संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| दायभागः बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - दायभागः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः दायभागः Translation - भाषांतर ददाति दीयते पित्रा पुत्रेभ्यः स्वस्य यद्धनम् ।तद्दायं ..... .... .... ॥१॥एकां स्त्रीं कारयेत्कर्म यथांशेन गृहे गृहे ।बह्व्यः समांशतो देया दासानां अप्ययं विधिः ॥२॥उद्धृत्य कूपवाप्यम्भस्त्वनुसारेण गृह्यते ।तथा भागानुसारेण सेतुः क्षेत्रं विभज्यते ॥३॥युक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ॥४॥१ विभक्तलक्षणम्एकपाकेन वसतां पितृदेवद्विजार्चनम् ।एकं भवेद्द्विभक्तानां तदेव स्याद्गृहे गृहे ॥५॥साक्सित्वं प्रतिभाव्यं च दानं ग्रहणं एव च ।विभक्ता भ्रातरः कुर्युः नाविभक्ताः परस्परम् ॥६॥येषां एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु ।विभक्तानवगच्छेयुः लेख्यं अप्यन्तरेण तान् ॥७॥कुलानुबन्धव्याघात होधं साहससाधकम् ।स्वस्वभोगस्थावरस्य विभागस्य पृथग्धनम् ॥८॥२ विभागकालःपित्रोरभावे भ्रातृणां विभागः संप्रदर्शितः ।मातुर्निवृत्ते रजसि प्रत्तसु भगिनीषु च ॥९॥३ विभागक्रमःक्रमागते गृहक्षेत्रे पिता पुत्राः समांशिनः ।पैतृके न विभागार्हाः सुताः पितुरनिच्छया ॥१०॥समवर्णासु ये जाताः सर्वे पुत्रा द्विजन्मनाम् ।उद्धारं ज्यायसे दत्त्वा भजेरन्नितरे समम् ॥११॥वयोविद्यातपोभिश्च द्व्यंशं हि लभते धनम् ।यथा यथा विभागाप्तं धनं यागार्थतां इयात् ।तथा तथा विधातव्यं विद्वद्भिर्भागगौरवम् ॥१२॥तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ॥१३॥द्रव्ये पितामहोपात्ते स्थावरे जङ्गमेऽपि वा ।समं अंशित्वं आख्यातं पितुः पुत्रस्य चैव हि ॥१४॥समन्यूनाधिका भागाः पित्रा येषां प्रकल्पिताः ।तथैव ते पालनीया विनेयास्ते स्युरन्यथा ॥१५॥जीवद्विभागे तु पिता गृह्णीतांशद्वयं स्वकम् ॥१६॥द्विप्रकारो विभागस्तु दायादानां प्रकीर्तितः ।वयोज्येष्ठक्रमेणैकः समा परांशकल्पना ॥१७॥समवेतैस्तु यत्प्राप्तं सर्वे तत्र समांशिनः ।तत्पुत्रा विषमसमाः पितृभागहराः स्मृताः ॥१८॥पितृरिक्थहराः पुत्राः सर्व एव समांशिनः ।विद्याकर्मरतस्तेषां अधिकं लब्धुं अर्हति ॥१९॥विद्याविज्ञानशौर्यार्थे ज्ञानदानक्रियासु च ।यस्येह प्रथिता कीर्तितः पितरस्तेन पुत्रिणः ॥२०॥जन्मविद्यागुणैर्ज्येष्ठो द्व्यंशं दायादवाप्नुयात् ।समांशभागिनस्त्वन्ये तेषां पितृसमस्तु सः ॥२१॥तदभावे तु जननी तनयांशसमांशिनी ।समांशा मातरस्तेषां तुरीयांशा च कन्यका ॥२२॥कन्यकानां त्वदत्तानां चतुर्थो भाग इष्यते ।पुत्राणां च त्रयो भागाः साम्यं त्वल्पधने स्मृतम् ॥२३॥यद्येकजाता बहवः समाना जातिसंख्यया ।स्वधनैस्तैर्विभक्तव्यं मातृभागेन धर्मतः ॥२४॥सवर्णा भिन्नसंख्या ये पुंभागस्तेषु शस्यते ।पितामह्यस्तु सर्वास्ता मातृतुल्याः प्रकीर्तिताः ॥२५॥असंस्कृतास्तु यास्तत्र पैतृकादेव ता धनात् ।संस्कार्या भ्रातृभिर्ज्येष्ठः कन्यकाश्च यथाविधि ॥२६॥असंस्कृता भ्रातरस्तु ये स्युस्तत्र यवीयसः ।संस्कार्याः पूर्वजैस्ते वै पैतृकान्मध्यगाद्धनात् ॥२७॥दद्याद्धनं च पर्याप्तं क्षेत्रांशं वा यदिच्छति ॥२८॥ऊढया कन्यया वापि भर्तुः पितृगृहेऽपि वा ।भ्रातुः सकाशात्पित्रोर्वा लब्धं सौदायिकं स्मृतम् ॥२९॥सौदायिकं धनं प्राप्य स्त्रीणां स्वातन्त्रं इष्यते ।यस्मात्तदानृशंस्यार्थं तैर्दत्तं उपजीवनम् ॥३०॥विक्रये चैव दाने च यथेष्तं स्थावरेष्वपि ।स्त्रीधनं स्यादपत्यानां दुहिता च तदंशिनी ।अप्रत्ता चेत्समूढा तु लभते मानमात्रकम् ॥३१॥मातुः स्वसा मातुलानी पितृव्यस्त्री पितृष्वसा ।श्वश्रूः पूर्वजपत्नी च मातृतुल्याः प्रकीर्तिताः ॥३२॥यदासां औरसो न स्यात्पुत्रो दौहित्र एव वा ।तत्सुतो वा धनं तासां स्वस्त्रीयाद्याः समाप्नुयुः ॥३३॥४ पुत्रलक्षणम्सवर्णजोऽप्यगुणवान्नार्हः स्यात्पैतृके धने ।तत्पिण्डदाः श्रोत्रिया ये तेषां तत्तु विधीयते ॥३४॥उत्तमर्णाधमर्णेभ्यः पितरं त्रायते सुतः ।अतस्तु विपरीतेन तेन नास्ति प्रयोजनम् ॥३५॥तया गवा किं क्रियते या न दोग्ध्री न गर्भिणी ।कोऽर्थः पुत्रेण जातेन यो न विद्वान्न धार्मिकः ॥३६॥शास्त्रशौर्यार्थरहितस्तपोविज्ञानवर्जितः ।आचारहीनः पुत्रस्तु मूत्रोच्चारसमः स्मृतः ॥३७॥५ पुत्रविभागःस्थावरद्विपदं चैव यद्यपि स्वयं आर्हितम् ।असम्भूय सुतान्सर्वान्न दानं न च विक्रयः ॥३८॥जाता जनिष्यद्गर्भस्थाः पितृस्था ये च मानवाः ।सर्वे कांक्षन्ति तां वृत्तिं अनाच्छेद्यास्ततस्तु सा ॥३९॥गृहोपस्करवाह्यादि भोज्याभरणकर्मिणः ।दृश्यमाना विभज्यन्ते गूढे केशो विधीयते ॥४०॥क्षत्रजास्त्रिद्व्येकभागा विड्जौ तु द्व्येकभागिनौ ॥४१॥ब्रह्मक्सत्रियविष्शूद्रा विप्रोत्पन्नास्त्वनुक्रमात् ।चतुस्त्रिद्व्येकभागेन भवेयुस्ते यथाक्रमम् ॥४२॥शूद्र्यां द्विजातिभिर्जातो न भूमेर्भागं अर्हति ।द्विजातिराप्नुयात्सर्वं इति धर्मो व्यवस्थितः ॥४३॥तेषां सवर्णा ये पुत्रास्ते तृतीयांशभागिनः ।हीनास्तं उपजीवेयुर्ग्रासाच्छादनसंभृताः ॥४४॥सर्वे ह्यनौरसस्यैते पुत्रा दायहराः स्मृताः ।औरसे पुनरुत्पन्ने तेषु ज्यैष्ठ्यं न तिष्ठति ॥४५॥पितामहपितृभ्यां च दत्तं मात्रा च यद्भवेत् ।तस्य तन्नापहर्तव्यं शौर्यभार्याधनं तथा ॥४६॥वस्त्रादयोऽविभाज्या यैरुक्तं तैर्न विचारितम् ।धनं भवेत्समृद्धानां वस्त्रालंकारसंश्रितम् ॥४७॥ऋणं उद्वाह्य लेखितं .... .... ॥४८॥उक्तप्रकारो विज्ञेयः पत्रारूढऋणे खलु ।उक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ॥४९॥मध्यस्थितं अनाजीव्यं दातुं नैकस्य शक्यते ।युक्त्या विभजनीयं तदन्यथानर्थकं भवेत् ॥५०॥विक्रीय वस्त्राभरणं धनं उद्ग्राह्य लेखितम् ।कृतान्नं चाकृतान्नेन परिवर्त्य विभज्यते ॥५१॥योगक्षेमवतो लाभः समत्वेन विभज्यते ।प्रचारश्च यथांशेन कर्तव्यो रिक्थिभिः सदा ॥५२॥ब्रह्मदायं गतां भूमिं हरेद्यो ब्राह्मणीसुतः ।गृहं द्विजातयः सर्वे तथा क्षेत्रं क्रमागतम् ॥५३॥६ पित्रा सह विभक्तानां व्यवस्थापित्रा सह विभक्ता ये सापत्ना वा सहोदराः ।जघन्याश्चैव ये तेषां पितृभागहरास्तु ते ॥५४॥अनीशः पूर्वजः पित्र्ये भ्रातृभागे विभक्तजः ॥५५॥पुत्रैः सह विभक्तेन पित्रा यत्स्वयं आर्जितम् ।विभक्तजस्य तत्सर्वं अनीशाः पूर्वजाः स्मृताः ॥५६॥यथा धने तथा र्णे च दानादानक्रयेषु च ।परस्परं अनीशास्ते मुक्त्वाशौचोदकक्रियाम् ॥५७॥पैतामहं हृतं पित्रा स्वशक्त्या यदुपार्जितम् ।विद्याशौर्यादिनावाप्तं तत्र स्वाम्यं पितुः स्मृतम् ॥५८॥प्रदानं स्वेच्छया कुर्यात्भोगं चैव ततो धनात् ।तदभावेऽपि तनयाः समांशाः परिकीर्तिताः ॥५९॥वस्त्रालंकारशय्याइ पितुर्यद्वाहनादिकम् ।गन्धमाल्यैः समभ्यर्च्य श्राद्धभोक्त्रे तदर्पयेत् ॥६०॥पत्यौ जीवति यः स्त्रीभिरलंकारो धृतो भवेत् ।न तं भजेरन्दायादाः भजमानाः पतन्ति ते ॥६१॥पितृप्रसादात्भुज्यन्ते वस्त्राण्याभरणानि च ॥६२॥कृतेऽकृते वा विभागे रिक्थी यत्र प्रवर्तते ।सामान्यं चेद्भावयति तत्र भागहरस्तु सः ॥६३॥ऋणं लेख्यं गृहं क्षेत्रं यस्य पैतामहं भवेत् ।चिरकालप्रोषितोऽपि भागभागागतस्तु सः ॥६४॥गोत्रसाधारणं त्यक्त्वा योऽन्यं देशं समाश्रितः ।अर्धतस्त्वागतस्यांशः प्रदातव्यो न संशयः ॥६५॥तृतीयः पञ्चमश्चैव सप्तमो योऽपि वा भवेत् ।जन्मनां अपरिज्ञाने लभेतांशं क्रमागते ॥६६॥यं परंपरया मौलाः समस्ताः स्वामिनं विदुः ।तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही ॥६७॥अविभक्तविभक्तानां कुल्यानां वसतां सह ।भूयो दायविभागः स्यादाचतुर्थादिति स्थितिः ॥६८॥७ पुत्रभेदाःअनेकधा कृताः पुत्रा ऋषिभिश्च पुरातनैः ।न शक्यन्तेऽधुना कर्तुं शक्तिहीनैश्चिरन्तनैः ॥६९॥एक एवौरसः पित्र्ये धने स्वामी प्रकीर्तितः ।तत्तुल्यः पुत्रिकपुत्रो भर्तव्यास्त्वपरे स्मृताः ॥७०॥क्षेत्रजाद्याः सुतास्त्वन्ये पञ्चषट्सप्तभागिनः ॥७१॥दत्तोऽपविद्धः क्रीतश्च कृतः शौद्रस्तथैव च ।जातिशुद्धा मध्यमास्ते सर्वे रिक्थसुताः स्मृताः ॥७२॥क्षेत्रजो गर्हितः सद्भिस्तथा पौनर्भवः सुतः ।कानीनश्च सहोढश्च गूढजः पुत्रिकासुतः ॥७३॥शूद्रापुत्रः स्वयंदत्तो ये चैते क्रीतकाः स्मृताः ।सर्वे ते मैत्रिणः प्रोक्ता काण्डपृष्ठा न संशयः ॥७४॥स्वकुलं पृष्ठतः कृत्वा यो वै परकुलं व्रजेत् ।तेन दुश्चरितेनासौ काण्डपृष्ठो न संशयः ॥७५॥अग्निं प्रजापतिं चेष्ट्वा क्रियते गौतमोऽवदत् ।अन्ये त्वाहुरपुत्रस्य चिन्तिता पुत्रिका भवेत् ॥७६॥पुत्रास्त्रयोदश प्रोक्ता मनुना येन पूर्वशः ।संतानकारणं तेषां औरसः पुत्रिका तथा ॥७७॥आज्यं विना यथा तैलं सद्भिः प्रतिनिधिः स्मृतम् ।तथैकादश पुत्रास्तु पुत्रिकौरसयोर्विना ॥७८॥यद्येकजाता बहवो भ्रातरस्तु सहोदराः ।एकस्यापि सुते जाते सर्वे ते पुत्रिणः स्मृताः ॥७९॥बह्वीनां एकपत्नीनां एष एव विधिः स्मृतः ।एका चेत्पुत्रिणी तासां सर्वासां पिण्डदस्तु सः ॥८०॥पुन्नाम्नो नरकात्पुत्रः पितरं त्रायते यतः ।मुखसंदर्शनेनापि तदुत्पत्तौ यतेत सः ॥८१॥पौत्रोऽथ पुत्रिकापुत्रः स्वर्गप्राप्तिकरावुभौ ।रिक्थे च पिण्डदाने च समौ तौ परिकीर्तितौ ॥८२॥कामतश्च शूद्रावरोधजस्य भ्रातुरंशम् ।संमानमात्रं प्रेते पितरि दद्युः शुश्रूषुश्चेत्(?) ॥८३॥अन्नार्थं तण्डुलप्रस्थं अपराह्ने तु सेन्धनम् ।वसनं त्रिपणक्रीतं देयं एकं त्रिमासतः ॥८४॥८ विधवाभागःएतावदेव साध्वीनां चोदितं विधवाधनम् ॥८५॥वसनस्याशनस्यैव तथैव रजकस्य च ।धनं व्यपोह्य तच्छिष्टं दायादानां प्रकल्पयेत् ॥८६॥अपुत्रस्याथ कुलजा पत्नी दुहितरोऽपि वा ।तदभावे पिता माता भ्राता पुत्राश्च कीर्तिताः ॥८७॥अपुत्रेण सुतः कार्यो यादृक्तादृक्प्रयत्नतः ।पिण्डोदकक्रियाहेतोर्धर्मसंकीर्तनस्य च ॥८८॥काङ्क्षण्ति पितरः पुत्रान्नरकापतभीरवः ।गयां यास्यति यः कश्चित्सोऽस्मान्संतारयिष्यति ॥८९॥यथा जलं कुप्लवेन तरन्मज्जति मानवः ।तद्वत्पिता कुपुत्रेण तमस्यन्धे निमज्जति ॥९०॥करिष्यति वृषोत्सर्गं इष्टापूर्तं तथैव च ।पालयिष्यति वार्धक्ये श्राद्धं दास्यति चान्वहम् ॥९१॥९ भार्याभागःआम्नाये स्मृतितन्त्रे च लोकाचारे च सूरिभिः ।शरीरार्धं स्मृता भार्या पुण्यापुण्यफले समा ॥९२॥यस्य नोपरता भार्या देहार्धं तस्य जीवति ।जीवत्यर्धशरीरेऽर्थं कथं अन्यः समाप्नुयात् ॥९३॥सकुल्यैर्विद्यमानस्तु पितृभ्रातृसनाभिभिः ।असुतस्य प्रमीतस्य पत्नी तद्भागहारिणी ॥९४॥पूर्वप्रमीताग्निहोत्रं मृतं भर्तरि तद्धनम् ।विन्देत्पतिव्रता नारी धर्म एष सनातनः ॥९५॥मूर्वं म्र्ता हरेदग्निं अन्वारूढा हरेदघम् ।पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः ।तदभावे तु दायादः पश्चाद्दौहित्रकं धनम् ॥९६॥जङ्गमं स्थावरं हेम रूप्यधान्यरसाम्बरम् ।आदाय दापयेच्छ्राद्धं मासषाण्मासिकादिकम् ॥९७॥पितृव्यगुरुदौहित्रान्स्वसृभर्त्रीयं आतुलान् ।पूजयेत्कव्यपूर्ताभ्यां वृद्धानाथातिथीन्स्त्रियः ॥९८॥यद्विभक्ते धने किंचिदाध्यादिविधिसंस्मृतम् ।तज्जाया स्थावरं मुक्त्वा लभेत गतभर्तृका ॥९९॥वृत्तस्थापि कृतेऽप्यंशे न स्त्री स्थावरं अर्हति ।विधवा यौवनस्था चेन्नारी भवति कर्कशा ।आयुषः क्षपणार्थं तु दातव्यं जीवनं तदा ॥१००॥मृते भर्तरि भर्तृअंशं लभेत कुलपालिका ।यावज्जीवं हीनस्वाम्यं दानाधमनविक्रये ॥१०१॥क्रयक्रीता तु या नारी संभोगार्थं सुतार्थिना ।गृहीता वान्यदीया वा सैव स्त्री परिकीर्त्यते ॥१०२॥प्रदद्यात्त्वेव पिण्डं वा क्षेत्रांशं वा यदृच्छया ॥१०३॥स्थावराज्जीवनं स्त्रीभ्यो यद्दत्तं श्वशुरेण तु ।न तच्छक्यं अपाहर्तुं इतरैः श्वशुरे म्र्ते ॥१०४॥सपिण्डा बान्धवा ये तु तस्याः स्युः परिपन्थिनः ।हिंस्युर्धनानि तान्राजा चौरदण्डेण घातयेत् ॥१०५॥१० संसृष्टिविभागःसंसृष्टौ यौ पुनः प्रीत्या तौ परस्परभागिनौ ।विभक्ता भ्रातरो ये तु संप्रीत्यैकत्र संस्थिताः ।पुनर्विभागकरणे तेषां ज्यैष्ठ्यं न विद्यते ॥१०६॥कदाचिद्वा प्रमीयेत प्रव्रजेद्वा कथंचन ।न लुप्यते तस्य भागः सोदरस्य विधीयते ॥१०७॥या तस्य भगिनी सा तु ततोऽंशं लब्धुं अर्हति ।अनपत्यस्य धर्मोऽयं अभार्यपितृकस्य च ॥१०८॥सा च दत्ता त्वदत्ता वा सोदरे तु मृते सति ।तस्यांशं तु हरेत्सैव द्वयोर्व्यक्तं हि कारणम् ॥१०९॥अनन्तरः सपिण्डाद्यस्तस्य तस्य धनं भवेत् ॥११०॥मृतोऽनपत्योऽभार्यश्चेदभ्रातृपितृमातृकः ।सर्वे सपिण्डास्तद्दायं विभजेरन्यथांशतः ॥१११॥संसृष्टानां तु यः कश्चिद्विद्या शौर्यादिना धनम् ।प्राप्नोति तस्य दातव्यो द्व्यंशः शेषाः समांशिनः ॥११२॥विभक्तो यः पुनः पित्रा भ्रात्रा चैकत्र संस्थितः ।पितृव्येणाथवा प्रीत्या तत्संसृष्टः स उच्यते ॥११३॥सोदर्या विभजेरंस्तं समेत्य सहिताः समम् ।भ्रातरो ये च संसृष्टा भगिन्यश्च सनाभयः ॥११४॥येषां ज्येष्ठः कनिष्ठो वा हीयेतांशप्रदानतः ।म्रियेतान्यतरो वापि तस्य भागो न लुप्यते ॥११५॥.... .... सोदरस्य तु सोदरः ।दद्याच्चापहरेच्चांशं जातस्य च मृतस्य च ॥११६॥अन्योदर्यस्तु संसृष्टी नान्योदर्याद्धनं हरेत् ।असंसृष्ट्यपि चादद्यात्सोदर्यो नान्यमातृजः ॥११७॥प्रमीतपितृकाणां तु पितृतो भागकल्पना ॥११८॥येऽपुत्राः क्षत्रविट्शूद्राः पत्नीभ्रातृविवर्जिताः ।तेषां धनहरो राजा सर्वस्याधिपतिर्हि सः ॥११९॥११ पुत्राणां वर्णानुरूपेण विशेषःविप्रेण क्षत्रियाजातो जन्मज्येष्ठो गुणान्वितः ।भवेत्समांशः क्षत्रेण वैश्याजातस्तथैव च ॥१२०॥न प्रतिग्रहभूर्देया क्षत्रियादिसुताय वै ।यद्यप्येषां पिता दद्यान्मृते विप्रासुतो हरेत् ॥१२१॥शूद्र्यां द्विजातिभिर्जातो न भूमेर्भागं अर्हति ।सजातावाप्नुयात्सर्वं इति धर्मो व्यवस्थितः ॥१२२॥निषाद एकपुत्रस्तु विप्रस्य स तृतीयभाक् ।द्वौ सकुल्याः सपिण्डा वा स्वधादाताथ संहरेत् ॥१२३॥कुल्याभावे स्वधादाता आचार्यः शिष्य एव वा ।सर्वास्वापत्सु तान्वर्णांस्तथैव प्रतिपादयेत् ॥१२४॥अनपत्यस्य शुश्रूषुर्गुणवाञ् शूद्रयोनिजः ।लभेताजीवनं शेषं सपिण्डाः समवाप्नुयुः ॥१२५॥१२ दुहितुः दायार्हत्वम्भर्तुर्धनहरी पत्नी तां विना दुहिता स्मृता ॥१२६॥अङ्गादङ्गात्संभवति पुत्रवद्दुहिता नृणाम् ।तस्मात्पितृधनं त्वन्यः कथं गृह्णीत मानवः ॥१२७॥तदभावे तु दुहिता यद्यनूढा भवेत्तदा ।अपुत्रपौत्रसंताने दौहित्रा धनं आप्नुयुः ॥१२८॥यथैवात्मा तथा पुत्रः पुत्रेण दुहिता समा ।तस्यां आत्मनि तिष्ठन्ति कथं अन्यो धनं हरेत् ॥१२९॥पौत्रदौहित्रयोर्लोके विशेषो नास्ति धर्मतः ।अनेनैव विधानेन सुतं चक्रेऽथ पुत्रिकाम् ॥१३०॥पुमान्पुंसोऽधिके शुक्ले स्त्री भवत्यधिके स्त्रियाः ॥१३१॥सदृशी सदृशेनोढा साध्वी शुश्रूषणे रता ।कृताकृता वा पुत्रस्य पितुर्धनहरी तु सा ॥१३२॥यथा पितृधने स्वाम्यं तस्याः सत्स्वपि बन्धुषु ।तथैव तत्सुतोऽपीष्टे मातृमातामहे धने ॥१३३॥तदभावे भ्रातरस्तु भ्रातृपुत्राः सनाभयः ।सकुल्या बान्धवाः शिष्याः श्रोत्रियाश्च धनार्हकाः ॥१३४॥१३ अपुत्रस्य धनविभागःअनपत्यस्य पुत्रस्य माता दायं अवाप्नुयात् ।भार्यासुतविहीनस्य तनयस्य मृतस्य तु ।माता रिक्थहरी ज्ञेया भ्राता वा तदनुज्ञया ॥१३५॥पुत्राभावे तु पत्नी स्यात्पत्न्यभावे तु सोदरः ।तदभावे तु दायादः पश्चाद्दौहित्रकं धनम् ॥१३६॥समुत्पन्नाद्धनादर्धं तदर्थं स्थापयेत्प्र्थक् ।मासषाण्मासिके श्राद्धे वार्षिके वा प्रयत्नतः ॥१३७॥बहवो ज्ञातयो यत्र सकुल्या बान्धवास्तथा ।यस्त्वासन्नतरस्तेषां सोऽनपत्यधनं हरेत् ॥१३८॥भ्राता वा भ्रातृपुत्रो वा सपिण्डः शिष्य एव वा ।सह पिण्डक्रियां कृत्वा कुर्यादभ्युदयं ततः ॥१३९॥स्वेच्छाकृतविभागो यः पुनरेव विसंवदेत् ।स राज्ञांशे स्वके स्थाप्यः शासनीयोऽनुबन्धकृत् ॥१४०॥साधारणऋणन्यास निह्नवे छद्मना क्रियाम् ।पार्श्वहानिकारीं कृत्वा बलान्नैव प्रदापयेत् ॥१४१॥मायाविनो धृतधनाः क्रूरा लुब्धाश्च ये नराः ।संप्रीत्या साधनीयास्ते स्वार्थहान्या छलेन वा ॥१४२॥साहसं स्थावरस्वाम्यं प्राग्विभागश्च रिक्थिनाम् ।अनुमानेन विज्ञेयं न स्युर्यत्र च साक्षिणः ॥१४३॥१४ विभक्तक्रियातेषां एताः क्रिया लोके प्रवर्तन्ते स्वरिक्थिषु ।विभक्तानवगच्छेयुर्लेख्यं अप्यन्तरेण तान् ॥१४४॥अविभक्तैश्च कर्तव्या वैश्वदेवादिकाः क्रियाः ॥१४५॥बलानुबन्धव्याघात होढं साहसभावकम् ।स्वस्य भोगः स्थावरस्य विभागस्य पृथग्धनम् ॥१४६॥पृथगायव्ययधनाः कुसीदं च परस्परम् ।वणिक्पथं च ये कुर्युर्विभक्तास्ते न संशयः ॥१४७॥कार्यं उच्छ्रावणालेख्यं विभक्तैर्भ्रातृभिर्मिथः ।साक्षिणो वा विरोधार्थं विभजद्भिरनिन्दिताः ॥१४८॥येनांशो यादृशो भुक्तस्तस्य तं न विचालयेत् ॥१४९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP