संस्कृत सूची|शास्त्रः|अर्थशास्त्रम्|अध्याय ३| भाग ९ अध्याय ३ भाग १ भाग २ भाग ३ भाग ४ भाग ५ भाग ६ भाग ७ भाग ८ भाग ९ भाग १० भाग ११ भाग १२ भाग १३ भाग १४ भाग १५ भाग १६ भाग १७ भाग १८ भाग १९ भाग २० अर्थशास्त्रम् अध्याय ०३ - भाग ९ कौटिल्य अर्थात् चाणक्य द्वारा रचित अर्थशास्त्र हा प्राचीन ग्रंथ आहे. Tags : chanakyaeconomicskautilyaअर्थशास्त्रकौटिल्यचाणक्यसंस्कृत भाग ९ Translation - भाषांतर ९.०१ज्ञाति.सामन्त.धनिकाः क्रमेण भूमि.परिग्रहान् क्रेतुम् अभ्याभवेयुः ॥९.०२ततो_अन्ये बाह्याः ॥९.०३सामन्त.चत्वारिंशत्.कुल्येषु गृह.प्रतिमुखे वेश्म श्रावयेयुः, सामन्त.ग्राम.वृद्धेषु क्षेत्रम् आरामं सेतु.बन्धं तटाकम् आधारं वा मर्यादासु यथा.सेतु.भोगं "अनेन_अर्घेण कः क्रेता" इति ॥९.०४त्रिर् आघुषितम् अव्याहतं क्रेता क्रेतुं लभेत ॥९.०५स्पर्धया वा मूल्य.वर्धने मूल्य.वृद्धिः स-शुल्का कोशं गच्छेत् ॥९.०६विक्रय.प्रतिक्रोष्टा शुल्कं दद्यात् ॥९.०७अस्वामि.प्रतिक्रोशे चतुर्.विंशति.पणो दण्डः ॥९.०८सप्त.रात्राद् ऊर्ध्वम् अनभिसरतः प्रतिक्रुष्टो विक्रीणीत ॥९.०९प्रतिक्रुष्ट.अतिक्रमे वास्तुनि द्विशतो दण्डः, अन्यत्र चतुर्.विंशति.पणो दण्डः ॥ इति वास्तु.विक्रयः ।९.१०सीम.विवादं ग्रामयोर् उभयोः सामन्ता पञ्च.ग्रामी दश.ग्रामी वा सेतुभिः स्थावरैः कृत्रिमैर् वा कुर्यात् ॥९.११कर्षक.गो.पालक.वृद्धाः पूर्व.भुक्तिका वा बाह्याः सेतूनाम् अभिज्ञा बहव एको वा निर्दिश्य सीम.सेतून् विपरीत.वेषाः सीमानं नयेयुः ॥९.१२उद्दिष्टानां सेतूनाम् अदर्शने सहस्रं दण्डः ।९.१३तद् एव नीते सीम.अपहारिणां सेतुच्.छिदां च कुर्यात् ॥९.१४प्रनष्ट.सेतु.भोगं वा सीमानं राजा यथा.उपकारं विभजेत् ॥ इति सीम.विवादः ।९.१५क्षेत्र.विवादं सामन्त.ग्राम.वृद्धाः कुर्युः ॥९.१६तेषां द्वैधी.भावे यतो बहवः शुचयो_अनुमता वा ततो नियच्छेयुः मध्यं वा गृह्णीयुः ॥९.१७तद्.उभय.परा.उक्तं वास्तु राजा हरेत्, प्रनष्ट.स्वामिकं च ॥९.१८यथा.उपकारं वा विभजेत् ॥९.१९प्रसह्य.आदाने वास्तुनि स्तेय.दण्डः ॥९.२०कारण.आदाने प्रयासम् आजीवं च परिसंख्याय बन्धं दद्यात् ॥ इति क्षेत्र.विवादः ।९.२१मर्यादा.अपहरणे पूर्वः साहस.दण्डः ॥९.२२मर्यादा.भेदे चतुर्.विंशति.पणः ॥९.२३तेन तपो.वन.विवीत.महा.पथ.श्मशान.देव.कुल.यजन.पुण्य.स्थान.विवादा व्याख्याताः ॥ इति मर्यादा.स्थापनम् ।९.२४सर्व एव विवादाः सामन्त.प्रत्ययाः ॥९.२५विवीत.स्थल.केदार.षण्ड.खल.वेश्म.वाहन.कोष्ठानां पूर्वं.पूर्वम् आबाधं सहेत ॥९.२६ब्रह्म.सोम.अरण्य.देव.यजन.पुण्य.स्थान.वर्जाः स्थल.प्रदेशाः ॥९.२७आधार.परिवाह.केदार.उपभोगैः पर.क्षेत्र.कृष्ट.बीज.हिंसायां यथा.उपघातं मूल्यं दद्युः ॥९.२८केदार.आराम.सेतु.बन्धानां परस्पर.हिंसायां हिंसा.द्वि.गुणो दण्डः ॥९.२९पश्चान्.निविष्टम् अधर.तटाकं न_उपरि.तटाकस्य केदारम् उदकेन_आप्लावयेत् ॥९.३०उपरि.निविष्टं न_अधर.तटाकस्य पूर.आस्रावं वारयेद्, अन्यत्र त्रि.वर्ष.उपरत.कर्मणः ॥९.३१तस्य_अतिक्रमे पूर्वः साहस.दण्डः, तटाक.वामनं च ॥९.३२पञ्च.वर्ष.उपरत.कर्मणः सेतु.बन्धस्य स्वाम्यं लुप्येत, अन्यत्र_आपद्भ्यः ॥९.३३तटाक.सेतु.बन्धानां नव.प्रवर्तने पाञ्चवर्षिकः परिहारः, भग्न.उत्सृष्टानां चातुर्वर्षिकः, समुपारूढानां त्रैवर्षिकः, स्थलस्य द्वैवर्षिकः ॥९.३४स्व.आत्म.आधाने विक्रये च ॥९.३५खात.प्रावृत्तिम् अनदी.निबन्ध.आयतन.तटाक.केदार.आराम.षण्ड.वापानां सस्य.वर्ण.भाग.उत्तरिकम् अन्येभ्यो वा यथा.उपकारं दद्युः ॥९.३६प्रक्रय.अवक्रय.अधिभाग.भोगनिषृष्ट.उपभोक्तारश् च_एषां प्रतिकुर्युः ॥९.३७अर्पतीकारे हीन.द्वि.गुणो दण्डः ॥९.३८सेतुभ्यो मुञ्चतस् तोयम् अवारे षट्.पणो दमः ।९.३८वारे वा तोयम् अन्येषां प्रमादेन_उपरुन्धतः ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP