संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग १ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग १ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १ Translation - भाषांतर १.०१धर्मस्थास् त्रयस् त्रयो_अमात्या जन.पद.संधि.संग्रहण.द्रोण.मुख.स्थानीयेषु व्यावहारिकान् अर्थान् कुर्युः ॥१.०२तिरोहित.अन्तर्.अगार.नक्त.अरण्य.उपध्य्.उपह्वर.कृतांश् च व्यवहारान् प्रतिषेधयेयुः ॥१.०३कर्तुः कारयितुः पूर्वः साहस.दण्डः ॥१.०४श्रोतृऋणाम् एक.एकं प्रत्यर्ध.दण्डाः ॥१.०५श्रद्धेयानां तु द्रव्य.व्यपनयः ॥१.०६परोक्षेण_अधिक.ऋण.ग्रहणम् अवक्तव्य.करा वा तिरोहिताः सिध्येयुः ॥१.०७दाय.निक्षेप.उपनिधि.विवाह.युक्ताः स्त्रीणाम् अनिष्कासिनीनां व्याधितानां च_अमूढ.संज्ञानाम् अन्तर्.अगार.कृताः सिध्येयुः ॥१.०८साहस.अनुप्रवेश.कलह.विवाह.राज.नियोग.युक्ताः पूर्व.रात्र.व्यवहारिणां च रात्रि.कृताः सिध्येयुः ॥१.०९सार्थ.व्रज.आश्रम.व्याध.चारण.मध्येष्व् अरण्य.चराणाम् अरण्य.कृताः सिध्येयुः ॥१.१०गूढ.आजीविषु च_उपधि.कृताः सिध्येयुः ॥१.११मिथः.समवाये च_उपह्वर.कृताः सिध्येयुः ॥१.१२अतो_अन्यथा न सिध्येयुः, अपाश्रयवद्भिश् च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, कनिष्ठेन_अविभक्त.अंशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दास.आहितकाभ्याम्, अप्राप्त.अतीत.व्यवहाराभ्याम्, अभिशस्त.प्रव्रजित.न्यङ्ग.व्यसनिभिश् च, अन्यत्र निषृष्ट.व्यवहारेभ्यः ॥१.१३तत्र_अपि क्रुद्धेन_आर्तेन मत्तेन.उन्मत्तेन_अवगृहीतेन वा कृता व्यवहारा न सिध्येयुः ॥१.१४कर्तृ.कारयितृ.श्रोतृऋणां पृथग् यथा.उक्ता दण्डाः ॥१.१५स्वे स्वे तु वर्गे देशे काले च स्व.करण.कृताः सम्पूर्ण.आचाराः शुद्ध.देशा दृष्ट.रूप.लक्षण.प्रमाण.गुणाः सर्व.व्यवहाराः सिध्येयुः ॥१.१६पश्चिमं च_एषां करणम् आदेश.आधिवर्जं श्रद्धेयम् ॥ इति व्यवहार.स्थापना ।१.१७संवत्सरम् ऋतुं मासं पक्षं दिवसं करणम् अधिकरणम् ऋणं वेदक.आवेदकयोः कृत.समर्थ.अवस्थयोर् देश.ग्राम.जाति.गोत्र.नाम.कर्माणि च_अभिलिख्य वादि.प्रतिवादि.प्रश्नान् अर्थ.आनुपूर्व्या निवेशयेत् ॥१.१८निविष्टांश् च_अवेक्षेत ॥१.१९निबद्धं वादम् उत्सृज्य_अन्यं वादं संक्रामति, पूर्व.उक्तं पश्चिमेन_अर्थेन न_अभिसंधत्ते, पर.वाक्यम् अनभिग्राह्यम् अभिग्राह्य_अवतिष्ठते, प्रतिज्ञाय देशं निर्दिश_इत्य् उक्ते न निर्दिशति, हीन.देशम् अदेशं वा निर्दिशति, निर्दिष्टाद् देशाद् अन्यं देशम् उपस्थापयति, उपस्थिते देशे_अर्थ.वचनं न_एवम् इत्य् अपव्ययते, साक्षिभिर् अवधृतं न_इच्छति, असम्भाष्ये देशे साक्षिभिर् मिथः सम्भाषते, इति परा.उक्त.हेतवः ॥१.२०परा.उक्त.दण्डः पञ्च.बन्धः ॥१.२१स्वयं.वादि.दण्डो दश.बन्धः ॥१.२२पुरुष.भृतिर् अष्ट.अंशः ॥१.२३पथि.भक्तम् अर्घ.विशेषतः ॥१.२४तद् उभयं नियम्यो दद्यात् ॥१.२५अभियुक्तो न प्रत्यभियुञ्जीत, अन्यत्र कलह.साहस.सार्थ.समवायेभ्यः ॥१.२६न च_अभियुक्ते_अभियोगे_अस्ति ॥१.२७अभियोक्ता चेत् प्रत्युक्तस् तद्.अहर् एव न प्रतिब्रूयात् परा.उक्तः स्यात् ॥१.२८कृत.कार्य.विनिश्चयो ह्य् अभियोक्ता न_अभियुक्तः ॥१.२९तस्य_अप्रतिब्रुवतस् त्रि.रात्रं सप्त.रात्रम् इति ॥१.३०अत ऊर्ध्वं त्रि.पण.अवर.अर्ध्यं द्वादश.पण.परं दण्डं कुर्यात् ॥१.३१त्रि.पक्षाद् ऊर्ध्वम् अप्रतिब्रुवतः परा.उक्त.दण्डं कृत्वा यान्य् अस्य द्रव्याणि स्युस् ततो_अभियोक्तारं प्रतिपादयेद्, अन्यत्र वृत्त्य्.उपकरणेभ्यः ॥१.३२तद् एव निष्पततो_अभियुक्तस्य कुर्यात् ॥१.३३अभियोक्तुर् निष्पात.सम.कालः परा.उक्त.भावः ॥१.३४प्रेतस्य व्यसनिनो वा साक्षि.वचनम् असारम् ॥१.३५अभियोक्ता दण्डं दत्त्वा कर्म कारयेत् ॥१.३६आधिं वा स कामं प्रवेशयेत् ॥१.३७रक्षोघ्न.रक्षितं वा कर्मणा प्रतिपादयेद्, अन्यत्र ब्राह्मणात् ॥१.३८चतुर्.वर्ण.आश्रमस्य_अयं लोकस्य_आचार.रक्षणात् ।१.३८नश्यतां सर्व.धर्माणां राजा धर्म.प्रवर्तकः ॥१.३९धर्मश् च व्यवहारश् च चरित्रं राज.शासनम् ।१.३९विवाद.अर्थश् चतुष्पादः पश्चिमः पूर्व.बाधकः ॥१.४०तत्र सत्ये स्थितो धर्मो व्यवहारस् तु साक्षिषु ।१.४०चरित्रं संग्रहे पुंसां राज्ञाम् आज्ञा तु शासनम् ॥१.४१राज्ञः स्व.धर्मः स्वर्गाय प्रजा धर्मेण रक्षितुः ।१.४१अरक्षितुर् वा क्षेप्तुर् वा मिथ्या.दण्डम् अतो_अन्यथा ॥१.४२दण्डो हि केवलो लोकं परं च_इमं च रक्षति ।१.४२राज्ञा पुत्रे च शत्रौ च यथा.दोषं समं धृतः ॥१.४३अनुशासद्द् हि धर्मेण व्यवहारेण संस्थया ।१.४३न्यायेन च चतुर्थेन चतुर्.अन्तां वा महीं जयेत् ॥१.४४संस्था या धर्म.शास्त्रेण शास्त्रं वा व्यावहारिकम् ।१.४४यस्मिन्न् अर्थे विरुध्येत धर्मेण_अर्थं विनिर्णयेत् ॥१.४५शास्त्रं विप्रतिपद्येत धर्मे न्यायेन केनचित् ।१.४५न्यायस् तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति ॥१.४६दृष्ट.दोषः स्वयं.वादः स्व.पक्ष.पर.पक्षयोः ।१.४६अनुयोग.आर्जवं हेतुः शपथश् च_अर्थ.साधकः ॥१.४७पूर्व.उत्तर.अर्थ.व्याघाते साक्षि.वक्तव्य.कारणे ।१.४७चार.हस्ताच् च निष्पाते प्रदेष्टव्यः पराजयः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP