बृहस्पतिस्मृतिः - साक्षिणः

स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग.


नव सप्त च पञ्च स्युश्चत्वारस्त्रय एव वा ।
उभौ वा श्रोत्रियौ ख्यातौ नैकं पृच्छेत्कदा चन ॥१॥
द्यूतकः शटिकाग्राही कार्यमध्यगतस्तथा ।
एक एव प्रमाणं स्यान्नृपोऽध्यक्षस्तथैव च ॥२॥
स्तेनाः साहसिकाः षण्डाः कितवाः सूचकास्तथा ।
न साक्षिणस्ते दुष्टात्वात्तेषु साक्षियं न विद्यते ॥३॥

१ साक्षिभेदाः
लिखितो लिखितो गूढः स्मारितः कुल्यदूतकौ ।
यदृच्छश्चोत्तरश्चैव कार्यमध्यगतोऽपरः ॥४॥
नृपोऽध्यक्षस्तथा ग्रामः साक्षी द्वादशधा स्मृतः ।
प्रभेदं एषां वक्ष्यामि यथावदनुपूर्वशः ॥५॥
जातिनामादिलिखितं येन स्वं पित्र्यं एव च ।
निवासश्च विज्ञेयः साक्षी लिखितसंज्ञकः ॥६॥
अर्थिना च क्रिया भेदैस्तस्य कृत्वा ऋणादिकम् ।
प्रत्यक्षं लिख्यते यस्तु लेखितः स उदाहृतः ॥७॥
कुड्यव्यवहितो यस्तु श्राव्यते ऋणभाषितम् ।
विनिह्नुतो यथाभूतं गूढः साक्षी स उच्यते ॥८॥
आहूय यः कृतः साक्षी ऋणन्यासक्रियादिके पृष्ठ ५१ ।
स्मार्यते च मुहुर्यश्च स्मारितः स उदाहृतः ॥९॥
विभागदाने विपणे ज्ञातिर्यश्चोपयुज्यते ।
द्वयोः समानो धर्मज्ञः कुल्यः स परिकीर्तितः ॥१०॥
अर्थिप्रत्यर्थिवचनं शृणुयात्प्रेषितस्तु यः ।
उभयोः संमतः साधुः दूतकः स उदाहृतः ॥११॥
क्रियमाणे तु कर्तव्ये यः कश्चित्स्वयं आगतः ।
अत्र साक्षी त्वं अस्माकं उक्तो यादृच्छिकस्तु सः ॥१२॥
यत्र साक्षी दिशं गच्छेन्मुमूर्षुर्वा यथाक्रमम् ।
अन्यं संश्रावयेत्तं तु विद्यादुत्तरसाक्षिणम् ॥१३॥
साक्षिणां अपि यः साक्ष्यं उपर्युपरि भाषताम् ।
श्रवणाच्छ्रवणाद्वापि स साक्ष्युत्तरसंज्ञितः ॥१४॥
उभाभ्यां यस्य विश्वस्तं कार्यं चापि निवेदितम् ।
गूढधारी स विज्ञेयः कार्यमध्यागतस्तथा ॥१५॥
अर्थिप्रत्यर्थिनोर्वाक्यं यच्छ्रुतं भूभृता स्वयम् ।
स एव तत्र साक्षी स्याद्विसंवादे द्वयोरपि ॥१६॥
निर्णीते व्यवहारे तु पुनर्न्यायो यदा भवेत् ।
अध्यक्षः सभ्यसहितः साक्षी स्यात्तत्र नान्यथा ॥१७॥
व्युषितं छादितं यत्र सीमायां च समन्ततः पृष्ठ ५३ ।
स कृत्तोऽपि भवेत्साक्षी ग्रामस्तत्र न संशयः ॥१८॥
लिखितौ द्वौ तथा गूढौ त्रिचतुःपञ्च लेखिताः ।
यदृच्छ स्मारिताः कुल्यास्तथा चोत्तरसाक्षिणः ॥१९॥
दूतकः स्वटिकाग्राही कार्यमध्यगतस्तथा ।
एक एव प्रमाणं स्यान्नृपोऽध्यक्षस्तथैव च ॥२०॥

२ साक्षिदोषकथनं दुष्टानां दण्डश्च
साक्षिणोऽर्थसमुद्दिष्टान्यस्तु दोषेण दूषयेत् ।
अदुष्टं दूषयन्वादी तत्समं दण्डं अर्हति ॥२१॥
लेख्यदोषास्तु ये केचित्साक्षिणां चैव ये स्मृताः ।
वादकाले तु वक्तव्याः पश्चादुक्तान्न दूषयेत् ॥२२॥
साक्षिदोषाः प्रयोक्तव्याः संसदि प्रतिवादिना ।
पत्रे विलिख्य तान्सर्वान्वाच्यं प्रत्युत्तरं ततः ॥२३॥
प्रतिपत्तौ न साक्षित्वं अर्हन्ति तु कदा चन ।
अतोऽन्यथा भावनीयाः क्रियायां प्रतिवादिना ॥२४॥
अभावयन्दमं दाप्यः प्रत्यर्थी साक्षिणा स्फुटम् ।
भाविताः साक्षिणः सर्वे साक्षिधर्मनिराकृताः ॥२५॥
प्रत्यर्थिनोऽर्थिनो वापि साक्षिदूषणसाधने ।
प्रस्तुतार्थोपयोगेन व्यवहारान्तरं न च ॥२६॥
जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा ।
यदि वादी निराकाङ्क्षः साक्षी सत्ये व्यवस्थितः ॥२७॥
उक्तेऽर्थे साक्षिणो यस्तु दूषयन्प्रागदूषितान् ।
न च तत्कारणं ब्रूयात्प्राप्नुयात्पूर्वसाहसम् ॥२८॥
लेख्यं वा साक्षिणो वापि विवादे यस्य दूषिताः ।
तस्य कार्यं न शोध्यं तु यावत्तन्न विशोधयेत् ॥२९॥
साक्षिभिर्गदितैः सभ्यैः प्रक्रान्ते निर्णये तु यः ।
पुनर्विवादं कुरुते राजा तत्र विचारयेत् ॥३०॥
साक्षिसंदूषणे कार्यं पूर्वं साक्षिविशोधनं पृष्ठ ५५ ।
शुद्धेषु साक्षिषु ततः पश्चात्कार्यं विशोधयेत् ॥३१॥
सत्यप्रशंसावचनैरनृतस्यापवर्जनैः ।
सभ्यैः संबोधनीयास्तु धर्मशास्त्रार्थवेदिभिः ॥३२॥
आ जन्मनश्चा मरणात्सुकृतं यत्त्वयार्जितम् ।
तत्सर्वं नाशं आयाति वितथस्याभिशंसनात् ॥३३॥
कूटसभ्यः कूटसाक्षी ब्रह्महा च समाः स्मृताः ।
भ्रूणहा मित्रहा चैषां नाधिकः समुदाहृतः ॥३४॥
एवं विदित्वा यः साक्षी स यथार्थं वदेत्ततः ।
तेनेह कीर्तिं आप्नोति परत्र च शुभां गतिम् ॥३५॥
पुरुषाः सन्ति लोभाद्ये कार्यं प्रब्रूयुरन्यथा ।
सन्ति चान्ये दुरात्मानः कूटलेख्यकृतो नराः ॥३६॥
प्रष्टव्याः साक्षिणो ये तु वर्ज्याश्चैव नराधमाः ।
तानहं कथयिष्यामि सांप्रतं शास्त्रचोतितान् ॥३७॥
श्रौतस्मार्तक्रियायुक्ताः लोभद्वेषविवर्जिताः ।
कुलीनाः साक्षिणोऽनिन्द्यास्तपोदानदयान्विताः ॥३८॥

३ असाक्षिणः
मातुः पिता पितृव्यश्च भार्याया भ्रातृमातरौ ।
भ्राता सखा च जामाता सर्ववादेष्वसाक्षिणः ॥३९॥
परस्त्रीपानसक्ताश्च कितवाः पूर्वदूषिताः ।
उन्मत्तार्ताः साहसिका नास्तिकाश्च न साक्षिणः ॥४०॥
सन्तोऽपि न प्रमाणं स्युर्मृते धनिनि साक्षिणः ।
पुत्रे तु श्राविता ये स्युः स्वयं आसन्नमृत्युना ॥४१॥
विहायोपानदुष्णीषं दक्षिणं पाणिं उद्धरेत् ।
हिरण्यं गोशकृद्दर्भान्समादाय ऋतं वदेत् ॥४२॥
उपस्थिताः परीक्ष्याः स्युः स्वर्वर्णेङ्गितादिभिः ।
सकृत्प्रमादापराधि विप्रं व्यापदि पीडितम् ।
भटादिभिर्वध्यमानं रक्षेदुक्त्वानृतान्यपि ॥४३॥
यस्याशेषः प्रतिज्ञार्थः साक्षिभिः प्रतिवर्णितः पृष्ठ ५७ ।
स जयी स्यादन्यथा तु साध्यार्थं न समाप्नुयात् ॥४४॥
आहूतो यत्र नागच्छेत्साक्षी रोगविवर्जितः ।
ऋणं दमं च दाप्यः स्यात्त्रिपक्षात्परतस्तु सः ॥४५॥

४ साक्ष्युक्तिबलाब्लविचारः
साक्षिद्वैधे प्रभूताः स्युर्ग्राह्याः साम्ये गुणान्विताः ।
गुणिद्वैधे क्रियायुक्तास्तत्साम्ये शुचिमत्तराः ॥४६॥
अपृष्टाः सत्यवचने प्रश्नस्याकथने तथा ।
साक्षिणः सन्निरोद्ध्व्या गर्ह्या दण्ड्याश्च धर्मतः ॥४७॥
देशकालवयोद्रव्य संज्ञाजातिप्रमाणतः ।
अन्यूनं चेन्निगदितं सिद्धं साध्यं विनिर्दिशेत् ॥४८॥
देशकालवयोद्रव्य प्रमाणाकृतिजातिषु ।
यत्र विप्रतिपत्तिः स्यात्साक्ष्यं तदपि नान्यथा ॥४९॥
निर्दिष्टेष्वर्थजातेषु साक्षी चेत्साक्ष्य आगते ।
न ब्रूयादक्षस्रसमं न तन्निगदितं भवेत् ॥५०॥
पूर्वपक्षे प्रतिज्ञातं अशेषं प्रतिभावयेत् ।
ऊनाधिकं तु यत्रोक्तं न तन्निगदितं भवेत् ॥५१॥
ऊनं अभ्यधिकं वार्थं विब्रूयुर्यत्र साक्षिणः ।
तदर्थानुक्तविज्ञेयं एष साक्षिविधिः स्मृतः ॥५२॥
साध्यार्थांशे निगदिते साक्षिभिः सकलं भवेत् ।
स्त्रीसङ्गे साहसे चौर्ये यत्साध्यं परिकल्प्यते ॥५३॥
ऊनाधिकं तु यत्र स्यात्साक्ष्यं तत्र विवर्जयेत् ।
साक्षी तत्र न दण्ड्यः स्यादब्रुवन्दण्डं अर्हति ॥५४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP