संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग १४ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग १४ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १४ Translation - भाषांतर १४.०१गृहीत्वा वेतनं कर्म_अकुर्वतो भृतकस्य द्वादश.पणो दण्डः, संरोधश् च_आ.करणात् ॥१४.०२अशक्तः कुत्सिते कर्मणि व्याधौ व्यसने वा_अनुशयं लभेत, परेण वा कारयितुम् ॥१४.०३तस्य.व्यय.कर्मणा लभेत भर्ता वा कारयितुम् ॥१४.०४"न_अन्यस् त्वया कारयितव्यो, मया वा न_अन्यस्य कर्तव्यम्" इत्य् अवरोधे भर्तुर् अकारयतो भृतकस्य_अकुर्वतो वा द्वादश.पणो दण्डः ॥१४.०५कर्म.निष्ठापने भर्तुर् अन्यत्र गृहीत.वेतनो न_असकामः कुर्यात् ॥१४.०६"उपस्थितम् अकारयतः कृतम् एव विद्याद्" इत्य् आचार्याः ॥१४.०७न_इति कौटिल्यः ॥१४.०८कृतस्य वेतनं न_अकृतस्य_अस्ति ॥१४.०९स चेद् अल्पम् अपि कारयित्वा न कारयेत् कृतम् एव_अस्य विद्यात् ॥१४.१०देश.काल.अतिपातनेन कर्मणाम् अन्यथा.करणे वा न_असकामः कृतम् अनुमन्येत ॥१४.११सम्भाषिताद् अधिक.क्रियायां प्रयासं न मोघं कुर्यात् ॥१४.१२तेन संघ.भृता व्याख्याताः ॥१४.१३तेषाम् आधिः सप्त.रात्रम् आसीत ॥१४.१४ततो_अन्यम् उपस्थापयेत्, कर्म.निष्पाकं च ॥१४.१५न च_अनिवेद्य भर्तुः संघः कंचित् परिहरेद् उपनयेद् वा ॥१४.१६तस्य_अतिक्रमे चतुर्.विंशति.पणो दण्डः ॥१४.१७संघेन परिहृतस्य_अर्ध.दण्डः ॥ इति भृतक.अधिकारः ॥१४.१८संघ.भृताः सम्भूय.समुत्थातारो वा यथा.सम्भाषितं वेतनं समं वा विभजेरन् ॥१४.१९कर्षण.वैदेहका वा सस्य.पण्य.आरम्भ.पर्यवसान.अन्तरे सन्नस्य यथा.कृतस्य कर्मणः प्रत्यंशं दद्युः ॥१४.२०पुरुष.उपस्थाने समग्रम् अंशं दद्युः ॥१४.२१संसिद्धे तु_उद्धृत.पण्ये सन्नस्य तदानीम् एव प्रत्यंशं दद्युः ॥१४.२२सामान्या हि पथि.सिद्धिश् च_असिद्धिश् च ॥१४.२३प्रक्रान्ते तु कर्मणि स्वस्थस्य_अपक्रामतो द्वादश.पणो दण्डः ॥१४.२४न च प्राकाम्यम् अपक्रमणे ॥१४.२५चोरं त्व् अभय.पूर्वं कर्मणः प्रत्यंशेन ग्राहयेद्, दद्यात् प्रत्यंशम् अभयं च ॥१४.२६पुनः.स्तेये प्रवासनम्, अन्यत्र.गमने च ॥१४.२७महा.अपराधे तु दूष्यवद् आचरेत् ॥१४.२८याजकाः स्वा.प्रचार.द्रव्य.वर्जं यथा.सम्भाषितं वेतनं समं वा विभजेरन् ॥१४.२९अग्निष्टोम.आदिषु च क्रतुषु दीक्षणाद् ऊर्ध्वं तृतीयम् अंशं, मध्यम.उपसद ऊर्ध्वम् अर्धम् अंशं, सुत्ये प्रातः.सवनाद् ऊर्ध्वं पाद.ऊनम् अंशम् ॥१४.३०माध्यन्दिनात् सवनाद् ऊर्ध्वं समग्रम् अंशं लभेत ॥१४.३१नीता हि दक्षिणा भवन्ति ॥१४.३२बृहस्पति.सव.वर्जं प्रतिसवनं हि दक्षिणा दीयन्ते ॥१४.३३तेन_अहर्.गण.दक्षिणा व्याख्याताः ॥१४.३४सनानाम् आ.दश.अहो.रात्रात्_शेष.भृताः कर्म कुर्युः, अन्ये वा स्व.प्रत्ययाः ॥१४.३५कर्मण्य् असमाप्ते तु यजमानः सीदेद्, ऋत्विजः कर्म समापय्य दक्षिणां हरेयुः ॥१४.३६असमाप्ते तु कर्मणि याज्यं याजकं वा त्यजतः पूर्वः साहस.दण्डः ॥१४.३७अनाहित.अग्निः शत.गुरु.यज्वा च सहस्रगुः ।१४.३७सुरापो वृषली.भर्ता ब्रह्महा गुरु.तल्पगः ॥१४.३८असत्.प्रतिग्रहे युक्तः स्तेनः कुत्सित.याजकः ।१४.३८अदोषस् त्यक्तुम् अन्योन्यं कर्म.संकर.निश्चयात् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP