संस्कृत सूची|संस्कृत साहित्य|सुभाषितानि|सुभाषितावलि| सुभाषित ४५१ - ५०० सुभाषितावलि सुभाषित १ - ५० सुभाषित ५१ - १०० सुभाषित १०१ - १५० सुभाषित १५१ - २०० सुभाषित २०१ - २५० सुभाषित २५१ - ३०० सुभाषित ३०१ - ३५० सुभाषित ३५१ - ४०० सुभाषित ४०१ - ४५० सुभाषित ४५१ - ५०० सुभाषित ५०१ - ५५० सुभाषित ५५१ - ६०० सुभाषित ६०१ - ६५० सुभाषित ६५१ - ७०० सुभाषित ७०१ - ७५० सुभाषित ७५१ - ८०० सुभाषित ८०१ - ८५० सुभाषित ८५१ - ९०० सुभाषित ९०१ - ९५० सुभाषित ९५१ - १००० सुभाषित १००१ - १०४० सुभाषितावलि - सुभाषित ४५१ - ५०० सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.Subhashita means good speech. Tags : vallabhadevवल्लभदेवसंस्कृतसुभाषित सुभाषित ४५१ - ५०० Translation - भाषांतर ०४५१-१ गुणाणां सा शक्तिर्विपदमनुबध्नन्ति यदमी०४५१-२ प्रसन्नस्तद्वेधा मम यदि न तैर्योगमकरोत् ।०४५१-३ विषण्णं दौर्गत्यादिति गुणिनमालोक्य विगुणः०४५१-४ करोति स्वे गेहे ध्रुवमतिसमृद्ध्योत्सवमसौ ॥०४५२-१ अवेक्ष्य स्वात्मानं विगुणमपरानिछ्हति तथा०४५२-२ फलत्येतन्नो चेद्विलपति न सन्तीह गुणिनः ।०४५२-३ निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततो-०४५२-४ प्यहो नीचे रम्या सगुणविजिगीषा विधिक्ता ॥०४५३-१ यदि परगुणा न क्षम्यन्ते यतस्व तदर्जने०४५३-२ नहि परयशो निन्दाव्याजैरलं परिमार्जितुं ।०४५३-३ विरमसि न चेदिच्छाद्वेषप्रसक्तमनोरथा०४५३-४ दिनकरकरान्पाणिच्छत्त्रैर्नुदच्छ्रममेष्यसि ॥०४५४-१ प्रकृष्टे संपर्के भणिभुजगयोर्जन्मजनिते०४५४-२ मणिर्नाहेर्दोषान्भजति न च सर्पो मणिगुणान् ।०४५४-३ असाधुः साधुर्वा भवति ननु जात्यैव पुरुषो०४५४-४ नसङ्गाद्दौर्जन्यं न च सुजनता कस्यचिदपि ॥०४५५-१ न विषममृतीकर्तुं शक्यं प्रयत्नशतैरपि०४५५-२ त्यजति कटुतां न स्वां निम्बः स्थितोपि पयोह्रदे ।०४५५-३ गुणपरिचितामार्यां वाणीं न जल्पति दुर्जनश्-०४५५-४ चिरमपि बलाध्माते लोहे कुतः कनकाकृतिः ॥०४५६-१ वरमहिमुखे क्रोधाविष्टे करौ विनिवेशितौ०४५६-२ विषमपि वरं पीत्वा सुप्तं कृतान्तनिवेशने ।०४५६-३ गिरिवरतटान्मुक्तश्चात्मा वरं शतधा कृतो०४५६-४ न तु खलजनावाप्तैरर्थैः कृतं हितमात्मनः ॥०४५७-१ वर्णस्थं गुरुलाघवं न गणथत्याशङ्कते न क्वचिद्-०४५७-२ रूपं नैव परीक्षते न पुरुषं वृत्तेषु वार्ता कुतः ।०४५७-३ कष्टं नायशसो विभेति महतो नैवापशब्दान्तरान्-०४५७-४ मृत्युर्मूर्खकविः खलः कुनृपतिश्चौरश्च तुल्यक्रियाः ॥०४५८-१ सिंहो व्याकरणस्य कर्तुरहरत्प्राणान्प्रियान्पाणिनेर्-०४५८-२ मींआंसाकृतमुन्ममाथ तरसा हस्ती मुनिं जैमिनिं ।०४५८-३ छन्दोज्ञाननिधिं जघान मकरो वेलातटे पिङ्गलम्-०४५८-४ अज्ञानाहतचेतसामतिरुषां कोर्थस्तिरश्चां गुणैः ॥०४५९-१ वन्द्यान्निन्दति दुःखितानुपहसत्याबाधते बान्धवाञ्-०४५९-२ छूरान्द्वेष्टि धनच्युतान्परिभवत्याज्ञापयत्याश्रितान् ।०४५९-३ गुह्यानि प्रकटिकरोति घटयन्यत्नेन वैराशयं०४५९-४ ब्रूते शीघ्रमवाच्यमुज्झति गुणान्गृह्णाति दोषान्खलः ॥०४६०-१ हसति लसति हर्षात्तीव्रदुःखे परेषां०४६०-२ स्खलति गलति मोहादात्मनः क्लेशलेशे ।०४६०-३ नदति वदति निन्द्यं मानिनां किं च नीचः०४६०-४ परुषवचनमल्पं श्रावितो हन्तुमेति ॥०४६१-१ यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि ।०४६१-२ अथासज्जगनोष्ठीषु पतिष्यसि पतिष्यसि ॥०४६२-१ कर्णे तत्कथयन्ति दुन्दुभिरवै राष्ट्रे यदुद्धोषितं०४६२-२ तन्नम्राङ्गतया वदन्ति करुणं यस्मात्रपावान्भवेत् ।०४६२-३ श्लाघन्ते तदुदीर्यते यदरिणाप्युग्रं न मर्मान्तकृ-०४६२-४ द्ये केचिन्ननु शाव्यमौग्ध्यनिधयस्ते भूभृतां रञ्जकाः ॥०४६३-१ भण्डस्ताण्डवमण्डपे चटुकथावीथीषु कन्थाकविर्-०४६३-२ गोष्ठश्व स्वगृहाङ्गणे शिखरिभूगर्ते खटाखुः स्फुटं ।०४६३-३ पिण्डीशूरतया विटश्व पटुतां भूभृद्गृहे गाहते०४६३-४ गच्छन्ति ह्रदकृष्टकच्छपतुलां चित्रं ततोन्यत्र ते ॥०४६४-१ जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं०४६४-२ शूरे निर्घृणता ऋजौ विमतिता दैन्यं प्रियालापिनि ।०४६४-३ तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे०४६४-४ तत्को नाम गुणो भवेद्गुणवतां यो दुर्जनैर्नाङ्कितः ॥०४६५-१ आखुः कैलासशैलं तुलयति करटस्तार्क्ष्यमांसाभिलाषी०४६५-२ बभ्रुर्लाङ्गूलमूलं चलयति चपलस्तक्षकाहिं जिघांसुः ।०४६५-३ भेकः पारं यियाऔर्भुजगमपि महाघस्मरस्याम्बुराशेः०४६५-४ प्रायेणासन्नपातः स्मरति समुचितं कर्म न क्षुद्रकर्मा ॥०४६६-१ अगुणकणो गुणोराशिर्द्वयमिह दैवात्खलमुखे पतितं ।०४६६-२ प्रसरति तैलमिवैकः सलिले घृतवज्जडत्वमेत्यन्यः ॥०४६७-१ शरणं किं प्रपन्नानि विषवन्मारयन्ति किं ।०४६७-२ न त्यज्यन्ते न भुज्यन्ते कृपणेन धनानि यत् ॥०४६८-१ कृपणेन समो दाता न भूतो न भविष्यति ।०४६८-२ अस्पृशन्नेव वित्तानि यः परेभ्यः प्रयच्छति ॥०४६९-१ या विपत्तिर्धनापाये नवा भोगिवदान्ययोः ।०४६९-२ प्रज्ञापकर्षात्प्रागेव प्राप्ता हि कृपणेन सा ॥०४७०-१ त्यागोपभोगशून्येन धनेन धनिनो यदि ।०४७०-२ भवामः किं न तेनैव धनेन धनिनो वयं ॥०४७१-१ गृहमध्यनिखातेन धनेन रमते यदि ।०४७१-२ स तु तेनानुसारेण रमते किं न मेरुणा ॥०४७२-१ किंशुके किं शुकः कुर्यात्फलितेपि बुभुक्षितः ।०४७२-२ अदातरि समृद्धेपि किं कुर्युरुपजीविनः ॥०४७३-१ दानोपभोगबन्ध्या या सुहृध्बिर्या न भुज्यते ।०४७३-२ पुंसां यदि हि सा लक्ष्मीरलक्ष्मीः कतम भवेत् ॥०४७४-१ अतिसंचयकर्त्णां वित्तमन्यस्य कारणां ।०४७४-२ अन्यैः संचीयते यत्नादन्यैश्च मधु पीयते ॥०४७५-१ यद्ददासि विशिष्टेभ्यो यदाश्नासि दिने दिने ।०४७५-२ तत्ते वित्तमहं मन्ये शेषं कस्यापि रक्षसि ॥०४७६-१ विडम्बनैव पुंसि श्रीः परप्रणयपांसुले ।०४७६-२ कान्तिं कामिह कुर्वीत कुणौ कटककल्पना ॥०४७७-१ कृत्वोपकारं यस्तस्माद्वाञ्छति प्रत्युपक्रियां ।०४७७-२ दीनस्तृष्णाविधेयत्वाद्वान्तमप्युपलेढि सः ॥०४७८-१ दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।०४७८-२ यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्नाशः ॥०४७९-१ दानं भोगं च विना धनसत्तामात्रकेण चेद्धनिनः ।०४७९-२ वयमपि किमिति न धनिनिस्तिष्ठति नः काञ्चनो मेरुः ॥०४८०-१ धनिनोप्यदानभोगा गण्यन्ते धुरि महादरिद्राणां ।०४८०-२ हन्ति न यतः पिपासामतः समुद्रोपि मरुरेव ॥०४८१-१ अभ्युपयुक्ताः सद्भिर्गतागतैरहरहः सुनिर्विण्णाः ।०४८१-२ कृपणजनसंनिकर्षं संप्राप्यार्थाः स्वपन्तीव ॥०४८२-१ उपभोगकातराणां पुरुषाणामर्थसंचयपराणां ।०४८२-२ कन्यारत्नमिव गृहे तिष्ठन्त्यर्थाः परस्यार्थे ॥०४८३-१ ते मूर्खतरा लोके येषां धनमस्ति नास्ति च त्यागः ।०४८३-२ केवलमर्जुनरक्षणवियोगदुःखान्यनुभवन्ति ॥०४८४-१ कृपणसमृद्धीनामपि भोक्तारः सन्ति केचिदतिनिपुणाः ।०४८४-२ जलसंपद्ॐबुराशेर्यान्ति लयं शश्वदौर्वाग्नौ ॥०४८५-१ प्राप्तानपि न लभन्ते भोगान्भोक्तुं स्वकर्मभिः कृपणाः ।०४८५-२ मुखरोगः किल भवति द्राक्षापाके बलिभुजां हि ॥०४८६-१ न निर्यियासन्ति कदर्यहस्ताद्-०४८६-२ धनानि पांसोरिव तैललेशाः ।०४८६-३ दैवात्कदाचिद्विनियोक्तुरेव०४८६-४ निर्गन्तुमिच्छन्त्यसुभिः सहैव ॥०४८७-१ संचितं क्रतुषु नोपयुज्यते०४८७-२ याचितं गुणवते न दीयत्ये ।०४८७-३ तत्कदर्यपरिरक्षितं धनं०४८७-४ चौरपार्थिवगृहेषु गच्छति ॥०४८८-१ वरममी तरवो वनगोचराः०४८८-२ शकुनिसार्थविलुप्तफलश्रियः ।०४८८-३ न तु धनाढ्यगृहाः कृपणाः फण-०४८८-४ निहितरत्नभुजंगमवृत्तयः ॥०४८९-१ सुसंवृतैर्जीवितवत्सुरक्षितैर्-०४८९-२ निजेपि देहे कृतयन्त्रणस्य च ।०४८९-३ तवानुमार्गं व्रजतो भवान्तरे०४८९-४ शठैर्धनैः पञ्चपदी न पूरिता ॥०४९०-१ अहो धनानां महती विदग्धता०४९०-२ सुखोषितानां कृपणस्य वेश्मनि ।०४९०-३ व्रजन्ति न त्यागदशां न भोग्यतां०४९०-४ परां च काञ्चित्प्रथयन्ति निर्वृतिं ॥०४९१-१ न शान्तान्तस्तृष्णां धनलवणवारिव्यतिकरैः०४९१-२ क्षतच्छायः कायश्चिरविरसरूक्षाशनतया ।०४९१-३ अनिद्रा मन्दाग्निर्नृपसलिलचौरानलभयात्-०४९१-४ कदर्याणां कष्टं स्फुटमधनकष्टादपि परं ॥०४९२-१ एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः०४९२-२ सन्त्येते धनिकाः कलासु सकलास्वाचार्यचर्याचणाः ।०४९२-३ अप्येते सुमनोगिरां निशमनाद्बिभ्यत्यहो श्लाघया०४९२-४ धूते मूर्धनि कुण्डले कषणतः क्षीणे भवेतामिति ॥०४९३-१ प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया०४९३-२ भीतः प्रत्युपकारकारणभयान्नाकृष्यते सेवया ।०४९३-३ मिथ्या जल्पति वित्तमार्गणभयात्स्तुत्यापि न प्रीयते०४९३-४ कीनाशो विभवव्ययव्यतिकरत्रस्तः कथं प्राणिति ॥०४९४-१ मत्वा सारं गुणानां शिरसि यदि शशी स्थापितो दैवयोगा-०४९४-२ दीशेन क्षीणबिम्बं सकलमुपचयं किं न नीतः क्षणेन ।०४९४-३ मिथ्यैवं ख्यापयन्तो गुणिनि सरलतां लोकभक्त्यर्थमुच्चैर्-०४९४-४ आढ्याः कुर्वन्ति वित्तव्ययचकितधियो मानमर्थेन शून्यं ॥०४९५-१ ब्रह्माण्डमण्डलीमात्रं किं लोभाय मनस्विनः ।०४९५-२ शफरीस्फुरितैर्नाब्धेः क्षुब्धता जातु जायते ॥०४९६-१ नाल्पीयसि निबध्नन्ति पदमुद्दामचेतसः ।०४९६-२ येषां भुवनलाभेपि निःसीमानो मनोरथाः ॥०४९७-१ पुंसामुन्नतचित्तानां सुखावहमिदं द्वयं ।०४९७-२ सर्वसङ्गनिवृत्तिर्वा विभूतिर्वा सुविस्तरा ॥०४९८-१ अयं बन्धुः परो वेति गणना लघुचेतसां ।०४९८-२ पुंसामुदारचित्तानां वसुधैव कुटुम्बकं ॥०४९९-१ जरामरणदौर्गत्यव्याधयस्तावदासतां ।०४९९-२ जन्मैव किं न धीरस्य भूयो भूयस्त्रपाकरं ॥०५००-१ परिवर्तिनि संसारे मृतः को वा न जायते ।०५००-२ स जातो येन जातेन याति वंशः समुन्नतिं ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP