संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग १६ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग १६ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १६ Translation - भाषांतर १६.०१दत्तस्य_अप्रदानम् ऋण.आदानेन व्याख्यातम् ॥१६.०२दत्तम् अव्यवहार्यम् एकत्र_अनुशये वर्तेत ॥१६.०३सर्व.स्वं पुत्र.दारम् आत्मानं वा प्रदाय_अनुशयिनः प्रयच्छेत् ॥१६.०४धर्म.दानम् असाधुषु कर्मसु च_औपघातिकेषु वा, अर्थ.दानम् अनुपकारिष्व् अपकारिषु वा, काम.दानम् अनर्हेषु च ॥१६.०५यथा च दाता प्रतिग्रहीता च न_उपहतौ स्यातां तथा_अनुशयं कुशलाः कल्पयेयुः ॥१६.०६दण्ड.भयाद् आक्रोश.भयाद् अनर्थ.भयाद् वा भय.दानं प्रतिगृह्णतः स्तेय.दण्डः, प्रयच्छतश् च ॥१६.०७रोष.दानं पर.हिंसायां, राज्ञाम् उपरि दर्प.दानं च ॥१६.०८तत्र_उत्तमो दण्डः ॥१६.०९प्रातिभाव्यं दण्ड.शुल्क.शेषम् आक्षिकं सौरिकं च न_अकामः पुत्रो दायादो वा रिक्थ.हरो दद्यात् ॥ इति दत्तस्य_अनपाकर्म ।१६.१०अस्वामि.विक्रयस् तु - नष्ट.अपहृतम् आसाद्य स्वामी धर्मस्थेन ग्राहयेत् ॥१६.११देश.काल.अतिपत्तौ वा स्वयं गृहीत्वा_उपहरेत् ॥१६.१२धर्मस्थश् च स्वामिनम् अनुयुञ्जीत "कुतस् ते लब्धम्" इति ॥१६.१३स चेद् आचार.क्रमं दर्शयेत, न विक्रेतारं, तस्य द्रव्यस्य_अतिसर्गेण मुच्येत ॥१६.१४विक्रेता चेद् दृश्येत, मूल्यं स्तेय.दण्डं च दद्यात् ॥१६.१५स चेद् अपसारम् अधिगच्छेद् अपसरेद् आ.अपसार.क्षयात् ॥१६.१६क्षये मूल्यं स्तेय.दण्डं च दद्यात् ॥१६.१७नाष्टिकश् च स्व.करणं कृत्वा नष्ट.प्रत्याहृतं लभेत ॥१६.१८स्व.करण.अभावे पञ्च.बन्धो दण्डः ॥१६.१९तच् च द्रव्यं राज.धर्म्यं स्यात् ॥१६.२०नष्ट.अपहृतम् अनिवेद्य_उत्कर्षतः स्वामिनः पूर्वः साहस.दण्डः ॥१६.२१शुल्क.स्थाने नष्ट.अपहृत.उत्पन्नं तिष्ठेत् ॥१६.२२त्रि.पक्षाद् ऊर्ध्वम् अनभिसारं राजा हरेत्, स्वामी वा स्व.करणेन ॥१६.२३पञ्च.पणिकं द्विपद.रूपस्य निष्क्रयं दद्यात्, चतुष्पणिकम् एक.खुरस्य, द्विपणिकं गोमहिषस्य, पादिकं क्षुद्र.पशूनाम् ॥१६.२४रत्न.सार.फल्गु.कुप्यानां पञ्चकं शतं दद्यात् ॥१६.२५पर.चक्र.अटवी.हृतं तु प्रत्यानीय राजा यथा.स्वं प्रयच्छेत् ॥१६.२६चोर.हृतम् अविद्यमानं स्व.द्रव्येभ्यः प्रयच्छेत्, प्रत्यानेतुम् अशक्तो वा ॥१६.२७स्वयं.ग्राहेण_आहृतं प्रत्यानीय तन्.निष्क्रयं वा प्रयच्छेत् ॥१६.२८पर.विषयाद् वा विक्रमेण_आनीतं यथा.प्रदिष्टं राज्ञा भुञ्जीत, अन्यत्र_आर्य.प्राणेभ्यो देव.ब्राह्मण.तपस्वि.द्रव्येभ्यश् च ॥ इत्य् अस्वामि.विक्रयः ।१६.२९स्व.स्वामि.सम्बन्धस् तु - भोग.अनुवृत्तिर् उच्छिन्न.देशानां यथा.स्वं द्रव्याणाम् ॥१६.३०यत् स्वं द्रव्यम् अन्यैर् भुज्यमानं दश वर्षाण्य् उपेक्षेत, हीयेत_अस्य, अन्यत्र बाल.वृद्ध.व्याधित.व्यसनि.प्रोषित.देश.त्याग.राज्य.विभ्रमेभ्यः ॥१६.३१विंशति.वर्ष.उपेक्षितम् अनवसितं वास्तु न_अनुयुञ्जीत ॥१६.३२ज्ञातयः श्रोत्रियाः पाषण्डा वा राज्ञाम् असंनिधौ पर.वास्तुषु विवसन्तो न भोगेन हरेयुः, उपनिधिम् आधिं निधिं निक्षेपं स्त्रियं सीमानं राज.श्रोत्रिय.द्रव्याणि च ॥१६.३३आश्रमिणः पाषण्डा वा महत्य् अवकाशे परस्परम् अबाधमाना वसेयुः ॥१६.३४अल्पां बाधां सहेरन् ॥१६.३५पूर्व.आगतो वा वास.पर्यायं दद्यात् ॥१६.३६अप्रदाता निरस्येत ॥१६.३७वानप्रस्थ.यति.ब्रह्म.चारिणाम् आचार्य.शिष्य.धर्म.भ्रातृ.समान.तीर्थ्या रिक्थ.भाजः क्रमेण ॥१६.३८विवाद.पदेषु च_एषां यावन्तः पणा दण्डास् तावती रात्रीः क्षपण.अभिषेक.अग्नि.कार्य.महा.कच्छ.वर्धनानि राज्ञश् चरेयुः ॥१६.३९अहिरण्य.सुवर्णाः पाषढाः साधवः ॥१६.४०ते यथा.स्वम् उपवास.व्रतैर् आराधयेयुः, अन्यत्र पारुष्य.स्तेय.साहस.संग्रहणेभ्यः ॥१६.४१तेषु यथा.उक्ता दण्डाः कार्याः ॥१६.४२प्रव्रज्यासु वृथा.आचारान् राजा दण्डेन वारयेत् ।१६.४२धर्मो ह्य् अधर्म.उपहतः शास्तारं हन्त्य् उपेक्षितः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP