संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| क्रयविक्रयानुशयः बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - क्रयविक्रयानुशयः स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः क्रयविक्रयानुशयः Translation - भाषांतर समासेनोदितस्त्वेष समयाचारनिश्चयः ।क्रयविक्रयसंजातो विवादः श्रूयतां अयम् ॥१॥१ पण्यम्जङ्गमं स्थावरं चैव द्रव्ये द्वे समुदाहृते ।क्रयकाले पण्यशब्द उभयोरपि च स्मृतः ॥२॥२ सदोषपण्यक्रये दण्डःज्ञात्वा सदोषं यः पण्यं विक्रीणात्यविचक्षणः ।तदेव द्विगुणं दाप्यस्तत्समं विनयं तथा ॥३॥३ त्याज्यानिमत्तोन्मत्तेन विक्रीयं हीनं ऊल्यं भयेन वा ।अस्वतन्त्रेण मूढेन त्याज्यं तस्य पुनर्भवेत् ॥४॥योऽन्यहस्ते तु विक्रीय अन्यस्मै तत्प्रयच्छति ।सोऽपि तद्द्विगुणं दाप्यो विनयं तावदेव तु ॥५॥४ परीक्षणकालाःदशैकपञ्चसप्ताह मासत्र्यहार्धमासिकं =य़्व्_२.१७७अ ।बीजायोवाह्यरत्नस्त्री दोह्यपुंसां परीक्षणं =य़्व्_२.१७७ब् ॥६॥अतोऽर्वाक्पुण्यदोषस्तु यदि संजायते क्वचित् ।विक्रेतुः प्रतिदेयं तत्क्रेता मूल्यं अवाप्नुयात् ॥७॥अविज्ञातं तु यत्क्रीतं दुष्टं पश्चाद्विभावितम् ।क्रीतं तत्स्वामिने देयं पण्यं कालेऽन्यथा न तु ॥८॥परीक्षेत स्वयं पण्यं अन्येषां च प्रदर्शयेत् ।परीक्सितं बहुमतं गृहीत्वा न पुनस्त्यजेत् ॥९॥अश्वरूप्यहिरण्यानां धान्यलोहाजवाससाम् ।चर्मकाष्ठविकाराणां एकाहं स्यात्परीक्षणम् ॥१०॥मर्णीभाश्वाश्वतरिणां आगमैर्मूल्यकल्पना ।नृपाज्ञयापणस्थानां गोभूम्योरुभयेच्छया ॥११॥संविभागे विनिमये क्षेत्रयोरुभयोरपि ।अनुस्मृतिकृता ताभ्यां कार्यसिद्धिर्भविष्यति ॥१२॥प्रष्टव्याः संनिधिस्थाश्चेत्क्रेत्रा ज्ञात्यादयः स्मृताः ।अन्यथा चेत्कृतं कर्म ज्ञातीच्छां दर्शयेत्ततः ॥१३॥ज्ञात्यादिप्रत्ययेनैव स्थावरक्रय इष्यते ।अन्यथा चेत्क्रयो यः स्यादन्यग्रामे त्रिपक्षकम् ॥१४॥सोदराश्च सपिण्डाश्च सोदकाश्च सगोत्रिणः ।सामन्ता धनिका ग्राह्याः सप्तैते योनयो मताः ॥१५॥मूल्यं दत्त्वाधिकं न्यूनं मूल्यस्यानुचितं स्मृतम् ।क्रयसिद्धेस्तु नैव स्याद्वत्सराणां शतैरपि ॥१६॥५ क्षेत्रक्रये विशेषःविक्रयेषु च सर्वेषु कूपवृक्षादि लेखयेत् ।जलमार्गादि यत्किंचिदन्यैश्चैव बृहस्पतिः ॥१७॥क्षेत्राद्युपेतं परिपक्वसस्यं वृक्षं फलं वाप्युपभोगयोग्यम् ।कूपं तडाकं गृहं उन्नतं च क्रेत्रे च विक्रेतुरिदं वदन्ति ॥१८॥मत्तमूढानभिज्ञार्त मूढैर्विनिमयः कृतः ।यच्चानुचितमूल्यं स्यात्तत्सर्वं विनिवर्तयेत् ॥१९॥ज्ञातिसामन्तधनिकाः क्रये ग्रामात्बहिर्गताः ।नार्हन्ति ते प्रतिक्रोष्टुं क्रान्तं पक्षत्रये क्रमात् ॥२०॥त्रिपक्षादथ वा मासात्त्रितयात्तु तदाप्नुयात् ॥२१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP