०॥

घटे भिन्ने घटाकाशं सुलीनं भेदवर्जितम् ‍ । शिवेन मनसा शुद्धो न भेदः प्रतिभाति मे ॥३१॥

न घटो न घटाकाशो न जीवो जीवविग्रहः । केवलं ब्रह्म संविद्धि वेद्यवेदकवर्जितम् ‍ ॥३२॥

सर्वत्र सर्वदा सर्वमात्मानं सततं ध्रुवम् ‍ । सर्वं शून्यमशून्यं च तन्मां विद्धि न संशयः ॥३३॥

वेदा न लोका न सुरा न यज्ञा वर्णाश्रमो नैव कुलं न जातिः ।

न धूममार्गो न च दीप्तिमार्गो ब्रह्मैकरुपं परमार्थतत्त्वम् ‍ ॥३४॥

व्याप्यव्यापकनिर्मुक्तं त्वमेकः सफलं यदि । प्रत्यक्षं चापरोक्षं च आत्मानं मन्यसे कथम् ‍ ॥३५॥

अद्वैतं केचिदिच्छन्ति द्वैतमिच्छन्ति चापरे । समं तत्त्वं न विन्दन्ति द्वैताद्वैतविवर्जितम् ‍ ॥३६॥

श्वेतादिवर्णरहितं शब्दादिगुणवर्जितम् ‍ । कथयन्ति कथं तत्त्वं मनोवाचामगोचरम् ‍ ॥३७॥

यदाऽनृपमिदं सर्वं देहादि गगनोपमम् ‍ । तदा हि ब्रह्म संवेत्ति न ते द्वैतपरंपरा ॥३८॥

परेण सहजात्मापि ह्यभिन्नः प्रतिभाति मे । व्योमाकारं तथैवैकं ध्याता ध्यानं कथं भवेत् ‍ ॥३९॥

यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् ‍ । एतत्सर्वं न मे किंचिद्विशुद्धोऽहमजोऽव्ययः ॥४०॥

सर्वं जगद्विद्धि निराकृतीदं सर्वं जगद्विद्धि विकारहीनम् ‍ ।

सर्वं जगद्विद्धि विशुद्धदेहं सर्वं जगद्विद्धि शिवैकरुपम् ‍ ॥४१॥

तत्त्वं त्वं हि न संदेहः कथं जानासि वा पुनः ।

असंवेद्यं स्वसंवेद्यमात्मानं मन्यसे कथम् ‍ ॥४२॥

मायामाया कथं तात छायाछाया न विद्यते । तत्त्वमेकमिदं सर्वं व्योमाकारं निरञ्जनम् ‍ ॥४३॥

आदिमध्यान्तमुक्तोऽहं न बद्धोऽहं कदाचन । स्वभावनिर्मलः शुद्ध इति मे निश्चिता मतिः ॥४४॥

महदादि जगत्सर्वं न किंचित्प्रतिभाति मे । ब्रह्मैव केवलं सर्वं कथं वर्णाश्रमस्थितिः ॥४५॥

जानामि सर्वथा सर्वमहमेकं निरन्तरम् ‍ । निरालम्बमशून्यं च शून्यं व्योमादिपञ्जकम् ‍ ॥४६॥

न षण्ढो न पुमान्न स्त्री न बोधो नैव कल्पना । सानन्दो वा निरानन्दमात्मानं मन्येसे कथम् ‍ ॥४७॥

षडड्गयोगेन तु नैव शुद्धं मनोविनाशेन तु नैव शुद्धम् ‍ ।

गुरुपदेशे तु नैव शुद्धं स्वयं च तत्त्वं स्वयमेव बुद्धम् ‍ ॥४८॥

नहि पञ्चात्मको देहो विदेहो वर्तते नहि । आत्मैव केवलं सर्वं तुरीयं च त्रयं कथम् ‍ ॥४९॥

न बद्धो नैव मुक्तोऽहं न चाहं ब्रह्मणः पृथक् ‍ । न कर्ता न च भोक्ताहं व्याप्यव्यापकवर्जितः ॥५०॥

यथा जलं जले न्यस्तं सलिलं भेदवर्जितम् ‍ । प्रकृतिं पुरुषं : तद्वदभिन्नं प्रतिभाति मे ॥५१॥

यदि नाम न मुक्तोऽसि न बद्धोऽसि कदाचन । साकारं च निराकारमात्मानं मन्यसे कथम् ‍ ॥५२॥

जानामि ते परं रुपं प्रत्यक्षं गगनोपमम् ‍ । यथाऽपरं हि रुपं यन्मरीचिजलसन्निभम् ‍ ॥५३॥

न गुरुर्नोपदेशश्च न चोपाधिर्न मे क्रिया । विदेहं गगनं विद्धि विशुद्धोऽहं स्वभावतः ॥५४॥

विशुद्धोऽस्य शरीरोऽसि न ते चित्तं परात्परम् ‍ । अहं चात्मा परं तत्त्वमिति वक्तुं न लज्जसे ॥५५॥

कथं रोदिषि रे चित्त ह्यात्मैवात्मात्मना भव । पिब वत्स कलातीतमद्वैतं परमामृतम् ‍ ॥५६॥

नैव बोधो न चाबोधो न बोधाबोध एव च । यस्येदृशः सदा बोधः स बोधो नान्यथा भवेत् ‍ ॥५७॥

ज्ञानं न तर्को न समाधियोगो न देशकालौ न गुरुपदेशः ।

स्वभावसंवित्तिरहं च तत्त्वमाकाशकल्पं सहजं ध्रुवं च ॥५८॥

न जातोऽहं मृतो वापि न मे कर्म शुभाशुभम् ‍ । विशुद्धं निर्गुणं ब्रह्म बन्धो मुक्तिः कथं मम ॥५९॥

यदि सर्वगतो देवः स्थिरः पूर्णो निरन्तरः । अन्तरं हि न पश्यामि सबाह्याभ्यन्तरः कथम् ‍ ॥६०॥

स्फुरत्येव जगत्कृत्स्नमखण्डितनिरन्तरम् ‍ । अहो मायामहामोहो द्वैताद्वैतविकल्पना ॥६१॥

साकारं च निराकारं नेति नेतीति सर्वदा । भेदाभेदविनिर्मुक्तो वर्तते केवलः शिवः ॥६२॥

न ते च माता न पिता न बंधुर्न ते च पत्नी न सुतश्च मित्रम् ‍ ।

न पक्षपातो न विपक्षपातः कथं हि संतप्तिरियं हि चित्ते ॥६३॥

दिवा नक्तं न ते चित्तं उदयास्तमयौ न हि । विदेहस्य शरीरत्वं कल्पयन्ति कथं बुधाः ॥६४॥

नाविभक्तं विभक्तं च नहि दुःखसुखादि च । नहि सर्वमसर्वं च विद्धि चात्मानमव्ययम् ‍ ॥६५॥

नाहं कर्ता न भोक्ता च न मे कर्म पुराधुना । न मे देहो विदेहो वा निर्ममेति ममेति किम् ‍ ॥६६॥

न मे रागादिको दोषो दुःखं देहादिकं न मे ॥ आत्मानं विद्धि मामेकं विशालं गगनोपमम् ‍ ॥६७॥

सखे मनः किं बहुजल्पितेन सखे मनः सर्वमिदं वितर्क्यम् ‍ ॥

यत्सारभूतं कथितं मया ते त्वमेव तत्त्वं गगनोपमोऽसि ॥६८॥

येन केनापि भावेन यत्र कुत्र मृता अपि । योगिनस्तत्र लीयन्ते घटाकाशमिवाम्बरे ॥६९॥

तीर्थे चान्त्यजगेहे वा नष्टस्मृतिरपि त्यजन् ‍ । समकाले तनुं मुक्तः कैवल्यव्यापको भवेत् ‍ ॥७०॥

धर्मार्थकाममोक्षांश्च द्विपदादिचराचरम् ‍ । मन्यन्ते योगिनः सर्वं मरीचिजलसन्निभम् ‍ ॥७१॥

अतीतानागतं कर्म वर्तमानं तथैव च ॥ न करोमि न भुञ्जामि इति मे निश्चिता मतिः ॥७२॥

शून्यागारे समरसपूतस्तिष्ठन्नेकः सुखमवधूतः ॥

चरति हि नग्नस्त्यक्त्वा गर्वं विन्दति केवलमात्मनि सर्वम् ‍ ॥७३॥

त्रितयतुरीयं नहि नहि यत्र विन्दन्ति केवलमात्मनि तत्र ।

धर्माधर्मो नहि नहि यत्र बद्धो मुक्तः कथमिह तत्र ॥७४॥

विन्दति विन्दति नहि नहि मन्त्रं छन्दोलक्षणं नहि नहितंत्रम् ‍ ।

समरसमग्नो भावितपूतः प्रलपित मेतत् ‍ परमवधूतः ॥७५॥

सर्वशून्यमशून्यं च सत्यासत्यं न विद्यते । स्वभावभावतः प्रोक्तं शास्त्रसंवित्तिपूर्वकम् ‍ ॥७६॥

॥ इति श्रीदत्तात्रेयविरचतायामवधूतगीतायामात्मसंवित्युपदेशो नाम प्रथमोऽध्यायः ॥१॥

N/A


References : N/A
Last Updated : October 03, 2013