संस्कृत सूची|संस्कृत साहित्य|स्मृतिः|बृहस्पतिस्मृतिः| दिव्यानि बृहस्पतिस्मृतिः व्यवहारकाण्डम् अतुष्पाद्व्यवहारोपक्रमः उत्तरम् क्रियापादः साक्षिणः लिखितम् भुक्तिः दिव्यानि निर्णयप्रकारः ऋणादानम् निक्षेपः अस्वामिविक्रयः संभूयसमुत्थानम् अदेयदेयदत्तानि अभ्युपेत्याशुश्रूषा वेतनस्यानपाकर्म संविद्व्यतिक्रमः क्रयविक्रयानुशयः सीमावादः वाक्पारुष्यम् दण्डपारुष्यम् स्तेयम् साहसम् स्त्रीसंग्रहणम् स्त्रीपुंसवर्तनोपायः दायभागः द्यूतम् समाह्वयः प्रकीर्णकम् बृहस्पतिस्मृतिः - दिव्यानि स्मृतिग्रंथ म्हणजे धर्मशास्त्रावरील एक आवश्यक वचनांचा भाग. Tags : brihaspatidharmasmritiधर्मबृहस्पतिबृहस्पतिस्मृतिःसंस्कृतस्मृतिः दिव्यानि Translation - भाषांतर स्थावरस्य तथाख्यातं लाभभोगप्रसाधनम् ।प्रमाणहीने वादे तु निर्दोषा दैविकी क्रिया ॥१॥प्रदुष्टेष्वनुमानेषु दिव्यैः कार्यं विशोधयेत् ।धटाद्या धर्मजान्ता च दैवी नवविधा स्मृता ॥२॥धटोऽग्निरुदकं चैव विषं कोशश्च पञ्चमम् ।षष्ठं च तण्डुलाः प्रोक्तं सप्तमं तप्तमाषकः ॥३॥अष्टमं कालं इत्युक्तं नवमं धर्मकं तथा ।दिव्येनायाति सर्वाणि निर्दिष्टानि स्वयम्भुवा ॥४॥१ दिव्यव्यवस्थायस्माद्देवैः प्रयुक्तानि दुष्करार्थे महात्मभिः ।अहं उद्देशतां वच्मि संदिग्धार्थविशुद्धये ।देशकालार्थसंख्याभिः प्रयुक्तान्यनुपूर्वशः ॥५॥अपराधानुपूर्व्येण साध्वसाधुविवक्षया ।शास्त्रोदितेन विधिना प्रदातव्यानि नान्यथा ॥६॥ऋणादिकेषु कार्येषु विसंवादे परस्परम् ।द्रव्यसंख्यान्विता देया पुरुषापेक्षया तथा ॥७॥लोके संव्यवहारार्थं संज्ञेयं कथिता भुवि ।ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः ॥८॥निष्कं सुवर्णाश्चत्वारः कार्षिकस्ताम्रिकः पणः ।ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिकः पणः ॥९॥स एव चान्द्रिका प्रोक्ता ताश्चतस्रस्तु धानकाः ।ता द्वादश सुवर्णस्तु दीनाराख्यः स एव तु ॥१०॥कार्षापणसहस्रं तु दण्ड उत्तमसाहसः ।तदर्धं मध्यमः प्रोक्तस्तदर्धं अधमः स्मृतः ॥११॥ब्राह्मणस्य धटो देयः क्षत्रियस्य हुताशनः ।वैश्यस्य सलिलं देयं शूद्रस्य विषं एव तु ॥१२॥साधारणः समस्तानां कोशः प्रोक्तो मनीषिभिः ॥१३॥स्नेहात्क्रोधाल्लोभतो वा भेदं आयान्ति साक्षिणः ।विधिदत्तस्य दिव्यस्य न भेदो जायते क्वचित् ॥१४॥यथोक्तविधिना देयं दिव्यं दिव्यविशारदैः ।अयथोक्तं प्रदत्तं चेन्न दत्तं साध्यसाधने ॥१५॥अदेशकालदत्तानि बहिर्वादिकृतानि च ।व्यभिचारं सदार्थेषु कुर्वन्तीह न संशयः ॥१६॥अभियुक्ताय दातव्यं दिव्यं दिव्यविशारदैः ।रुच्या चान्यतरः कुर्यादितरो वर्तयेच्छिरः ॥१७॥विनापि शीर्षकं कुर्यान्नृपद्रोहे च पातके ।दिव्यप्रदानं उदितं अन्यत्र नृपशासनात् ।न कश्चिदभियोक्तारं दिव्येष्वेवं नियोजयेत् ॥१८॥२ दिव्यदेवताः पृष्ठ ८३धरोद्ध्रुवस्तथा सोम आपश्चैवानिलोऽनलः ।प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥१९॥देवेशेशानयोर्मध्य आदित्यानां तथायनम् ।धातार्यमा च मित्रश्च वरुणोऽंशो भगस्तथा ॥२०॥इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः ।ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥२१॥इत्येते द्वादशादित्या नामभिः परिकीर्तिताः ।अग्नेः पश्चिमभागे तु रुद्राणां अयनं विदुः ।वीरभद्रश्च शम्भुश्च गिरीशश्च महायशाः ॥२२॥अजेकपाद्अजैकपाद्? अहिर्बुध्न्या पिनाकी चाप्राजितः ॥२३॥भुवनाधिश्वराश्चैव कपाली च विशांपतिः ।स्थाणुर्भगश्च भगवान्रुद्राश्चैकादश स्मृताः ॥२४॥प्रेतेशरक्शसोर्मध्ये मातृस्थानं प्रकल्पयेत् ।ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा ॥२५॥वाराही चैव माहेन्द्री चामुण्डा गणसंयुता ।निरृतेरुत्तरे भागे गणेशायतनं विदुः ॥२६॥वरुणस्योत्तरे भागे मरुतां स्थानं उच्यते ।श्वसनः स्पर्शनो वायुरनिलो मारुतस्तथा ॥२७॥३ द्रव्यसंख्यया दिव्यानिसंख्या रश्मिरजोमूला मनुना समुदाहृता ।कार्षापणान्ता सा दिव्ये नियोज्या विनयेत्तथा ॥२८॥विषं सहस्रेऽपहृते पादोने च हुताशनः ।त्रिपादोने च सलिलं अर्धे देयो धटः सदा ॥२९॥चतुःशताभियोगे च दातव्यस्तप्तमाषकः ।त्रिशते तण्डुला देयाः कोशश्चैव तदर्धके ॥३०॥शते हृतेऽपहृते च दातव्यं धर्मशोधनम् ।गोचौरस्य प्रदातव्यं सभ्यैः फालः प्रयत्नतः ॥३१॥यवार्धिकस्य वा नाशे तदर्धस्य च तण्डुलाः पृष्ठ ८५ ।ततोऽर्धार्धार्धनाशे च लौकिकी च क्रिया मता ॥३२॥४ शपथविधिःसतां वाहनशस्त्राणि गोबीजकनकानि च ।देवब्राह्मणपादाश्च पुत्रदारशिरांसि च ॥३३॥एते च शपथाः प्रोक्ताः अल्पार्थे सुकराः सदा ।साहसेष्वभिशापेषु दिव्यान्याहुर्विशोधनम् ॥३४॥ब्रूहीति ब्राह्मणं ब्रूयात्सत्यं ब्रूहीति पार्थिवम् ।गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैश्च पातकैः ॥३५॥सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः ।गोरक्षकान्वाणिजकांस्तथाकारुकुशीलवान् ।प्रेष्यान्वार्धुषिकांश्चैव विप्राञ् शूद्रवदाचरेत् ॥३६॥येऽप्यपेताः स्वधर्मेभ्यः परपिण्डोपजीविनः ।द्विजत्वं अभिकाङ्क्षन्ते तांश्च शूद्रवदाचरेत् ॥३७॥वर्णानुरूपैः शपथैः शपनीयं पृथक्पृथक् ॥३८॥कामिनीषु विवाहेषु गवां भुक्ते तथेन्धने ।ब्राह्मणाभ्यवपत्तौ च शपथे नास्ति पातकः ॥३९॥सभान्तर्स्थैर्वक्तव्यं साक्स्यं नान्यत्र साक्षिभिः ।सर्वसाक्ष्येष्वयं धर्मो ह्यन्यत्र स्थावरेषु च ॥४०॥वधे चेत्प्राणिनां साक्स्यं वादयेच्छवसंनिधौ ।तदभावे तु चिह्नस्य नान्यथैव विवादयेत् ॥४१॥नापृष्टैरनियुक्तैर्वा समं सत्यं प्रयत्नतः ।वक्तव्यं साक्षिभिः साक्ष्यं विवादस्थानं आगतैः ॥४२॥स्वभावोक्तं वचस्तेषां ग्राह्यं यद्दोषवर्जितम् ।उक्ते तु साक्षिणो राज्ञा न पृष्टव्याः पुनः पुनः ॥४३॥साक्षिसभ्यावसन्नानां नैव पौनर्भावो विधिः ॥४४॥सप्तर्षयस्तथेन्द्राद्याः पुष्करर्थे तपोधनाः ।शेपुः शपथं अव्यग्राः परस्परविशुद्धये ॥४५॥सप्ताहे वा द्विसप्ताहे न विपद्राजदैविकी ।बान्ध्ववेषु सपिण्डेषु धनेषु शपथैः शुचिः ॥४६॥अशेषमानुषाभावे दिव्येनैव विनिर्णयः ।संभवे साक्षिणां प्राज्ञो दैविकीं तु विवर्जयेत् ॥४७॥एवं संख्या निकृष्टानां मध्यानां द्विगुणा स्मृता ।चतुर्गुणोत्तमानां तु कल्पनीया परीक्षकैः ॥४८॥५ घटविधिः पृष्ठ ८७धटेऽभियुक्तस्तुलितो हीनश्चेद्धानि आप्नुयात् ।तत्समस्तु पुनस्तुल्यो वर्धितो विजयी भवेत् ॥४९॥शिक्यच्छेदेऽक्षभङ्गे वा दयाच्छिक्यं पुनर्नृपः ।साक्षिणो ब्राह्मणाः श्रेष्ठा यथादृष्टार्थवादिनः ॥५०॥ज्ञातिनः शुचयो लुब्धाः नियोक्तव्या नृपेण तु ।तेषां वचनतो गम्यः शुध्यशुद्धिविनिर्णयः ॥५१॥कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा ।रज्जुच्छेदेऽक्षभङ्गे वा तथैवाशुद्धिं आप्नुयात् ॥५२॥६ अग्निविधिःअग्नेर्विधिं प्रवक्ष्यामि यथावद्विधिचोदितम् ।कारयेन्मण्डलान्यष्टौ पुरस्तान्नवमे तथा ॥५३॥आग्नेयं मण्डलं त्वाद्यं द्वितीयं वारुणं स्मृतम् ।तृतीयं वायुदैवत्यं चतुर्थं यमदैवतम् ॥५४॥पञ्चमं त्विन्द्रदैवत्यं षष्ठं कौबेरं उच्यते ।सप्तमं सोमदैवत्यं अस्टमं सर्वसूर्य?दैवतम् ॥५५॥पुरस्तान्नवमं यत्तु तन्महत्पार्थिवं विदुः ।गोमयेन कृतानि स्युरद्भिः पर्युषितानि च ॥५६॥द्वात्रिंशदङ्गुलान्याहुर्मण्डलान्मण्डलान्तरम् ।कर्तुः समपदं कार्यं मण्डलं तु प्रमाणतः ॥५७॥७ तोयविधिःशरप्रक्षेपणस्थानाद्युवा जवसमन्वितः ।गच्छेत्परमया शक्त्या यत्रासौ मध्यमः शरः ॥५८॥मध्यमं शरं आदाय पुरुषोऽन्यस्तथाविधः ।प्रत्यागच्छेत्तु वेगेन यतः स पुरुषो गतः ॥५९॥आगन्तस्तु शरग्राही न पश्यति यदा जले ।अन्तर्जलगतं सम्यक्तदा शुद्धिं विनिर्दिशेत् ॥६०॥आनीते मध्यमे बाणे मग्नाङ्गः शुचितां इयात् ।अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात् ।स्थानाद्वान्यत्र गमनाद्यस्मिन्पूर्वं निवेशयेत् ॥६१॥अप्सु प्रवेश्य पुरुसं प्रेषयेत्सायकत्रयम् ।इषूउन्न निक्षिपेद्विद्वान्मारुते वाति वै भृशम् ॥६२॥विषमे भूप्रदेशे च वृक्षस्थाणुसमाकुले पृष्ठ ८९ ।तृणगुल्मलतावल्ली पङ्कपाषाणसंयुते ॥६३॥विधिदत्तं विषं येन जीर्णं मन्त्रौषधं विना ।स शुद्धः स्यादन्यथा तु दण्ड्यो दाप्यश्च तद्धनम् ॥६४॥सप्ताहाद्वा द्विसप्ताहाद्यस्य हानिर्न जायते ।पुत्रदारधनानां च स शुद्धः स्यान्न संशयः ॥६५॥८ कोशविधिःयद्भक्तः सोऽभियुक्तः स्यात्तदेवायुधमण्डलम् ।प्रक्षाल्य पाययेत्तस्माज्जलात्तु प्रसृतित्रयम् ॥६६॥त्रिरात्रं पञ्चरात्रं वा पुरुषैः स्वैरधिष्थितम् ।निरुद्धं चारयेत्तत्र कुहकाशङ्कया नृपः ॥६७॥महाभियोगे निर्धर्मे कृतघ्ने क्लीबकुत्सिते ।नास्तिके दृष्टदोषे च कोशपानं विसर्जयेत् ॥६८॥दिव्यानि वर्जयेन्नित्यं आर्तानां तु गदैर्नृणाम् ।९ तण्डुलविधिःतण्डुलैर्नाभियुञ्जीत प्रजानां मुखरोगिणाम् ॥६९॥सोपवासः सूर्यग्रहे तण्डुलान्भक्षयेच्छुचिः ।शुद्धः स्याच्छुक्लनिष्टःईवे विपरीते तु दोषभाक् ॥७०॥शोणितं दृश्यते यत्र हनुस्तालु च शीर्यतः ।गात्रं च कम्पते यस्य तं अशुद्धं विनिर्दिशेत् ॥७१॥१० तप्तमाषविधिःसमुद्धरेत्तैल्घृतात्सुतप्तात्तप्तमाषकम् ।अङ्गुष्ठाङ्गुलियोगेन सत्यं आमन्त्र्य वीतभीः ॥७२॥सौवर्णे राजते ताम्रे आयसे मृण्मयेऽपि वा ।गव्यं घृतं उपादाय तदग्नौ तापयेच्छुचिः ॥७३॥सौवर्णीं राज्तीं ताम्रीं आयसीं वा सुशोभनाम् ।सलिलेन सकृद्धौतां प्रक्षिपेत्तत्र मुद्रिकाम् ॥७४॥भ्रमद्वीरीतरङ्गाढ्ये ह्यनखस्पर्शगोचरे ।परीक्षेदार्द्रपर्णेन चरुकारं सघोषकम् ॥७५॥७६अ ।ततश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत्पृष्ठ ९१परं पवित्रं अमृतं घृत त्वं यज्ञकर्मसु ॥७६॥दह पावक पापं त्वं हिमशीतो?तः शुचौ भव ।उपोषितं ततः स्नातं आर्द्रवाससं आगतम् ।ग्राहयेन्मुद्रिकां तां तु घृतमध्यगतां तथा ॥७७॥प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः ।कराग्रं यो नु धुनुयात्विस्फोटो वा न जायते ।शुद्धो भवति धर्मेण पितामहवचो यथा ॥७८॥११ फालविधिःआयसं द्वादशपलं घटितं फालं उच्यते ।अदग्धश्चेच्छुद्धिं इयादन्यथा त्वपहीयते ॥७९॥अष्टाङ्गुलं भवेद्दीर्घं चतुरङ्गुलविस्तृतम् ।अग्निवर्णं तु तच्चोरो जिह्वया लेलिहेत्सकृत् ।न दग्धश्चेच्छुद्धिं इयादन्यथा तु स हीयते ॥८०॥गोचरस्य प्रदातव्यं सभ्यैः फालं प्रयत्नतः ।महाभियोगेष्वेतानि शीर्सकस्थेऽभियोक्तरि ॥८१॥१२ धर्मकविधिःपत्त्रद्वये लेखनीयौ धर्माधर्मौ सितासितौ ।जीवदानादिभिर्मन्त्रैः गायत्र्याद्यैश्च सामभिः ॥८२॥आमन्त्र्य पूजयेद्गन्धैः कुसुमैश्च सितासितैः ।अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥८३॥समौ कृत्वा तु तौ कुम्भे स्थाप्यौ चानुपलक्षितौ ।ततः कुम्भात्पिण्डं एकं प्रगृह्णीताविलम्बितः ॥८४॥धर्मे गृहीते शुद्धः स्यात्स पूज्यश्च परीक्षकैः ।अधर्मे संगृहीते तु दण्ड्यो निर्वास्य एव वा पृष्ठ ९३ ॥८५॥लिखेद्भूर्जपटे वापि धर्माधर्मौ सितासितौ ।अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् ॥८६॥सितपुष्पस्तु धर्मः स्यादधर्मोऽसितपुष्पधृत् ।एवं विधायोपलिप्य पिण्डयोस्तानि धापयेत् ॥८७॥गोमयेन मृदा वापि पिण्डौ कार्यौ समौ ततः ।मृद्भाणकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥८८॥उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ ।समर्चयेत्ततो देवान्लोकपालांश्च पूर्ववत् ॥८९॥धर्मावाहनपूर्वं तु प्रतिज्ञापत्त्रकं लिखेत् ।यदि पापविमुक्तोऽहं धर्मश्चायातु मे करे ॥९०॥अभिशस्तस्तयोश्चैकं प्रगृह्णीताविलम्बितः ।धर्मे गृहीते शुद्धिः स्यादधर्मे तु स हीयते ॥९१॥एवं विचारयन्राजा धर्मार्थाभ्यां न हीयते ॥९२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP