संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सुभाषितावलि| सुभाषित ६५१ - ७०० सुभाषितावलि सुभाषित १ - ५० सुभाषित ५१ - १०० सुभाषित १०१ - १५० सुभाषित १५१ - २०० सुभाषित २०१ - २५० सुभाषित २५१ - ३०० सुभाषित ३०१ - ३५० सुभाषित ३५१ - ४०० सुभाषित ४०१ - ४५० सुभाषित ४५१ - ५०० सुभाषित ५०१ - ५५० सुभाषित ५५१ - ६०० सुभाषित ६०१ - ६५० सुभाषित ६५१ - ७०० सुभाषित ७०१ - ७५० सुभाषित ७५१ - ८०० सुभाषित ८०१ - ८५० सुभाषित ८५१ - ९०० सुभाषित ९०१ - ९५० सुभाषित ९५१ - १००० सुभाषित १००१ - १०४० सुभाषितावलि - सुभाषित ६५१ - ७०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : vallabhadevवल्लभदेवसंस्कृतसुभाषित सुभाषित ६५१ - ७०० Translation - भाषांतर ०६५१-१ हे सारङ्ग तृणान्यशान सलिलैः प्राणान्पुषाणाथवा०६५१-२ यद्वा स्याः पवनाशनस्तदपि ते साविष्कृति प्राणितं ।०६५१-३ येनेयं भवतोच्छ्वसत्कुवलयप्रस्तारचारुद्युतिर्-०६५१-४ दृष्टिर्वित्तमदोद्धताक्षिणि मुखे मूर्खस्य नायासिता ॥०६५२-१ अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर्-०६५२-२ द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः ।०६५२-३ हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना०६५२-४ किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः ॥०६५३-१ नैतास्ता मलय काननभुवः स्वच्छस्रवन्निर्झरास्-०६५३-२ तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि ।०६५३-३ रूक्षध्वाङ्क्षपरिग्रहो भरुरयं स्फारीभवद्भ्रान्तयस्-०६५३-४ ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यतां ॥०६५४-१ त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली०६५४-२ विस्रम्भस्थितिहेतवो न गणिता बन्धूपमाः पादपाः ।०६५४-३ बालापत्यवियोगदुःखविधुरा नापेक्षिता सा मृगी०६५४-४ मार्गन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी ॥०६५५-१ छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां०६५५-२ पर्यस्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ।०६५५-३ व्याधानां शरगोचरादपि जवेनोत्प्लुत्य धावन्मृगः०६५५-४ कूपान्तः पतितः करोति विधुरे किं वा विधौ पौरुषं ॥०६५६-१ स्वैरी भ्राम्यसि नाथ काम्यसि परद्वाराणि नोत्ताम्यसि०६५६-२ नाद्यानामनिमित्तकोपकुटिलालापं मुखं पश्यसि ।०६५६-३ मुञ्चस्येकमपि क्षणं प्रकटितप्रेमां च न प्रेयसीं०६५६-४ हे सारङ्ग तवातिसुन्दरमिदं केनोपदिष्टं व्रतं ॥०६५७-१ स्वच्छन्दं हरिणेन या विहरता दैवात्समासादिता०६५७-२ भङ्गप्रस्रुतदुग्धबिन्दुबिसरा शालेर्नवा मञ्जरी ।०६५७-३ निःश्वासानलदग्धक्ॐअलतृणप्रख्यापितान्तर्व्यथस्-०६५७-४ तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति ॥०६५८-१ सारङ्गो न लतागृहेषु रमते नो पंसुले भूतले०६५८-२ नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि ।०६५८-३ तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं०६५८-४ शैलेन्द्रोदरकंदरेषु गतधीः शृङ्गारिवेषः स्थितः ॥०६५९-१ शृङ्गेणाङ्गं मृगाणां कषति परिचयप्राप्तये निःस्पृहाणां०६५९-२ मन्दस्वच्छन्दचारी परिहरति भयादालयं यूथपस्य ।०६५९-३ दृष्टस्तिष्ठत्यलक्ष्यो झगिति निपतितैस्तत्कुरङ्गीकटाक्षैः०६५९-४ सारङ्गो दुःखमास्ते विधुरविधिवशादन्ययूथप्रविष्टः ॥०६६०-१ आदाय मांसमखिलं स्तनवर्जमङ्गान्-०६६०-२ मां मुञ्च वागुरिक याहि कुरु प्रसादं ।०६६०-३ अद्यापि घासकवलग्रसनानभिज्ञो०६६०-४ मन्मार्गवीक्षणपरस्तनयो मदीयः ॥०६६१-१ पुरो रेवा पारे गिरिरतिदुरारोहशिखरः०६६१-२ सरः सव्ये वामे दवदहनदाहव्यतिकरः ।०६६१-३ धनुष्पाणिः पश्चाच्छबरहतको धावतितरां०६६१-४ न यातुं न स्थातुं हरिणाशिशुरेष प्रभवति ॥०६६२-१ क्व क्रीडति क्व चरति क्व करोति वृत्तिं०६६२-२ वारि क्व नाम पिबति स्वपिति क्व नाम ।०६६२-३ इत्थं मृगं निरपराधमबाधमानं०६६२-४ व्याधोनुधावति वधाय धनुर्दधानः ॥०६६३-१ चन्द्रः सुधांशुरयमत्रिसुतो द्विजेशः०६६३-२ पुण्यैरवापि शरणाय मयेति तोषं ।०६६३-३ मुग्धैणशाव भज मा त्यज पापमेनं०६६३-४ मीनं प्रभुज्य सहसा कृतमेषभोगं ॥०६६४-१ करभ यदि कदाचित्प्रभ्रमन्दैवयोगान्-०६६४-२ मधुकरकुलतस्त्वं प्रापयेथा मधूनि ।०६६४-३ विरम विरम तेभ्यः सन्ति शष्पाण्यरण्ये०६६४-४ प्रथममुखरसास्ते शोषयन्त्येव पश्चात् ॥०६६५-१ विकचकुमुदैः फुल्लाम्भोजैः सरोभिरलंकृतां०६६५-२ मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीं ।०६६५-३ स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां०६६५-४ परिचयरतिः सा दुर्वारा न सा गुणवैरिता ॥०६६६-१ करभदयिते यत्तत्पीतं सुदुर्लभमेकदा०६६६-२ मधु वनगतं तस्यालाभे विरौषि किमुत्सुका ।०६६६-३ कुरु परिचितैः पीलोः पत्त्रैर्धृतिं मरुगोचरे०६६६-४ जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥०६६७-१ करभदयिते योसौ पीलुस्त्वया मधुलुब्धया०६६७-२ व्यपगतधनच्छायस्त्यक्तो न सादरमीक्षितः ।०६६७-३ चलकिसलयः सोपीदानीं प्ररूढनवाङ्कुरः०६६७-४ करभदयितावृन्दैरन्यैः सुखं परिभुज्यते ॥०६६८-१ करभ किमिदं दीर्घोच्छ्वासैः क्षिणोषि शरीरकं०६६८-२ विरम शठे हे कस्यात्यन्तं सखे सुखमागतं ।०६६८-३ चर किसलयं स्वस्थः पीलोर्विमुञ्च मधुस्पृहां०६६८-४ पुनरपि भवान्कल्याणानां भविष्यति भाजनं ॥०६६९-१ करभ रभसात्क्रोष्टुं वाञ्छस्यहो श्रवणज्वरः०६६९-२ शरणमथवानृज्वी दीर्घा तवैव शिरोधरा ।०६६९-३ पृथुगलबिलावृत्तिश्रान्तोच्चरिष्यति वाङ्मुखा-०६६९-४ दियति समये को जानीते भविष्यति कस्य किं ॥०६७०-१ तथा संतुष्टः सञ्जलवृणशमीपीलुबदरैश्-०६७०-२ चरन्स्वस्थोरण्ये करभशिशुकः शोकरहितः ।०६७०-३ कृतो मध्वास्वादप्रवणहदयो मुग्धविधिना०६७०-४ यथा नान्यद्भुङ्क्ते न पिबति न शेते न रमते ॥०६७१-१ यस्यासीन्नवपीलुपत्त्रबदरग्रासोपि संतुष्टये०६७१-२ दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि ।०६७१-३ सोयं संप्रति याति बालकरभः क्षीणोद्यमः क्षामतां०६७१-४ मन्ये नूनमनेन दैवहतकेनास्वादितं भ्रामरं ॥०६७२-१ पीलूनां हि फलं कषायरहितं र्ॐअन्थयित्वा मरौ०६७२-२ शाखाग्रं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः ।०६७२-३ तत्स्मृत्वा करभेन खेदविधुरं दीर्घं तथा कूजितं०६७२-४ प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा ॥०६७३-१ क्रमेलकं निन्दति क्ॐअलेच्छुः०६७३-२ क्रमेलकः कण्टकलम्पटस्तं ।०६७३-३ प्रीतौ तयोरिष्टभुजोः समायां०६७३-४ मध्यस्थता नैकतरोपहासः ॥०६७४-१ एक एव खगो मानी वने वसति चातकः ।०६७४-२ पिपासितो वा म्रियते याचते वा पुरंदरं ॥०६७५-१ अयि चकितमुग्धचातक मरुभुवि धावसि मुधा किमुद्ग्रीवं ।०६७५-२ ग्रीष्मे दवाग्निवलितस्तापिच्छोयं न विद्युत्वान् ॥०६७६-१ पिपासुरप्येव जलं शिखण्डी०६७६-२ प्रतीक्षते प्राणसमां पिबन्तीं ।०६७६-३ नूनं प्रियास्नेहनिबद्धदृष्टिः०६७६-४ स्वल्पं पयः पश्यति निम्नगासु ॥०६७७-१ अत्युन्नतिव्यसनिनः शिरसोधुनैष०६७७-२ स्वस्यैव चातकशिशुः प्रणयं विधत्तां ।०६७७-३ अस्यैतदिच्छति नहि प्रततासु दिक्षु०६७७-४ ताः स्वच्छशीतमधुराः क्व नु नाम नापः ॥०६७८-१ केकाः कला वनभुवस्तिलकायमानो०६७८-२ रम्यः कलापमहिमैष शिखण्डिनोस्य ।०६७८-३ दुर्लक्षणं ननु विहायसि वायसादि-०६७८-४ क्षुण्णेप्ययं चटकतुल्यगतिर्न जातः ॥०६७९-१ नीलाब्जपुञ्जरजसारुणितान्विमुच्य०६७९-२ स्वच्छान्सुधाधिकरसानपि वारिराशीन् ।०६७९-३ यच्चातकः पिबति वारिधरोदबिन्दून्-०६७९-४ मन्ये तदानतिभयाच्छिरसोभिमानी ॥ ०६७९-५ दिव्याम्बुपाननियमस्तव मोहयेत्कं०६७९-६ दोषोपि संवृतिमतां भजते गुणत्वं भूमिस्थमम्बु यदि चातक पातुमिच्छेः०६७९-७ कण्ठव्रणं प्रकटयेस्तदयोग्यतां च ॥०६७९-८ दिव्याम्बुपाननियमस्तव मोहयेत्कं०६७९-९ दोषोपि संवृतिमतां भजते गुणत्वं ॥०६८१-१ किं नैव सन्ति नवतामरसावतंसा०६८१-२ हंसावलीवलयिनो जलसन्निवेशाः ।०६८१-३ कोपि ग्रहो गुरुरयं बत चातकस्य०६८१-४ पौरंदरीं यदभिवाञ्छति वारिधारां ॥०६८२-१ किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता०६८२-२ निन्द्याः पापतया स्वकुक्षिषु गताः किं नाम पक्षाः क्षयं ।०६८२-३ रम्यं वा गगने न किं विहरणं किं तूग्रकाकावली-०६८२-४ पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः ॥०६८३-१ नो ताण्डवेन नयनामृतनिर्झरेण०६८३-२ केकारवेण न च कर्णरसायनेन ।०६८३-३ बर्हेण चापि सुरचापरुचा तवाय-०६८३-४ मोतुर्न तुष्यति शिखिन्वधमन्तरेण ॥०६८४-१ चातक तात कियद्भवता पातकमतुलमकारि ।०६८४-२ नवजलदादपि चञ्चुपुटे यत्तव न पतति वारि ॥०६८५-१ जलकणवितरणरहितः प्रकटितधवलितवेषः ।०६८५-२ चातक रटसि वृथा किं जलदः शारद एषः ॥०६८६-१ सन्ति कूपाः स्फुरद्रूपाः परितः सरितः शुभाः ।०६८६-२ तथापि चातकस्यैकः फलदो जलदोदयः ॥०६८७-१ केकानिभाद्धटयसे पटुचाटुकानि०६८७-२ चञ्चत्कलापमपि नृत्यसि रञ्जनाय ।०६८७-३ हे चातक प्रयतसे जलदं प्रतीत्थं०६८७-४ बिन्दुं जलस्य लभसे न च लज्जसे च ॥०६८८-१ वाहत्वमीश्वरसुतस्य विधाय बर्हिन्-०६८८-२ प्रम्लायितः स निजपक्षकलाप एव ।०६८८-३ नाराधितः स भवता पुरुषोत्तमः किं०६८८-४ यस्ते तृषं प्रशमयेत्कचमेघवर्षैः ॥०६८९-१ वसतोतिशयप्रीत्या मानसोचितसंस्थितेः ।०६८९-२ पल्वलाम्भसि हंसस्य हंसतैव विकल्प्यते ॥०६९०-१ पिबन्ति मधु पद्मेभ्यो भृङ्गाः केसरधूसराः ।०६९०-२ हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसं ॥०६९१-१ यदि नाम दैवयोगाज्जगदसरोजं कदाचिदपि जातं ।०६९१-२ अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः ॥०६९२-१ कटु रटति निकटर्वती वाचाटष्टिट्टिभः पटुर्यत्र ।०६९२-२ अपसरणमेव शरणं मौनं वा तत्र हंसस्य ॥०६९३-१ अस्तु यद्यपि सर्वत्र नीरं नीरजमण्डितं ।०६९३-२ रमते न मरालस्य मानसं मानसं विना ॥०६९४-१ क्षुधितोपि पद्मखण्डे जहाति रजसावृतं हि किंजल्कं ।०६९४-२ गुणिनि कृतपक्षपातो बिसं तु बहु मन्यते हंसः ॥०६९५-१ तरलयसि दृशं किमुत्सुका-०६९५-२ मकुलषमानसवासलालिते ।०६९५-३ अवतर कलहंसि वापिकां०६९५-४ पुनरपि यास्यसि पङ्कजालयं ॥०६९६-१ भृङ्गाङ्गनाजनमनोहरहारिगीत-०६९६-२ राजीवरेणुक्रणकीर्णपशङ्गतोयां ।०६९६-३ रम्यां हिमाचलनदीं प्रविहाय हंस०६९६-४ हे हे हताश वद कां दिशमुत्सुकोसि ॥०६९७-१ हे हंस मेलितपयःसलिलं विवेक्तुं०६९७-२ शक्तस्य संप्रति मतिः क्व नु तेद्य याता ।०६९७-३ कासारवारिणि कलां पतितां यदिन्दो-०६९७-४ रादातुमिच्छसि बिसाङ्कुरवाञ्छया त्वं ॥०६९८-१ शीतांशुशेखरशिरोरुहसंश्रितानि०६९८-२ पुण्यानि पावितजगन्ति मनोरमाणि ।०६९८-३ भ्रान्त्वा चिरं सुरसरित्सलिलानि दैवाल्-०६९८-४ लब्धानि हातुमिह वाञ्छसि नासि हंसः ॥०६९९-१ स्थित्वा चिरं नभसि निश्चलतारकेण०६९९-२ मातङ्गसङ्गकलुषां नलिनीं निरीक्ष्य ।०६९९-३ उत्पन्नमन्युपरिघर्घरनिःस्वनेन०६९९-४ हंसेन साश्रु परिवृत्य गतं न लीनं ॥०७००-१ येनोज्झितं सहचरीवदनोपनीतं०७००-२ रम्यं मृणालशकलं हिमशङ्खशुभ्रं ।०७००-३ सोयं खगो हतविधे तव चेष्टितेन०७००-४ शेवालनाललवलम्पटतां विधत्ते ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP