संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग ५ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग ५ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ५ Translation - भाषांतर ५.०१अनीश्वराः पितृमन्तः स्थित.पितृ.मातृकाः पुत्राः ॥५.०२तेषाम् ऊर्ध्वं पितृतो दाय.विभागः पितृ.द्रव्याणाम् ॥५.०३स्वयं.आर्जितम् अविभाज्यम्, अन्यत्र पितृ.द्रव्याद् उत्थितेभ्यः ॥५.०४पितृ.द्रव्याद् अविभक्त.उपगतानां पुत्राः पौत्रा वा आ.चतुर्थाद् इत्य् अंश.भाजः ॥५.०५तावद् अविच्छिन्नः पिण्डो भवति ॥५.०६विच्छिन्न.पिण्डाः सर्वे समं विभजेरन् ॥५.०७अपितृ.द्रव्या विभक्त.पितृ.द्रव्या वा सह जीवन्तः पुनर् विभजेरन् ॥५.०८यतश् च_उत्तिष्ठेत स द्व्य्.अंशं लभेत ॥५.०९द्रव्यम् अपुत्रस्य सोदर्या भ्रातरः सह.जीविनो वा हरेयुः कन्याश् च ॥५.१०रिक्थं पुत्रवतः पुत्रा दुहितरो वा धर्मिष्ठेषु विवाहेषु जाताः ॥५.११तद्.अभावे पिता धरमाणः ॥५.१२पित्र्.अभावे भ्रातरो भ्रातृ.पुत्राश् च ॥५.१३अपितृका बहवो_अपि च भ्रातरो भ्रातृ.पुत्राश् च पितुर् एकम् अंशं हरेयुः ॥५.१४सोदर्याणाम् अनेक.पितृकाणां पितृतो दाय.विभागः ॥०३.५.१५पितृ.भ्रातृ.पुत्राणां पूर्वे विद्यमाने न_अपरम् अवलम्बन्ते, ज्येष्ठे च कनिष्ठम् अर्थ.ग्राहिणम् ॥५.१६जीवद्.विभागे पिता न_एकं विशेषयेत् ॥५.१७न च_एकम् अकारणान् निर्विभजेत ॥५.१८पितुर् असत्य् अर्थे ज्येष्ठाः कनिष्ठान् अनुगृह्णीयुः, अन्यत्र मिथ्या.वृत्तेभ्यः ॥५.१९प्राप्त.व्यवहाराणां विभागः ॥५.२०अप्राप्त.व्यवहाराणां देय.विशुद्धं मातृ.बन्धुषु ग्राम.वृद्धेषु वा स्थापयेयुः आ.व्यवहार.प्रापणात्, प्रोषितस्य वा ॥५.२१सम्निविष्ट.समम् असम्निविष्टेभ्यो नैवेशनिकं दद्युः, कन्याभ्यश् च प्रादानिकम् ॥५.२२ऋण.रिक्थयोः समो विभागः ॥५.२३"उद.पात्राण्य् अपि निष्किंचना विभजेरन्" इत्य् आचार्याः ॥५.२४छलम् एतद् इति कौटिल्यः ॥५.२५सतो_अर्थस्य विभागो न_असतः ॥५.२६एतावान् अर्थः सामान्यस् तस्य_एतावान् प्रत्य्.अंश इत्य् अनुभाष्य ब्रुवन् साक्षिषु विभागं कारयेत् ॥५.२७दुर्विभक्तम् अन्योन्य.अपहृतम् अन्तर्हितम् अविज्ञात.उत्पन्नं वा पुनर् विभजेरन् ॥५.२८अदायादकं राजा हरेत् स्त्री.वृत्ति.प्रेत.कार्य.वर्जम्, अन्यत्र श्रोत्रिय.द्रव्यात् ॥५.२९तत् त्रैवेद्येभ्यः प्रयच्छेत् ॥५.३०पतितः पतिताज् जातः क्लीबश् च_अनंशाः, जड.उन्मत्त.अन्ध.कुष्ठिनश् च ॥५.३१सति भार्य.अर्थे तेषाम् अपत्यम् अतद्.विधं भागं हरेत् ॥५.३२ग्रास.आच्छादनम् इतरे पतित.वर्जाः ॥५.३३तेषां च कृत.दाराणां लुप्ते प्रजनने सति ।५.३३सृजेयुर् बान्धवाः पुत्रांस् तेषाम् अंशान् प्रकल्पयेत् ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP