संस्कृत सूची|संस्कृत स्तोत्र साहित्य|सुभाषितानि|सुभाषितावलि| सुभाषित ४०१ - ४५० सुभाषितावलि सुभाषित १ - ५० सुभाषित ५१ - १०० सुभाषित १०१ - १५० सुभाषित १५१ - २०० सुभाषित २०१ - २५० सुभाषित २५१ - ३०० सुभाषित ३०१ - ३५० सुभाषित ३५१ - ४०० सुभाषित ४०१ - ४५० सुभाषित ४५१ - ५०० सुभाषित ५०१ - ५५० सुभाषित ५५१ - ६०० सुभाषित ६०१ - ६५० सुभाषित ६५१ - ७०० सुभाषित ७०१ - ७५० सुभाषित ७५१ - ८०० सुभाषित ८०१ - ८५० सुभाषित ८५१ - ९०० सुभाषित ९०१ - ९५० सुभाषित ९५१ - १००० सुभाषित १००१ - १०४० सुभाषितावलि - सुभाषित ४०१ - ४५० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : vallabhadevवल्लभदेवसंस्कृतसुभाषित सुभाषित ४०१ - ४५० Translation - भाषांतर ०४०१-१ साधयति यत्प्रयोजनमज्ञस्तत्तस्य काकतालीयं ।०४०१-२ दैवात्कथमप्यक्षरमुत्किरति घुणोपि काष्ठेषु ॥०४०२-१ प्रायः खलप्रकृतयो नापरिभूता हिताय कल्पन्ते ।०४०२-२ पुष्प्यत्यधिकमशोको गणिकाचरणप्रहारेण ॥०४०३-१ परमर्मघट्टनादिषु खलस्य यत्कौशलं न तत्कृत्ये ।०४०३-२ यत्सामर्थ्यमुपहतौ विषस्य तन्नोपकाराय ॥०४०४-१ अतिसत्कृताअपि शठाः सहभुवमुज्झन्ति जातु न प्रकृतिं ।०४०४-२ शिरसा महाश्वरेणापि ननु धृतो वक्र एव शशी ॥०४०५-१ वायुरिव खलजनोयं प्रायः पररूपमेति संपर्कात् ।०४०५-२ सन्तस्तु रविकरा इव सदसद्योगेप्यसंश्लिष्टाः ॥०४०६-१ प्रेरयति परमनार्यः शक्रिदरिद्रोपि जगदभिद्रोहे ।०४०६-२ तेजयति खङ्गधारां स्वयमसमर्था शिला छेत्तुं ॥०४०७-१ दूरेपि परस्यागसि पटुर्जनो नात्मनः समीपेपि ।०४०७-२ स्वं व्रणमक्षि न पश्यति शशिनि कलङ्कं निरूपयति ॥०४०८-१ साधुष्वेवातितरामरुंतुदाः स्वां विवृण्वते वृत्तिं ।०४०८-२ व्याधा निघ्नन्ति मृगान्मृतमपि न तु सिंहमाददते ॥०४०९-१ अविकारिणमपि सज्जनमनिशमनार्यः प्रबाधतेत्यर्थं ।०४०९-२ कमलिन्या किमिह कृतं हिमस्य यत्तां सदा दहति ॥०४१०-१ स्वगुणानिव परदोषान्वक्तुं न सतोपि शक्रुवन्ति बुधाः ।०४१०-२ स्वगुणानिव परदोषानसतोपि खलास्तु कथयन्ति ॥०४११-१ कृत्वापि येन लज्जामुपैति साधुः परोदितेनापि ।०४११-२ तदकृत्वैव खलजनः स्वयमुद्गिरतीति धिग्लघुतां ॥०४१२-१ आप्त्वाप्यात्मविनाशं गणयति न खलः परव्यसनकष्टं ।०४१२-२ प्रायः सहस्रनाशे समरमुखे नृत्यति कबन्धः ॥०४१३-१ प्रकृतिखलत्वादसतां दोष इव गुणोपि बाधते लोकान् ।०४१३-२ विषकुसुमानां गन्धः सुरभिरपि मनांसि मोहयति ॥०४१४-१ लब्धोच्छ्रायो नीचः प्रथमतरं स्वामिनं पराभवति ।०४१४-२ पथि धूलिरजो ह्यादावुत्थापकमेव संवृणुते ॥०४१५-१ मृगमदकर्पूरागुरुचन्दनगन्धाधिवासितो लशुनः ।०४१५-२ न त्यजति गन्धमशुभं प्रकृतिमिव सहोत्थितां नीचः ॥०४१६-१ उपकृतमनेन सुहृदयमिति दुर्जनेष्वस्ति न क्वचिदपेक्षा ।०४१६-२ होत्रा सह स्वमाश्रयमुद्वृत्तोग्निर्दहत्येव ॥०४१७-१ उपकृतिरेव खलानां दोषस्य गरीयसो भवति हेतुः ।०४१७-२ अनुकूलाचरणेन हि कुप्यन्ति व्याधयोत्यर्थं ॥०४१८-१ न परं फलति हि किंचित्खल एवानर्थमावहति यावत् ।०४१८-२ मारयति सपदि विषतरुराश्रयमाणं श्रमापनुदे ॥०४१९-१ स्वार्थनिरपेक्ष एव हि परोपघातोसतां व्यसनमेव ।०४१९-२ अशनायोदन्या वा विरमति फणिनो न दन्दशतः ॥०४२०-१ एकीभावं गतयोर्जलपयसोर्मित्त्रचेतसोश्वैव ।०४२०-२ व्यतिरेककृतौ शक्तिर्हंसानां दुर्जनानां च ॥०४२१-१ शल्यमपि स्खलदन्तः सोढुं शक्यते हालहलदिग्धं ।०४२१-२ धीरैर्न पुनरकारणकुपितखलालीकदुर्वचनं ॥०४२२-१ मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनां ।०४२२-२ लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥०४२३-१ प्रारम्भतोतिविपुलं भृशकृशमन्ते विभेदकृन्मलिनं ।०४२३-२ महिषविषाणमिवानृजु पुरुषं भयदं खलप्रेम ॥०४२४-१ पात्रमपात्रीकुरुते दहति गुणान्स्नेहमाशु नाशयति ।०४२४-२ अमले मलं प्रयच्छति दीपज्वालेव खलमैत्त्री ॥०४२५-१ समर्पिताः कस्य न तेन दोषा०४२५-२ हठाद्गुणा वा न हृताः खलेन ।०४२५-३ तथापि दोषैर्न वियुज्यतेसौ०४२५-४ स्पृष्टोपि नैकेन गुणेन चित्रं ॥०४२६-१ आराध्यमानो बहुभिः प्रकारैर्-०४२६-२ नाराध्यते नाम किमत्र चित्रं ।०४२६-३ अयं त्वपूर्वः प्रतिभाविशेषो०४२६-४ यत्सेव्यमानो रिपुतामुपैति ॥०४२७-१ विद्वानुपालम्भमवाप्य दोषान्-०४२७-२ निवर्ततेसौ परितप्यते च ।०४२७-३ ज्ञातस्तु दोषो मम सर्वथेति०४२७-४ पापो जनः पापतरं करोति ॥०४२८-१ एवमेव नहि जीव्यते खलात्-०४२८-२ तत्र का नृपतिवल्लभे कथा ।०४२८-३ पूर्वमेव हि सुदुःसहो नलः०४२८-४ किं पुनः प्रबलवायुनेरितः ॥०४२९-१ अमरैरमृतं न पीतमब्धेर्-०४२९-२ न च हालाहलमुल्वणं हरेण ।०४२९-३ विधिना निहितं खलस्य वाचि०४२९-४ द्वयमेतद्बहिरेकमन्तरन्यत् ॥०४३०-१ निमित्तमुद्दिश्य हि यः प्रकुप्यति०४३०-२ ध्रुवं स तस्यापगसे प्रसीदति ।०४३०-३ अकारणद्वेषि मनो हि यस्य वै०४३०-४ कथं परस्तं परितोषयिष्यति ॥०४३१-१ इतरदेव बहिर्मुखमुच्यते०४३१-२ हृदि तु यत्स्फुरतीतरदेव तत् ।०४३१-३ चरितमेतदधीरवितारकं०४३१-४ धुरि पयःप्रतिबिम्बमिवासतां ॥०४३२-१ क्व पिशुनस्य गतिः प्रतिहन्यते०४३२-२ दशति दृष्टमपि श्रुतमप्यसौ ।०४३२-३ अतिसुदुष्करमव्यतिरिक्तदृक्-०४३२-४ छ्रुतिभिरप्यथ दृष्टिविषैरिदं ॥०४३३-१ गजतुरगशतैः प्रयान्तु मूर्खा०४३३-२ धनरहिता विबुधाः प्रयान्तु पद्भ्यां ।०४३३-३ गिरिशिखिरगतापि काकपाली०४३३-४ पुलिनगतैर्न समेति राजहंसैः ॥०४३४-१ ह्रेपयति प्रियवचनैरादरमुपदर्शयन्खलीकुरुते ।०४३४-२ उत्कर्षयंश्च लघयति मूर्खसुहृत्सर्वथा वर्ज्यः ॥०४३५-१ प्रकटमपि न संवृणोति दोषं०४३५-२ गुणलवलम्पट एष साधुवर्गः ।०४३५-३ अतिपरुषरुषं विनापि दोषैः०४३५-४ पिशुनशुनां रुषतां प्रयाति कालः ॥०४३६-१ यदा विगृह्णाति तदा हतं यशः०४३६-२ करोति मैत्त्रीमथ दूषिता गुणाः ।०४३६-३ स्थितिं समीक्ष्योभयथा परीक्षकः०४३६-४ करोत्यवज्ञोपहतं पृथग्जनं ॥०४३७-१ इष्टो वा सुकृतशतोपलालितो वा०४३७-२ श्लिष्टो वा व्यसनशताभिरक्षितो वा ।०४३७-३ दौःशील्याज्जनयति नैव जात्वसाधुर्-०४३७-४ विस्रम्भं भुजग इवाङ्कमध्यसुप्तः ॥०४३८-१ रूक्षं विरौति परिकुप्यति निर्निमित्तं०४३८-२ स्पर्शेन दूषयति वारयति प्रवेशं ।०४३८-३ लज्जाकरं दशति नैव च तृप्यतीति०४३८-४ कौलेयकस्य च खलस्य च को विशेषः ॥०४३९-१ पादाहतोथ दृढदण्डविघट्टितो वा०४३९-२ यं दंष्ट्रया दशति तं किल हन्ति सर्पः ।०४३९-३ कोप्यन्य एव पिशुनोद्य भुजंगधर्मा०४३९-४ कर्णे परं स्पृशति हन्त्यपरं समूलं ॥०४४०-१ युक्तं यया किल निरन्तरलब्धवृत्तेर्-०४४०-२ अस्याभिमानतमसः प्रसरं निरोद्धुं ।०४४०-३ विद्वत्तया जगति तामवलम्ब्य केचित्-०४४०-४ तन्वन्त्यहंकृतिमहो शतशाखमान्ध्यं ॥०४४१-१ नन्वाश्रयस्थितिरियं तव कालकूट०४४१-२ केनोत्तरोत्तरविशिष्टपदोपदिष्टा ।०४४१-३ प्रागर्णवस्य हृदये वृषलक्ष्मणोथ०४४१-४ कण्ठेधुना वससि वाचि पुनः खलानां ॥०४४२-१ प्रायः स्वभावमलिनो महतां समीपे०४४२-२ टिष्ठन्खलः प्रकुरुतेर्थिजनोपघातं ।०४४२-३ शीतार्दितैः सकललोकसुखावहोपि०४४२-४ धूमे स्थिते नहि सुखेन निषेव्यतोग्निः ॥०४४३-१ धूमः पयोधरपदं कथमप्यवाप्य०४४३-२ वर्षाम्बुभिः शमयति ज्वलनस्य तेजः ।०४४३-३ दैवादवाप्य कलुषप्रकृतिर्महत्त्वं०४४३-४ प्रायः स्वबन्धुजनमेव तिरस्करोति ॥०४४४-१ उल्लासिताखिलखलस्य विशृङ्खलस्य०४४४-२ प्राग्जातविस्मृतनिजाधमकर्मवृत्तेः ।०४४४-३ दैवादवाप्तविभवस्य गुणद्विषोस्य०४४४-४ नीचस्य गोचरगतैः सुखमास्यते कैः ॥०४४५-१ नाश्चर्यमेतदधुना हतदैवयोगा-०४४५-२ दुर्च्चैःस्थितिर्यदधमो न महानुभावः ।०४४५-३ रथ्याकलङ्कशतसंकरसंकुलोपि०४४५-४ पृष्ठे भवत्यवकरो न पुनर्निधानं ॥०४४६-१ प्रसह्य मणिमुद्धरेन्मकरवक्त्रदंष्ट्रान्तरात्-०४४६-२ समुद्रमपि संतरेत्प्रचलदूर्मिमालाकुलं ।०४४६-३ भुजगमपि कोपितं शिरसि पुश्पवद्धारयेन्-०४४६-४ न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥०४४७-१ लभेत सिकतासु तैलमपि यत्नतः पीडयन्-०४४७-२ पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।०४४७-३ कदाचिदपि पर्यटच्छशविषाणमासादयेन्-०४४७-४ न तु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥०४४८-१ अरण्यरुदितं कृतं शवशरीरमुद्वर्तितं०४४८-२ स्थलेब्जमवरोपितं सुचिरमूषरे वर्षितं ।०४४८-३ श्वपुच्छमवनामितं बधिरकर्णजापः कृतः०४४८-४ कृतान्धमुखमण्डना यदबुधो जनः सेचितः ॥०४४९-१ वृथा दुग्धोनड्वान्स्तनभरनता गौरिति चिरं०४४९-२ परिष्वक्तः षण्ढो युवतिरित लावण्यसहिता ।०४४९-३ कृता वैदूर्याशा विकचकिरणे काचशकले०४४९-४ मया मूढेन त्वां कृपणमगुणज्ञं प्रणमता ॥०४५०-१ स्वपक्षच्छेदं वा समुचितफलभ्रंशमथवा०४५०-२ स्वमूर्तेर्भङ्गं वा पतनमशुचौ नाशमथवा ।०४५०-३ शरः प्राप्नोत्येतान्हृदयपथसंस्थोपि धनुष०४५०-४ ऋजोर्वक्राश्लेषाद्भवति खलु सुव्यक्तमशुभं ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP