१.०१
धर्मस्थास् त्रयस् त्रयो_अमात्या जन.पद.संधि.संग्रहण.द्रोण.मुख.स्थानीयेषु व्यावहारिकान् अर्थान् कुर्युः ॥
१.०२
तिरोहित.अन्तर्.अगार.नक्त.अरण्य.उपध्य्.उपह्वर.कृतांश् च व्यवहारान् प्रतिषेधयेयुः ॥
१.०३
कर्तुः कारयितुः पूर्वः साहस.दण्डः ॥
१.०४
श्रोतृऋणाम् एक.एकं प्रत्यर्ध.दण्डाः ॥
१.०५
श्रद्धेयानां तु द्रव्य.व्यपनयः ॥
१.०६
परोक्षेण_अधिक.ऋण.ग्रहणम् अवक्तव्य.करा वा तिरोहिताः सिध्येयुः ॥
१.०७
दाय.निक्षेप.उपनिधि.विवाह.युक्ताः स्त्रीणाम् अनिष्कासिनीनां व्याधितानां च_अमूढ.संज्ञानाम् अन्तर्.अगार.कृताः सिध्येयुः ॥
१.०८
साहस.अनुप्रवेश.कलह.विवाह.राज.नियोग.युक्ताः पूर्व.रात्र.व्यवहारिणां च रात्रि.कृताः सिध्येयुः ॥
१.०९
सार्थ.व्रज.आश्रम.व्याध.चारण.मध्येष्व् अरण्य.चराणाम् अरण्य.कृताः सिध्येयुः ॥
१.१०
गूढ.आजीविषु च_उपधि.कृताः सिध्येयुः ॥
१.११
मिथः.समवाये च_उपह्वर.कृताः सिध्येयुः ॥
१.१२
अतो_अन्यथा न सिध्येयुः, अपाश्रयवद्भिश् च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, कनिष्ठेन_अविभक्त.अंशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दास.आहितकाभ्याम्, अप्राप्त.अतीत.व्यवहाराभ्याम्, अभिशस्त.प्रव्रजित.न्यङ्ग.व्यसनिभिश् च, अन्यत्र निषृष्ट.व्यवहारेभ्यः ॥
१.१३
तत्र_अपि क्रुद्धेन_आर्तेन मत्तेन.उन्मत्तेन_अवगृहीतेन वा कृता व्यवहारा न सिध्येयुः ॥
१.१४
कर्तृ.कारयितृ.श्रोतृऋणां पृथग् यथा.उक्ता दण्डाः ॥
१.१५
स्वे स्वे तु वर्गे देशे काले च स्व.करण.कृताः सम्पूर्ण.आचाराः शुद्ध.देशा दृष्ट.रूप.लक्षण.प्रमाण.गुणाः सर्व.व्यवहाराः सिध्येयुः ॥
१.१६
पश्चिमं च_एषां करणम् आदेश.आधिवर्जं श्रद्धेयम् ॥ इति व्यवहार.स्थापना ।
१.१७
संवत्सरम् ऋतुं मासं पक्षं दिवसं करणम् अधिकरणम् ऋणं वेदक.आवेदकयोः कृत.समर्थ.अवस्थयोर् देश.ग्राम.जाति.गोत्र.नाम.कर्माणि च_अभिलिख्य वादि.प्रतिवादि.प्रश्नान् अर्थ.आनुपूर्व्या निवेशयेत् ॥
१.१८
निविष्टांश् च_अवेक्षेत ॥
१.१९
निबद्धं वादम् उत्सृज्य_अन्यं वादं संक्रामति, पूर्व.उक्तं पश्चिमेन_अर्थेन न_अभिसंधत्ते, पर.वाक्यम् अनभिग्राह्यम् अभिग्राह्य_अवतिष्ठते, प्रतिज्ञाय देशं निर्दिश_इत्य् उक्ते न निर्दिशति, हीन.देशम् अदेशं वा निर्दिशति, निर्दिष्टाद् देशाद् अन्यं देशम् उपस्थापयति, उपस्थिते देशे_अर्थ.वचनं न_एवम् इत्य् अपव्ययते, साक्षिभिर् अवधृतं न_इच्छति, असम्भाष्ये देशे साक्षिभिर् मिथः सम्भाषते, इति परा.उक्त.हेतवः ॥
१.२०
परा.उक्त.दण्डः पञ्च.बन्धः ॥
१.२१
स्वयं.वादि.दण्डो दश.बन्धः ॥
१.२२
पुरुष.भृतिर् अष्ट.अंशः ॥
१.२३
पथि.भक्तम् अर्घ.विशेषतः ॥
१.२४
तद् उभयं नियम्यो दद्यात् ॥
१.२५
अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलह.साहस.सार्थ.समवायेभ्यः ॥
१.२६
न च_अभियुक्ते_अभियोगे_अस्ति ॥
१.२७
अभियोक्ता चेत् प्रत्युक्तस् तद्.अहर् एव न प्रतिब्रूयात् परा.उक्तः स्यात् ॥
१.२८
कृत.कार्य.विनिश्चयो ह्य् अभियोक्ता न_अभियुक्तः ॥
१.२९
तस्य_अप्रतिब्रुवतस् त्रि.रात्रं सप्त.रात्रम् इति ॥
१.३०
अत ऊर्ध्वं त्रि.पण.अवर.अर्ध्यं द्वादश.पण.परं दण्डं कुर्यात् ॥
१.३१
त्रि.पक्षाद् ऊर्ध्वम् अप्रतिब्रुवतः परा.उक्त.दण्डं कृत्वा यान्य् अस्य द्रव्याणि स्युस् ततो_अभियोक्तारं प्रतिपादयेद्, अन्यत्र वृत्त्य्.उपकरणेभ्यः ॥
१.३२
तद् एव निष्पततो_अभियुक्तस्य कुर्यात् ॥
१.३३
अभियोक्तुर् निष्पात.सम.कालः परा.उक्त.भावः ॥
१.३४
प्रेतस्य व्यसनिनो वा साक्षि.वचनम् असारम् ॥
१.३५
अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ॥
१.३६
आधिं वा स कामं प्रवेशयेत् ॥
१.३७
रक्षोघ्न.रक्षितं वा कर्मणा प्रतिपादयेद्, अन्यत्र ब्राह्मणात् ॥
१.३८
चतुर्.वर्ण.आश्रमस्य_अयं लोकस्य_आचार.रक्षणात् ।
१.३८
नश्यतां सर्व.धर्माणां राजा धर्म.प्रवर्तकः ॥
१.३९
धर्मश् च व्यवहारश् च चरित्रं राज.शासनम् ।
१.३९
विवाद.अर्थश् चतुष्पादः पश्चिमः पूर्व.बाधकः ॥
१.४०
तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु ।
१.४०
चरित्रं संग्रहे पुंसां राज्ञाम् आज्ञा तु शासनम् ॥
१.४१
राज्ञः स्व.धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः ।
१.४१
अरक्षितुर् वा क्षेप्तुर् वा मिथ्या.दण्डम् अतो_अन्यथा ॥
१.४२
दण्डो हि केवलो लोकं परं च_इमं च रक्षति ।
१.४२
राज्ञा पुत्रे च शत्रौ च यथा.दोषं समं धृतः ॥
१.४३
अनुशासद्द् हि धर्मेण व्यवहारेण संस्थया ।
१.४३
न्यायेन च चतुर्थेन चतुर्.अन्तां वा महीं जयेत् ॥
१.४४
संस्था या धर्म.शास्त्रेण शास्त्रं वा व्यावहारिकम् ।
१.४४
यस्मिन्न् अर्थे विरुध्येत धर्मेण_अर्थं विनिर्णयेत् ॥
१.४५
शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् ।
१.४५
न्यायस् तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति ॥
१.४६
दृष्ट.दोषः स्वयं.वादः स्व.पक्ष.पर.पक्षयोः ।
१.४६
अनुयोग.आर्जवं हेतुः शपथश् च_अर्थ.साधकः ॥
१.४७
पूर्व.उत्तर.अर्थ.व्याघाते साक्षि.वक्तव्य.कारणे ।
१.४७
चार.हस्ताच् च निष्पाते प्रदेष्टव्यः पराजयः ॥