संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सुभाषितावलि| सुभाषित २५१ - ३०० सुभाषितावलि सुभाषित १ - ५० सुभाषित ५१ - १०० सुभाषित १०१ - १५० सुभाषित १५१ - २०० सुभाषित २०१ - २५० सुभाषित २५१ - ३०० सुभाषित ३०१ - ३५० सुभाषित ३५१ - ४०० सुभाषित ४०१ - ४५० सुभाषित ४५१ - ५०० सुभाषित ५०१ - ५५० सुभाषित ५५१ - ६०० सुभाषित ६०१ - ६५० सुभाषित ६५१ - ७०० सुभाषित ७०१ - ७५० सुभाषित ७५१ - ८०० सुभाषित ८०१ - ८५० सुभाषित ८५१ - ९०० सुभाषित ९०१ - ९५० सुभाषित ९५१ - १००० सुभाषित १००१ - १०४० सुभाषितावलि - सुभाषित २५१ - ३०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : vallabhadevवल्लभदेवसंस्कृतसुभाषित सुभाषित २५१ - ३०० Translation - भाषांतर ०२५१-१ रक्तत्वं कमलानां सत्पुरुषाणां परोपकारित्वं ।०२५१-२ असतां च निर्दयत्वं स्वभावसिद्धं त्रिषु त्रितयं ॥०२५२-१ उपकर्तुमप्रकाशं क्षन्तुं न्यूनेष्वयाचितं दातुं ।०२५२-२ अभिसंधातुं च गुणैः शतेषु केचिद्विजानन्ति ॥०२५३-१ गुणिनि गुणज्ञो रमते नागुणशीलस्य गुणिनि परितोषः ।०२५३-२ अलिरेति वनात्कमलं न दर्दुरस्तान्निवासोपि ॥०२५४-१ आदौ तु मन्दमन्दानि मध्ये समरसानि च ।०२५४-२ अन्ते स्नेहायमानानि संगतानि बुधैः सह ॥०२५५-१ इयमुन्नतसत्त्वशालिनां०२५५-२ महतां कापि कठोरचित्तता ।०२५५-३ उपकृत्य भवन्ति दूरतः०२५५-४ परतः प्रत्युपकारशङ्कया ॥०२५६-१ उपकारिणि वीतमत्सरे वा०२५६-२ सदयत्वं यदि तत्र कोतिरेकः ।०२५६-३ अहिते सहसापराद्धलब्धे०२५६-४ सघृणं यस्य मनः सतां स धुर्यः ॥०२५७-१ आदिमध्यनिधनेषु सौहृदं०२५७-२ सज्जने भवति नेतरे जने ।०२५७-३ छेदताडननिघर्षतापनैर्-०२५७-४ नान्यभावमुपयाति काञ्चनं ॥०२५८-१ दीपाः स्थितं वस्तु विभावयन्ति०२५८-२ कुलप्रदीपास्तु भवन्ति केचित् ।०२५८-३ चिरव्यतीतानपि पूर्वजान्ये०२५८-४ प्रकाशयन्ति स्वगुणप्रकर्षात् ॥०२५९-१ तुङ्गात्मनाः तुङ्गतराः समर्था०२५९-२ मनोरुजं ध्वंसयितुं न नीचाः ।०२५९-३ धाराधरा एव धराधराणां ०२५९-४ निदाघदावौघहरा न नद्यः ॥०२६०-१ गुणा गुणज्ञेषु गुणीभवन्ति०२६०-२ ते निर्गुणं प्राप्य भवन्ति दोषाः ।०२६०-३ सुस्वादुतोयप्रभवा हि नद्यः०२६०-४ समुद्रमासाद्य भवन्त्यपेयाः ॥०२६१-१ तृणानि नोन्मूलयति प्रभञ्जनो०२६१-२ मृदूनि नीचैः प्रणतानि सर्वशः ।०२६१-३ समुच्छ्रितानेव तरून्प्रबाधते०२६१-४ महान्महत्स्वेव करोति विक्रियां ॥०२६२-१ चिराय सत्संगमशुद्धमानसो०२६२-२ न यात्यसत्संगतमात्मवान्नरः ।०२६२-३ मनोहरेन्दीवरखण्डगोचरो०२६२-४ न जातु भृङ्गः कुणपे निलीयते ॥०२६३-१ अपि विभवविहीनः प्रच्युतो वा स्वदेशान्-०२६३-२ नहि खलजनसेवां प्रार्थयत्युन्नतात्मा ।०२६३-३ तनु तृणमुपभुङ्क्ते न क्षुधार्तोपि सिंहः०२६३-४ पिबति रुधिरमुष्णं प्रायशः कुञ्जराणां ॥०२६४-१ वित्ते त्यागः क्षमा शक्तौ दुःखे दैन्यविहीनता ।०२६४-२ निर्दम्भता सदाचारे स्वभावोयं महात्मनां ॥०२६५-१ सुखलवदशाहर्षक्लैव्ये खलः खलु खेलते०२६५-२ स्खलति भजते लेशक्लेशे विषादविषूचिकां ।०२६५-३ भवति न सतां दर्पोद्दामा न दैन्यमयी मतिर्-०२६५-४ दुरभिभवता गम्भीराणां सुखेष्वसुखेषु च ॥०२६६-१ स्वाम्ये पेशलता गुणे प्रणयिता हर्षे निरुत्सेकता०२६६-२ मन्त्रे संवृतता श्रुते सुमतिता वित्तोदये त्यागिता ।०२६६-३ साधौ सादरता खले विमुखता पापे परं भीरुता०२६६-४ दुःखे क्लेशसहिष्णुता च महतां कल्याणमाकाङ्क्षति ॥०२६७-१ विपदि धैर्यमथाभ्युदये क्षमा०२६७-२ सदसि वाक्पटुता युधि विक्रमः ।०२६७-३ यशसि चाभिरतिर्व्यसनं श्रुते०२६७-४ प्रकृतिसिद्धमिदं हि महात्मनां ॥०२६८-१ इदं हि माहात्म्यविशेषसूचकं०२६८-२ वदन्ति चिह्नं महतां मनीषिणः ।०२६८-३ मनो यदेषां सुखदुःखसंभवे०२६८-४ प्रयाति नो हर्षविषादवश्यतां ॥०२६९-१ सुभाषितैः प्रीतिरनुन्नतिः श्रिया०२६९-२ परार्थनिष्पत्तिपटीयसी क्रिया ।०२६९-३ गुणेष्वतृप्तिर्गुणवत्सु चादरो०२६९-४ निगूढमेतच्चरितं महात्मनां ॥०२७०-१ सत्यं गुणा गुणवतां विधिवैपरीत्याद्-०२७०-२ यत्नार्जिता अपि कलौ विफला भवन्ति ।०२७०-३ साफल्यमस्ति सुतरामिदमेव तेषां०२७०-४ यत्तापयन्ति हृदयानि पुनः खलानां ॥०२७१-१ यद्वञ्चनाहितमतिर्बहु चाटुगर्भं०२७१-२ कार्योन्मुखः खलजनः कृतकं ब्रवीति ।०२७१-३ तत्साधवो न न विदन्ति विदन्ति किं तु०२७१-४ कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥०२७२-१ पापं समाचरति वीतघृणो जघन्यः०२७२-२ प्राप्यापदं सघृण एव तु मध्यबुद्धिः ।०२७२-३ प्राणात्ययेपि न तु साधुजनः सुवृत्तं०२७२-४ वेलां समुद्र इव लङ्घयितुं समर्थः ॥०२७३-१ शुद्धिः स एव कुलजश्च स एव धीरः०२७३-२ श्लाघ्यो विपत्स्वपि न मुञ्चति यः स्वभावं ।०२७३-३ तप्तं यथा दिनकरस्य मरीचिजालैर्-०२७३-४ देहं त्यजेदपि हिमं न तु शीतलत्वं ॥०२७४-१ याञ्चापदं मरणदुःखमिवानुभाव्य०२७४-२ दत्तेन किं खलु भवत्यतिभूयसापि ।०२७४-३ कल्पद्रुमान्परिहसन्त इवेह सन्तः०२७४-४ संकल्पितैरतिददत्यकदर्थितं यत् ॥०२७५-१ ते साधवो भुवनमण्डलमौलिभूता०२७५-२ ये साधुतां निरुपकारिषु दर्शयन्ति ।०२७५-३ आत्मप्रयोजनवशीकृतखिन्नदेहः०२७५-४ पूर्वोपकारिषु खलोपि हि सानुकम्पः ॥०२७६-१ नान्तर्विचिन्तयति किंचिदपि प्रतीपम्-०२७६-२ अकोपितोपि सुजनः पिशुनेन पापं ।०२७६-३ अर्कद्विषोपि हि मुखे पतिताग्रभागास्-०२७६-४ तारापतेरमृतमेव कराः किरन्ति ॥०२७७-१ आकोपितोपि कुलजो न वदत्यवाच्यं०२७७-२ निष्पीडितो मधुरमेव वमेत्किलेक्षुः ।०२७७-३ नीचो जनो गुणशतैरपि सेव्यमानो०२७७-४ हासेषु तद्वदति यत्कलहेषु वाच्यं ॥०२७८-१ निदन्तु नीतिनिपुणा अथवा स्तुवन्तु०२७८-२ लक्ष्मीः परापततु गच्छतु वा यथेच्छं ।०२७८-३ अद्यैव वा मरणमस्तु युगान्तरे वा०२७८-४ न्याय्यात्पथः प्रचलयन्ति पदं न धीराः ॥०२७९-१ हेतोः कुतोप्यसदृशाः सुजना गरीयः०२७९-२ कार्यं निसर्गगुरवः स्फुटमारभन्ते ।०२७९-३ उत्थाय किं कलशतोपि न सिन्धुनाथम्-०२७९-४ उद्वीचिमालमपिबद्भगवानगस्त्यः ॥०२८०-१ प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरं०२८०-२ ह्यसन्तो नाभ्यर्थ्याः सुहृदपि न याच्योकृशधनः ।०२८०-३ विपद्युच्चैः स्थेयं पदमनुविधेयं च महतां०२८०-४ सतां केनोद्दिष्टं विषममसिधाराव्रतमिदं ॥०२८१-१ प्रदानं सुच्छन्नं गृहमुपगते संभ्रमविधिर्-०२८१-२ अनुत्सेको लक्ष्म्याप्यनभिभवनीयाः परकथाः ।०२८१-३ प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः०२८१-४ श्रुतेत्यन्तासक्तिः पुरुषमभिजातं कथयति ॥०२८२-१ कस्यादेशात्क्षपयति तमः सप्तसप्तिः प्रजानां०२८२-२ छायाहेतोः पथि विटपिनामञ्जलिः केन बद्धः ।०२८२-३ अभ्यर्थ्यन्ते जललवमुचः केन वा वृष्टिहेतोर्-०२८२-४ जात्यैवैते परहितविधौ साधवो बद्धकक्ष्या ॥०२८३-१ स्वफलनिचयः शाखाभङ्गं करोति वनस्पतेर्-०२८३-२ गमनमलसं बर्हाटोपि करोति शिखण्डिनः ।०२८३-३ चतुरगमनो यो जात्याश्वः स गौरिव वाह्यते०२८३-४ गुणवति जने प्रायेणैते गुणाः खलु वैरिणः ॥०२८४-१ ख्यातिं यत्र गुणा न यान्ति गुणिनस्तत्रादरः स्यात्कुतः०२८४-२ किं कुर्याद्बहुशिक्षितोपि पुरुषः पाषाणभूते जने ।०२८४-३ प्रेमारूढविलासिनीमदवशव्यावृत्तकण्ठस्वनः०२८४-४ सीत्कारो हि मनोहरोपि बधिरे किं नाम कुर्याद्गुणं ॥०२८५-१ क्षुद्राः सन्ति सहस्रशः स्वभरणव्यापारमात्रोन्मुखाः०२८५-२ स्वार्थो यस्य परार्थ एव स पुमानेकः सतामग्रणीः ।०२८५-३ दुष्पूरोदरपूरणाय पिबति स्रोतःपतिं वाडवो०२८५-४ जीमूतस्तु निदाघतापितजगत्संतापविच्छित्तये ॥०२८६-१ नम्रत्वेनोन्नमन्तः परगुणनुतिभिः स्वान्गुणान्ख्यापयन्तः०२८६-२ पुष्णन्तः स्वीयमर्थं सततकृतमहारम्भयत्नाः परार्थे ।०२८६-३ क्षान्त्यैवाक्षेपरूक्षाक्षरमुखरमुखादुर्मुखान्दुःखयन्तः०२८६-४ सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्थनीयाः ॥०२८७-१ सज्जना एव साधूनां प्रथयन्ति गुणोत्करं ।०२८७-२ पुष्पाणां सौरभं प्रायस्तन्वते दिक्षु मारुताः ॥०२८८-१ साधुरेव प्रवीणः स्यात्सद्गुणामृतचर्वणे ।०२८८-२ नवचूताङ्कुरास्वादकुशलः कोकिलः किल ॥०२८९-१ प्रायः सन्त्युपदेशार्हा धीमन्तो न जडाशयाः ।०२८९-२ तिलाः कुसुमसौगन्ध्यग्राहिणो न यवाः क्वचित् ॥०२९०-१ मनस्विहृदयं धत्ते रौक्ष्येणैव प्रसन्नतां ।०२९०-२ भस्मना मकुरः प्रायः प्रसादं लभतेतरां ॥०२९१-१ उत्तमः क्लेशविक्षोभं क्षमः सोढुं नहीतरः ।०२९१-२ मणिरेव महाशाणघर्षणं न तु मृत्कणः ॥०२९२-१ जडे प्रभवति प्रायो दुःखं बिभ्रति साधवः ।०२९२-२ सितांशावुदिते पद्माः संकोचातङ्कधारिणः ॥०२९३-१ गुणानामन्तरं प्रायस्तज्ज्ञो जानाति नेतरः ।०२९३-२ मालतीमल्लिकामोदं घ्राणं वेत्ति न लोचनं ॥०२९४-१ स्वभावं नैव मुञ्चन्ति सन्तः संसर्गतोसतां ।०२९४-२ न त्यजन्ति रुतं मञ्जु काकसंपर्कतः पिकाः ॥०२९५-१ संपत्तौ क्ॐअलं चित्तं साधोरापदि कर्कशं ।०२९५-२ सुकुमारं मधौ पत्त्रं तरोः स्यात्कठिनं शुचौ ॥०२९६-१ स्वभावं न जहात्यन्तः साधुरापद्गतोपि सन् ।०२९६-२ कर्पूरः पावकप्लुष्टः सौरभं भजतेतरां ॥०२९७-१ अप्यापत्समयः साधोः प्रयाति श्लाघनीयतां ।०२९७-२ विधोर्विधुंतुदास्कन्दविपत्कालोपि सुन्दरः ॥०२९८-१ दृष्टदुर्जनदौरात्म्यः सज्जने रज्यते जनः ।०२९८-२ आरुह्य पर्वतं पान्थः निर्वृतिमेत्यलं ॥०२९९-१ क्षणक्षयिणि सापाये भोगे रज्यन्ति नोत्तमाः ।०२९९-२ संत्यज्याम्भोजकिंजल्कं हंसाः प्राश्नन्ति शैवलं ॥०३००-१ अधमं बाधते भूयो दुःखावेगो न तूत्तमं ।०३००-२ पाणिपादं रुजत्याशु शीतस्पर्शो न चक्षुषी ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP