अर्थशास्त्रम् अध्याय ०३ - भाग १३
कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे.
१३.०१
उदर.दास.वर्जम् आर्य.प्राणम् अप्राप्त.व्यवहारं शूद्रं विक्रय.आधानं नयतः स्व.जनस्य द्वादश.पणो दण्डः, वैश्यं द्वि.गुणः, क्षत्रियं त्रि.गुणः, ब्राह्मणं चतुर्.गुणः ॥
१३.०२
पर.जनस्य पूर्व.मध्यम.उत्तम.वधा दण्डाः, क्रेतृ.श्रोतृऋणां च ॥
१३.०३
म्लेच्छानाम् अदोषः प्रजां विक्रेतुम् आधातुं वा ॥
१३.०४
न त्व् एव_आर्यस्य दास.भावः ॥
१३.०५
अथवा_आर्यम् आधाय कुल.बन्धन आर्याणाम् आपदि, निष्क्रयं च_अधिगम्य बालं साहाय्य.दातारं वा पूर्वं निष्क्रीणीरन् ॥
१३.०६
सकृद्.आत्म.आधाता निष्पतितः सीदेत्, द्विर् अन्येन_आहितकः, सकृद् उभौ पर.विषय.अभिमुखौ ॥
१३.०७
वित्त.अपहारिणो वा दासस्य_आर्य.भावम् अपहरतो_अर्ध.दण्डः ॥
१३.०८
निष्पतित.प्रेत.व्यसनिनाम् आधाता मूल्यं भजेत ॥
१३.०९
प्रेत.विण्.मूत्र.उच्छिष्ट.ग्राहणम् आहितस्य नग्न.स्नापनं दण्ड.प्रेषणम् अतिक्रमणं च स्त्रीणां मूल्य.नाश.करं, धात्री.परिचारिक.अर्ध.सीतिक.उपचारिकाणां च मोक्ष.करम् ॥
१३.१०
सिद्धम् उपचारकस्य_अभिप्रजातस्य_अपक्रमणम् ॥
१३.११
धात्रीम् आहितिकां वा_अकामां स्व.वशां गच्छतः पूर्वः साहस.दण्डः, पर.वशां मध्यमः ॥
१३.१२
कन्याम् आहितिकां वा स्वयम् अन्येन वा दुषयतो मूल्य.नाशः शुल्कं तद्.द्वु.गुणश् च दण्डः ॥
१३.१३
आत्म.विक्रयिणः प्रजाम् आर्यां विद्यात् ॥
१३.१४
आत्म.अधिगतं स्वामि.कर्म.अविरुद्धं लभेत, पित्र्यं च दायम् ॥
१३.१५
मूल्येन च_आर्यत्वं गच्छेत् ॥
१३.१६
तेन_उदर.दास.आहितकौ व्याख्यातौ ॥
१३.१७
प्रक्षेप.अनुरूपश् च_अस्य निष्क्रयः ॥
१३.१८
दण्ड.प्रणीतः कर्मणा दण्डम् उपनयेत् ॥
१३.१९
आर्य.प्राणो ध्वज.आहृतः कर्म.काल.अनुरूपेण मूल्य.अर्धेन वा विमुच्येत ॥
१३.२०
गृहे.जात.दाय.आगत.लब्ध.क्रीतानाम् अन्यतमं दासम् ऊन.अष्ट.वर्षं विबन्धुम् अकामं नीचे कर्मणि विदेशे दासीं वा सगर्भाम् अप्रतिविहित.गर्भ.भर्मण्यां विक्रय.आधानं नयतः पूर्वः साहस.दण्डः, क्रेतृ.श्रोतृऋणां च ॥
१३.२१
दासम् अनुरूपेण निष्क्रयेण_आर्यम् अकुर्वतो द्वादश.पणो दण्डः, संरोधश् च_आ.करणात् ॥
१३.२२
दास.द्रव्यस्य ज्ञातयो दायादाः, तेषाम् अभावे स्वामी ॥
१३.२३
स्वामिनः स्वस्यां दास्यां जातं समातृकम् अदासं विद्यात् ॥
१३.२४
गृह्या चेत् कुटुम्ब.अर्थ.चिन्तनी माता भ्राता भगिनी च_अस्या अदासाः स्युः ॥
१३.२५
दासं दासीं वा निष्क्रीय पुनर् विक्रय.आधानं नयतो द्वादश.पणो दण्डः, अन्यत्र स्वयं.वादिभ्यः ॥ इति दास.कल्पः ।
१३.२६
कर्म.करस्य कर्म.सम्बन्धम् आसन्ना विद्युः ॥
१३.२७
यथा.सम्भाषितं वेतनं लभेत, कर्म.काल.अनुरूपम् असम्भाषित.वेतनः ॥
१३.२८
कर्षकः सस्यानां गो.पालकः सर्पिषां वैदेहकः पण्यानाम् आत्मना व्यवहृतानां दश.भागम् असम्भाषित.वेतनो लभेत ॥
१३.२९
सम्भाषित.वेतनस् तु यथा.सम्भाषितम् ॥
१३.३०
कारु.शिल्पि.कुशीलव.चिकित्सक.वाग्.जीवन.परिचारक.आदिर् आशा.कारिक.वर्गस् तु यथा_अन्यस् तद्.विधः कुर्याद् यथा वा कुशलाः कल्पयेयुस् तथा वेतनं लभेत ॥
१३.३१
साक्षि.प्रत्ययम् एव स्यात् ॥
१३.३२
साक्षिणाम् अभावे यतः कर्म ततो_अनुयुञ्जीत ॥
१३.३३
वेतन.आदाने दश.बन्धो दण्डः, षट्.पणो वा ॥
१३.३४
अपव्ययमाने द्वादश.पणो दण्डः, पञ्च.बन्धो वा ॥
१३.३५
नदी.वेग.ज्वाला.स्तेन.व्याल.उपरुद्धः सर्व.स्व.पुत्र.दार.आत्म.दानेन_आर्तस् त्रातारम् आहूय निष्तीर्णः कुशल.प्रदिष्टं वेतनं दद्यात् ॥
१३.३६
तेन सर्वत्र_आर्त.दान.अनुशया व्याख्याताः ॥
१३.३७
लभेत पुंश्चली भोगं संगमस्य_उपलिङ्गनात् ।
१३.३७
अतियाच्ना तु जीयेत दौर्मत्य.अविनयेन वा ॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP