सुभाषितावलि - सुभाषित ३५१ - ४००
सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.
०३५१-१ प्रायः परोपतापाय दुर्जनः सततोद्यतः ।
०३५१-२ अवश्यकरणीयत्वान्न कारणमपेक्षते ॥
०३५२-१ स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिं ।
०३५२-२ अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥
०३५३-१ अहो प्रकृतिसादृश्यं श्लेष्मणो दुर्जनस्य च ।
०३५३-२ मधुरैः कोपमायाति कटुकैरुपशाम्यति ॥
०३५४-१ यथा गजपतिः श्रान्तश्छायार्थी वृक्षमाश्रितः ।
०३५४-२ विश्रम्य तं द्रुमं हन्ति तथा नीचः स्वमाश्रयं ॥
०३५५-१ दुर्जनः परिहर्तव्यो विद्ययालंकृतोपि सन् ।
०३५५-२ मणिना भूषितः सर्पो भवेत्किं न भयंकरः ॥
०३५६-१ चारुता परदारार्थं धनं लोकोपतप्तये ।
०३५६-२ प्रभूत्वं साधुनाशाय खले खलतरा गुणाः ॥
०३५७-१ परोपघातविज्ञानमात्रलाभोपजीविनां ।
०३५७-२ दाशानामिव धूर्तानां जालाय गुणसंग्रहः ॥
०३५८-१ दुर्जनेनोच्यमानानि वचांसि मधुराण्यपि ।
०३५८-२ अकालकुसुमानीव त्रासं संजनयन्ति मे ॥
०३५९-१ न लज्जते सज्जनवर्जनीयया
०३५९-२ भुजंगवक्रक्रिययापि दुर्जनः ।
०३५९-३ धियं कुमायासमयाभिचारिणीं
०३५९-४ विदग्धतामेव हि मन्यते खलः ॥
०३६०-१ वृतिं स्वां बहु मन्यते हृदि शुचं धत्तेनुकम्पोक्तिभिर्-
०३६०-२ व्यक्तं निन्दति योग्यतां मितमतिः कुर्वन्स्तुतीरात्मनः ।
०३६०-३ गर्ह्योपायनिषेवणं कथयति स्थास्नुं वदन्व्यापदं
०३६०-४ श्रुत्वा दुःखमरुंतुदां वितनुते पीडां जनः प्राकृतः ॥
०३६१-१ पाकश्चेन्न शुभस्य मेद्य तदसौ प्रागेव नादात्किमु
०३६१-२ स्वार्थश्चेन्न मयास्य किं न भजते दीनान्स्वबन्धूनयं ।
०३६१-३ मत्तो रन्ध्रुदृशोस्य भीर्यदि न तल्लुब्धः किमेष त्यजेद्-
०३६१-४ इत्यन्तः पुरुषोधंअः कलयति प्रायः कृतोपक्रियः ॥
०३६२-१ साश्चर्यं युधि शौर्यमप्रतिहतं तत्कण्डिताखण्डलं
०३६२-२ पाञ्चोत्तानकरः कृत सभगवान्दानेन लक्ष्मीपतिः ।
०३६२-३ ऐश्वर्यं स्वकराप्तसप्तभुवनं लब्धाब्धिपारं यशः
०३६२-४ सर्वं दुर्जनसंगमेन सहसा स्पष्टं विनष्टं बलेः ॥
०३६३-१ शमयति यशः क्लेशं सूते दिशत्यशिवां गतिं
०३६३-२ जनयति जनोद्वेगायासं नयत्युपहास्यतां ।
०३६३-३ भ्रमयति मतिं मानं हन्ति क्षिणोति च जीवितं
०३६३-४ क्षिपति सकलं कल्याणानां कुलं खलसंगमः ॥
०३६४-१ अविनयभुवामज्ञानानां शमाय भवन्नपि
०३६४-२ प्रकृतिकुटिलाद्विद्याभ्यासः खलत्वविवृद्धये ।
०३६४-३ फणिभयभृतामस्तु च्छेदक्षमस्तमसामसौ
०३६४-४ विषधरफणारत्नालोको भयं तु भृशायते ॥
०३६५-१ करोति पूज्यमानोपि लोकव्यसनदीक्षितः ।
०३६५-२ दर्शने दर्शने त्रासं गृहाहिरिव दुर्जनः ॥
०३६६-१ सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव ।
०३६६-२ नास्तिकोपि ह्युद्विजते जनः किं पुनरास्तिकः ॥
०३६७-१ येषां प्राणिवधः क्रीडा नर्म मर्मच्छिदो गिरः ।
०३६७-२ कार्यं परोपतापित्वं ते मृत्योरपि मृत्यवः ॥
०३६८-१ अहो बत महत्कष्टं विपरीतमिदं जगत् ।
०३६८-२ येनापत्र्पते साधुरसाधुस्तेन तुष्यति ॥
०३६९-१ न तथेच्छन्त्यकल्याणाः परेषां वेदितुं गुणान् ।
०३६९-२ यथैषां ज्ञातुमिच्छन्ति नैर्गुण्यं पापचेतसः ॥
०३७०-१ वर्जनीयो मतिमतां दुर्जनः सख्यवैरयोः ।
०३७०-२ श्वा भवत्युपघायाय लडन्नपि दशन्नपि ॥
०३७१-१ अतो हास्यतरं लोके किंचिदन्यन्न विद्यते ।
०३७१-२ यत्र दुर्जन इत्याह दुर्जनः सज्जनं जनं ॥
०३७२-१ अपकारमसंप्राप्य तुष्येत्साधुरसाधुतः ।
०३७२-२ नैष लाभो भुजंगेन वेष्टितो यन्न दश्यते ॥
०३७३-१ लब्धः स्तब्धोनृजुर्मूर्खः प्रभुरेकान्तदारुणः ।
०३७३-२ बहूनेष खलः साधून्मारयित्वा मरिष्यति ॥
०३७४-१ का खलेन सह स्पर्धा सज्जनस्याभिमानिनः ।
०३७४-२ भाषणं भीषणं साधुदूषणं यस्य भूषणं ॥
०३७५-१ मुखेनैकेन विध्यन्ति पादमेकस्य कण्टकाः ।
०३७५-२ दूरान्मुखसहस्रेण सर्वप्राणहराः खलाः ॥
०३७६-१ निर्माय खलजिह्वाग्रं सर्वप्राणहरं नृणां ।
०३७६-२ चकार किं वृथा शस्त्रविषवह्नीन्प्रजापतिः ॥
०३७७-१ यथा परोपकारेषु नित्यं जागर्ति सज्जनः ।
०३७७-२ तथा परापकारेषु जागर्ति सततं खलः ॥
०३७८-१ बिभेति पिशुनान्नीचः प्रकाशनपटीयसः ।
०३७८-२ न पुनर्मूढहृदयो निन्दनीयात्स्वकर्मणः ॥
०३७९-१ वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः ।
०३७९-२ दुर्जनस्यौषधं नास्ति किंचिदन्यदनुत्तरात् ॥
०३८०-१ खलानां कण्टकानां च द्विधैवास्ति प्रतिक्रिया ।
०३८०-२ उपानन्मुखभङ्गो वा दूरतो वापि वर्जनं ॥
०३८१-१ जीवन्नपि न तत्कर्तुं शक्नोति सुजनस्तथा ।
०३८१-२ दुर्जनो यन्मृतः कुर्यात्परेभ्योहितमुत्तरं ॥
०३८२-१ यद्यदिष्टतमं तत्तद्देयं गुणवते किल ।
०३८२-२ अत एव खलो दोषान्साधुभ्यः संप्रयच्छति ॥
०३८३-१ रोगोण्डजोङ्कुरोग्निर्विषमश्वतरो घुणाः क्रिमयः ।
०३८३-२ प्रकृतिकृतघ्नश्च नरः स्वाश्रयमविनाश्य नैधन्ते ॥
०३८४-१ न विना परवादेन रमते दुर्जनो जनः ।
०३८४-२ श्वा हि सर्वरसान्भुक्त्वा विनामेध्यं न तृप्यति ॥
०३८५-१ वरमत्यन्तविफलः सुखसेव्यो हि सज्जनः ।
०३८५-२ न तु प्राणहरस्तीक्ष्णः शरवत्सफलः खलः ॥
०३८६-१ स्वभावेनैव निशितः कृतपक्षग्रहोपि सन् ।
०३८६-२ शरवद्गुणनिर्मुक्तः खलः कस्य न भेदकः ॥
०३८७-१ दुर्जनः सुजनीकर्तुं यत्नेनापि न शक्यते ।
०३८७-२ संस्कारेणापि लशुनं कः सुगन्धीकरिष्यति ॥
०३८८-१ नीचः समुत्थितोवश्यमनवाप्य पराश्रयं ।
०३८८-२ छिद्रेण रतिमाप्नोति दृष्टान्तोत्र कटीभवः ॥
०३८९-१ परवादे दशवदनः पररन्ध्रनिरीक्षणे सहस्राक्षः ।
०३८९-२ सद्वृत्तवृत्तिहरणे बाहुसहस्रार्जुनो नीचः ॥
०३९०-१ दुर्जनदूषितमनसां पुंसां सुजनेपि नास्ति विश्वासः ।
०३९०-२ बालः पायसदग्धोदध्यपि फूत्कृत्य भक्षयति ॥
०३९१-१ आदौ लज्जयति कृतं मध्ये परिभवति रिक्तमवसाने ।
०३९१-२ खलसंगतस्य कथयत यदि सुस्थितमस्ति किंचिदपि ॥
०३९२-१ परमर्मदिव्यदर्शिषु जात्यैवोचितनिगूढवैरेषु ।
०३९२-२ कः खलु खलेषु शङ्कां श्लथयिष्यति दम्भानिरतेषु ॥
०३९३-१ अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ।
०३९३-२ ज्ञानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥
०३९४-१ अस्थानाभिनिवेशी प्रायो जडे एव भवति नो विद्वान् ।
०३९४-२ बालादन्यः क्ॐभसि जिघृक्षतीन्दोः स्फुरबिम्बं ॥
०३९५-१ लब्धोदयोपि हि खलः प्रथमं स्वजनं नयति परितापं ।
०३९५-२ उद्गच्छन्दवदहनो जन्मभुवं दारु निर्दहति ॥
०३९६-१ अल्पश्रुतलव एव प्रायः प्रकटयति वाग्विभवमुच्चैः ।
०३९६-२ सर्वत्र कुनट एव हि नाटकमधिकं विडम्बयति ॥
०३९७-१ प्रखला एव गुणावतामाक्रम्य धुरं पुरः प्रकर्षन्ति ।
०३९७-२ तृणकाष्ठमेव जलधेरुपरिप्लवते न रत्नानि ॥
०३९८-१ महतां यदेव मूर्धसु तदेव नीचास्तृणाय मन्यन्ते ।
०३९८-२ लिङ्गं प्रणमन्ति बुधाः काकः पुनरासनीकुरते ॥
०३९९-१ सह वसतामप्यसतां जलरुहजलवद्भवत्यसंश्लेषः ।
०३९९-२ दूरेपि सतां वसतां प्रीतिः कुमुदेन्दुवद्भवति ॥
०४००-१ परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः परान्व्यथते ।
०४००-२ पवनाशिनोपि भुजगाः परोपतापं न मुञ्चन्ति ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP