संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग ७ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग ७ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ७ Translation - भाषांतर ७.०१"पर.परिग्रहे बीजम् उत्सृष्टं क्षेत्रिणः" इत्य् आचार्याः ॥७.०२"माता भस्त्रा, यस्य रेतस् तस्य_अपत्यम्" इत्य् अपरे ॥७.०३विद्यमानम् उभयम् इति कौटिल्यः ॥७.०४स्वयं.जातः कृत.क्रियायाम् औरसः ॥७.०५तेन तुल्यः पुत्रिका.पुत्रः ॥७.०६सगोत्रेण_अन्य.गोत्रेण वा नियुक्तेन क्षेत्र.जातः क्षेत्रजः पुत्रः ॥७.०७जनयितुर् असत्य् अन्यस्मिन् पुत्रे स एव द्वि.पितृको द्वि.गोत्रो वा द्वयोर् अपि स्वधा.रिक्थ.भाग् भवति ॥७.०८तत्.सधर्मा बन्धूनां गृहे गूढ.जातस् तु गूढजः ॥७.०९बन्धुना_उत्सृष्टो_अपविद्धः संस्कर्तुः पुत्रः ॥७.१०कन्या.गर्भः कानीनः ॥७.११सगर्भ.ऊढायाः सह.ऊढः ॥७.१२पुनर्.भूतायाः पौनर्भवः ॥७.१३स्वयं.जातः पितुर् बन्धूनां च दायादः ॥७.१४पर.जातः संस्कर्तुर् एव न बन्धूनाम् ॥७.१५तत्.सधर्मा माता.पितृभ्याम् अद्भिर् मुक्तो दत्तः ॥७.१६स्वयं बन्धुभिर् वा पुत्र.भाव.उपगत उपगतः ॥७.१७पुत्रत्वे_अधिकृतः कृतकः ॥७.१८परिक्रीतः क्रीतः ॥ इति ।७.१९औरसे तु_उत्पन्ने सवर्णास् तृतीय.अंश.हराः, असवर्णा ग्रास.आच्छादन.भागिनः ॥७.२०ब्राह्मण.क्षत्रिययोर् अनन्तरा.पुत्राः सवर्णाः, एक.अन्तरा असवर्णाः ॥७.२१ब्राह्मणस्य वैश्यायाम् अम्बष्ठः, शूद्रायां निषादः पारशवो वा ॥७.२२क्षत्रियस्य शूद्रायाम् उग्रः ॥७.२३शूद्र एव वैश्यस्य ॥७.२४सवर्णासु च_एषाम् अचरित.व्रतेभ्यो जाता व्रात्याः ॥७.२५इत्य् अनुलोमाः ॥७.२६शूद्राद् आयोगव.क्षत्त.चण्डालाः ॥७.२७वैश्यान् मागध.वैदेहकौ ॥७.२८क्षत्रियात् सूतः ॥७.२९पौराणिकस् त्व् अन्यः सूतो मागधश् च, ब्रह्म.क्षत्राद् विशेषः ॥७.३०त एते प्रतिलोमाः स्वधर्म.अतिक्रमाद् राज्ञः सम्भवन्ति ॥७.३१उग्रान् नैषाद्यां कुक्कुटः, विपर्यये पुल्कसः ॥७.३२वैदेहिकायाम् अम्बष्ठाद् वैणः, विपर्यये कुशीलवः ॥७.३३क्षत्तायाम् उग्रात्_श्व.पाकः ॥७.३४इत्य् एते_अन्ये च_अन्तरालाः ॥७.३५कर्मणा वैश्यो रथ.कारः ॥७.३६तेषां स्व.योनौ विवाहः, पूर्व.अपर.गामित्वं वृत्त.अनुवृत्तं च ॥७.३७शूद्र.सधर्माणो वा, अन्यत्र चण्डालेभ्यः ॥७.३८केवलम् एवं वर्तमानः स्वर्गम् आप्नोति राजा, नरकम् अन्यथा ॥७.३९सर्वेषाम् अन्तरालानां समो विभागः ॥७.४०देशस्य जात्याः संघस्य धर्मो ग्रामस्य वा_अपि यः ।७.४०उचितस् तस्य तेन_एव दाय.धर्मं प्रकल्पयेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP