संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| उत्तरम् बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - उत्तरम् स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः उत्तरम् Translation - भाषांतर यदा त्वेवंविधः पक्षः कल्पितः पूर्ववादिना ।दद्यात्तत्पक्षसंबद्धं प्रतिवादी तदोत्तरम् ॥१॥विनिश्चिते पूर्वपक्षे ग्राह्याग्राह्यविशेषिते ।प्रतिज्ञाते स्थिरीभूते लेखयेदुत्तरं ततः ॥२॥१ प्रार्थयमानाय कालो देयःशालीनत्वाद्भयात्तद्वत्प्रत्यर्थी स्मृतिविभ्रमात् ।कालं प्रार्थयते यत्र तत्रेमं लब्धुं अर्हति ॥३॥एकाहत्र्यहपञ्चाह सप्ताहं पक्षं एव वा ।मासं चतुस्त्रयं वर्षं लभते शक्त्यपेक्षया ॥४॥पक्षस्य व्यापकं सारं असंदिग्धं अनाकुलं पृष्ठ ३७ ।अव्याख्यानगम्यं एतदुत्तरं तद्विदो विदुः ॥५॥उत्तरं चतुर्विधं संप्रति षत्मु?रं, ।मिथ्योत्तरं प्राङ्न्याय उत्तरं कारणोत्तरं चेति ॥६॥पूर्वपक्षे यथार्थं तु न दद्यादुत्तरं तु यः ।प्रत्यक्षी दापनीयः स्यात्सामादिभिरुपक्रमैः ॥७॥प्रियपूर्वं वचः साम भेदस्तु भयदर्शनम् ।अर्थापकर्षणं दण्डस्ताडनं बन्धनं तथा ॥८॥साहसस्तेयपारुष्य गोऽभिशापे तथात्यये ।भूमौ विवादयेत्क्षिप्रं अकालेऽपि बृहस्पतिः ॥९॥अन्यवादी क्रियाद्वेषी नोपस्थायी निरुत्तरः ।आहुतः प्रपलायी च हीनः पञ्चविधः स्मृतः ॥१०॥कन्याया दूषणे स्तेये कलहे साहसेषु च ।उपधौ कूटसाक्ष्ये च सद्य एव विवादयेत् ॥११॥धेनावनडुहि क्षेत्रे स्त्रीषु प्रजनने तथा ।न्यासे याचितके दत्ते तथैव क्रयविक्रये ॥१२॥प्राङ्न्याये कारणोक्तौ च प्रत्यर्थी निर्दिशेत्क्रियाम् ।मिथ्योक्तौ पूर्ववादी तु प्रतिपत्तौ न संभवेत् ॥१३॥अनुक्त्वा कारणं यत्र पक्षं वादी प्रपद्यते ।प्रतिपत्तिस्तु सा ज्ञेया कारणं तूत्तरं पृथक् ॥१४॥सर्वालापं तु यः कृत्वा मिथोऽल्पं अपि संवदेत् ।सर्वं एव तु दाप्यः स्यादभियुक्तो बृहस्पतिः ॥१५॥वाक्पारुष्ये च भूम्यौ च दिव्यं तु परिवर्जयेत् ।विक्रयादानसंबन्धे क्रियादानं अनिच्छति ॥१६॥२ चतुर्विधं उत्तरम्अभियुक्तोऽभियोगस्य यदि कुर्यात्तु निह्नवम् ।मिथ्या तत्तु विजानीयादुत्तरं व्यवहारतः ॥१७॥श्रुत्वाभियोगं प्रत्यर्थी यदि तत्प्रतिपद्यते ।सा तु संप्रतिपत्तिस्तु शास्त्रविद्भिरुदाहृता ॥१८॥अर्थिनाभिहितो योऽर्थः प्रत्यर्थी यदि तं तथा ।प्रपद्य कारणं ब्रूयात्प्रत्यवस्कन्दनं हि तत् ॥१९॥योऽर्थिनार्थः प्रभाष्येत प्रत्यर्थी यदि तं तथा ।प्रपद्य कारणं ब्रूयादाधर्यं मनुरब्रवीत् ॥२०॥आचारेणावसन्नोऽपि पुनर्लेखयते यदि ।स विनेयो जितः पूर्वं प्राङ्न्यायस्तु स उच्यते ॥२१॥तथ्ये तथ्यं प्रयुञ्जीत मिथ्यायां चापि लेखयेत् ।कारणं कारणोपेते प्राग्जये तु जयं तथा ॥२२॥भयदृष्टोद्भवा मिथ्या गर्हिता शास्त्रवेदिभिः ।सत्या संप्रतिपत्तिस्तु धर्म्या सा परिकीर्तिता ॥२३॥प्राङ्न्यायकरणे तथ्यं श्लाघ्यं सद्भिरुदाहृतम् ।विपरीतं अधर्म्यं स्यात्प्रत्यर्थी हानिं आप्नुयात् ॥२४॥अहंपूउर्विकया यातावर्थिप्रत्यर्थिनौ यदा ।वादो वर्णानुपूर्व्येण ग्राह्यः पीडां अवेक्ष्य च ॥२५॥एककाले समानीते प्रत्यर्थी सभ्यसंनिधौ ।पूर्वपक्षाक्षरसमं लेखयेदुत्तरं ततः ॥२६॥प्रत्यर्थविधिराख्यातः संगतार्थप्रपादने ।चतुर्विधस्याप्यधुना यत्तद्ग्राह्यं तदुच्यते ॥२७॥प्रस्तुतादन्यन्मध्यस्थं न्यूनाधिकं असंगतम् ।अवाच्यसारं संदिग्धं प्रतिपक्षं न लक्षयेत् ॥२८॥भयं करोति भेदं वा भीषणं वा निरोधनम् ।एतानि वादिनोऽर्थस्य व्यवहारे स हीयते ॥२९॥ऋत्विगादिर्नियुक्तस्तु समौ संपरिकीर्तितौ ।यज्ञे स्वाम्याप्नुयात्पुण्यं हानिं वादेऽथ वा जयम् ॥३०॥पूर्वोत्तरेऽभिलिखिते यत्र वादी प्रमीयते ।प्रत्यर्थी वा सुतस्ताभ्यां व्यवहारं विशोधयेत् ॥३१॥अनिर्णीते विवादे तु विप्रलब्धो भवेन्नृपः पृष्ठ ४१ ।जयदानं समं न स्यात्तस्मात्कार्याणि निर्णयेत् ॥३२॥साक्षिणस्तु समुद्दिश्य यस्तु तान्न विवादयेत् ।त्रिंसद्रात्रात्त्रिपक्षाद्वा तस्य हानिः प्रजायते ॥३३॥आहूतप्रपलायी च मौनी साक्षिपराजितः ।स्ववाक्यप्रतिपन्नश्च हीनवादी चतुर्विधः ॥३४॥प्रपलायी त्रिपक्षेण मौनी वा सप्तभिर्दिनैः ।साक्षिभिन्नस्तत्क्षणेन प्रतिपन्नश्च हीयते ॥३५॥निवेदितस्य अकथनं अनुपस्थानं एव च ।पक्षार्थिदोषौ मौनं च हीयमानस्य लक्षणम् ॥३६॥महापापोपपापाभ्यां पातकेनाथ संसदि ।योऽभिशस्तस्तत्क्षमते संयुक्तं तं विदुर्जनाः ॥३७॥तस्माद्यत्नेन कर्तव्यं बुधेनात्मविशोधनम् ।यद्यद्गुरुतरं कार्यं तत्तत्पूर्वं विशोधयेत् ॥३८॥महापापाभिशस्तो यः पातकात्तर्तुं इच्छति ।पूर्वं अङ्गीकृतं तेन जितोऽसौ दण्डं अर्हति ॥३९॥आचारकरणे दिव्ये कृत्वोपस्थाननिश्चयम् ।नोपस्थितो यदा कश्चिच्छलं तत्र न कारयेत् ॥४०॥दैवराजकृतो दोषस्तत्काले तु यदा भवेत् ।अवधित्यागमात्रेण न भवेत्स पराजितः ॥४१॥पुर्वोत्तरे संनिविष्टे विचारे संप्रवर्तिते ।प्रशमं ये मिथो यान्ति दाप्यस्ते द्विगुणं दमम् ॥४२॥पूर्वोत्तरार्थे लिखिते प्रक्रान्ते कार्यनिर्णये ।द्वयोः संतप्तयोः सन्धिः स्यादयःखण्डयोरिव ॥४३॥३ सन्धिविचारःसाक्षिसभ्यविकल्पस्तु भवेत्तत्रोभयोरपि पृष्ठ ४३ ।दोलायमानयोः सन्धिः प्रकुर्यातां विचक्षणैः ॥४४॥प्रमाणसमता यत्र भेदः शास्त्रचरित्रयोः ।तत्र राजामया सन्धिरुभयोरपि शस्यते ॥४५॥यत्र सांशायिको धर्मो व्यवहारश्च पार्थिवे ।सन्धिस्तत्र तु कर्तव्योऽयसोः संतप्तयोर्यथा ॥४६॥समः सन्धिस्तदा कार्यो विषमस्तु निवर्तते ।धर्मार्थोपग्रहः कीर्तिः भवेत्साम्येन भूभृतः ।न क्लिश्यन्ते साक्षिसभ्या ऐरं च विनिवर्तते ॥४७॥निग्रहानुग्रहं दण्डं धर्मं प्राप्य यशोऽयशः ।विग्रहाज्जायते नृणां पुनर्दोषस्तथैव च ॥४८॥तस्मात्कुलगणाध्यक्षा धर्मज्ञाः समदृष्टयः ।अद्वेषलोभा यद्ब्रूयुस्तत्कर्तव्यं विजानता ॥४९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP