संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग १० अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग १० कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग १० Translation - भाषांतर १०.०१कर्म.उदक.मार्गम् उचितं रुन्धतः कुर्वतो_अनुचितं वा पूर्वः साहस.दण्डः, सेतु.कूप.पुण्य.स्थान.चैत्य.देव.आयतनानि च पर.भूमौ निवेशयतः ॥१०.०२पूर्व.अनुवृत्तं धर्म.सेतुम् आधानं विक्रयं वा नयतो नाययतो वा मध्यमः साहस.दण्डः, श्रोतृऋणाम् उत्तमः, अन्यत्र भग्न.उत्सृष्टात् ॥१०.०३स्वाम्य् अभावे ग्रामाः पुण्य.शीला वा प्रतिकुर्युः ॥१०.०४पथि.प्रमाणं दुर्ग.निवेशे व्याख्यातम् ॥१०.०५क्षुद्र.पशु.मनुष्य.पथं रुन्धतो द्वादश.पणो दण्डः, महा.पशु.पथं चतुर्.विंशति.पणः, हस्ति.क्षेत्र.पथं चतुष्.पञ्चाशत्.पणः, सेतु.वन.पथं षट्.शतः, श्मशान.ग्राम.पथं द्विशतः, द्रोण.मुख.पथं पञ्च.शतः, स्थानीय.राष्ट्र.विवीत.पथं साहस्रः ॥१०.०६अतिकर्षणे च_एषां दण्ड.चतुर्था दण्डाः ॥१०.०७कर्षणे पूर्व.उक्ताः ॥१०.०८क्षेत्रिकस्य_अक्षिपतः क्षेत्रम् उपवासस्य वा त्यजतो बीज.काले द्वादश.पणो दण्डः, अन्यत्र दोष.उपनिपात.अविषह्येभ्यः ॥१०.०९करदाः करदेष्व् आधानं विक्रयं वा कुर्युः, ब्रह्म.देयिका ब्रह्म.देयिकेषु ॥१०.१०अन्यथा पूर्वः साहस.दण्डः ॥१०.११करदस्य वा_अकरद.ग्रामं प्रविशतः ॥१०.१२करदं तु प्रविशतः सर्व.द्रव्येषु प्राकाम्यं स्यात्, अन्यत्र_अगारात् ॥१०.१३तद् अप्य् अस्मै दद्यात् ॥१०.१४अनादेयम् अकृषतो_अन्यः पञ्च.वर्षाण्य् उपभुज्य प्रयास.निष्क्रयेण दद्यात् ॥१०.१५अकरदाः परत्र वसन्तो भोगम् उपजीवेयुः ॥१०.१६ग्राम.अर्थेन ग्रामिकं व्रजन्तम् उपवासाः पर्यायेण_अनुगच्छेयुः ॥१०.१७अननुगच्छन्तः पण.अर्ध.पणिकं योजनं दद्युः ॥१०.१८ग्रामिकस्य ग्रामाद् अस्तेन.पारदारिकं निरस्यतश् चतुर्.विंशति.पणो दण्डः, ग्रामस्य_उत्तमः ॥१०.१९निरस्तस्य प्रवेशो ह्य् अभिगमेन व्याख्यातः ॥१०.२०स्तम्भैः समन्ततो ग्रामाद् धनुः.शत.अपकृष्टम् उपसालं कारयेत् ॥१०.२१पशु.प्रचार.अर्थं विवीतम् आलवनेन_उपजीवेयुः ॥१०.२२विवीतं भक्षयित्वा_अपसृतानाम् उष्ट्र.महिषाणां पादिकं रूपं गृह्णीयुः, गव.अश्व.खराणां च_अर्ध.पादिकम्, क्षुद्र.पशूनां षोडश.भागिकम् ॥१०.२३भक्षयित्वा निषण्णानाम् एत एव द्वि.गुणा दण्डाः, परिवसतां चतुर्.गुणाः ॥१०.२४ग्राम.देव.वृषा वा_अनिर्दश.अहा वा धेनुर् उक्षाणो गो.वृषाश् च_अदण्ड्याः ॥१०.२५सस्य.भक्षणे सस्य.उपघातं निष्पत्तितः परिसंख्याय द्वि.गुणं दापयेत् ॥१०.२६स्वामिनश् च_अनिवेद्य चारयतो द्वादश.पणो दण्दः, प्रमुञ्चतश् चतुर्.विंशति.पणः ॥१०.२७पालिनाम् अर्ध.दण्डाः ॥१०.२८तद् एव षण्ड.भक्षणे कुर्यात् ॥१०.२९वाट.भेदे द्वि.गुणः वेश्म.खल.वलय.गतानां च धान्यानां भक्षणे ॥१०.३०हिंसा.प्रतीकारं कुर्यात् ॥१०.३१अभय.वन.मृगाः परिगृहीता वा भक्षयन्तः स्वामिनो निवेद्य यथा_अवध्यास् तथा प्रतिषेद्धव्याः ॥१०.३२पशवो रश्मि.प्रतोदाभ्यां वारयितव्याः ॥१०.३३तेषाम् अन्यथा हिंसायां दण्ड.पारुष्य.दण्डाः ॥१०.३४प्रार्थयमाना दृष्ट.अपराधा वा सर्व.उपायैर् नियन्तव्याः ॥ इति क्षेत्र.पथ.हिंसा ।१०.३५कर्षकस्य ग्रामम् अभ्युपेत्य_अकुर्वतो ग्राम एव_अत्ययं हरेत् ॥१०.३६कर्म.अकरणे कर्म.वेतन.द्वि.गुणम्, हिरण्य.अदाने प्रत्यंश.द्वि.गुणम्, भक्ष्य.पेय.अदाने च प्रहवणेषु द्वि.गुणम् अंशं दद्यात् ॥१०.३७प्रेक्षायाम् अनंशदः, स-स्व.जनो न प्रेक्षेत ॥१०.३८प्रच्छन्न.श्रवण.ईक्षणे च सर्व.हिते च कर्मणि निग्रहेण द्वि.गुणम् अंशं दद्यात् ॥१०.३९सर्व.हितम् एकस्य ब्रुवतः कुर्युर् आज्ञाम् ॥१०.४०अकरणे द्वादश.पणो दण्डः ॥१०.४१तं चेत् सम्भूय वा हन्युः पृथग् एषाम् अपराध.द्वि.गुणो दण्डः ॥१०.४२उपहन्तृषु विशिष्टः ॥१०.४३ब्राह्मणश् च_एषां ज्यैष्ठ्यं नियम्येत ॥१०.४४प्रहवणेषु च_एषां ब्राह्मणा न_अकामाः कुर्युः, अंशं च लभेरन् ॥१०.४५तेन देश.जाति.कुल.संघानां समयस्य_अनपाकर्म व्याख्यातम् ॥१०.४६राजा देश.हितान् सेतून् कुर्वतां पथि संक्रमान् ।१०.४६ग्राम.शोभाश् च रक्षाश् च तेषां प्रिय.हितं चरेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP