बृहद्यात्रा - निवेश

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


स्निग्धा स्थिरा सुरभिगुल्मलता सुगन्धा शस्ता प्रदक्षिणजला च निवासभूमिः ।

नेष्टा विपर्ययगुणा कचशर्करास्थिवल्मीककण्टकविभीतकसङ्कुला च ॥

गत्वालयं सुरगुरुद्विजसाधुमित्रतीर्थेतिहासजयपुण्यकथासु तिष्ठेत् ।

हत्वा पशुं रिपुगृहाकृतम् उद्यमे च प्रास्याथ वान्नमयम् अस्य विधाय रूपम् ॥

एकत्राध्युषितस्यात्रिगौतमच्यवना जगुः ।

यात्रां त्रिपञ्चसप्ताहात् पुनर्भद्रेण योजयेत् ॥

तच् चायुक्तम् इति प्राहुर् होराशास्त्रविदो जनाः ।

वांछितार्थफलावाप्तौ यात्रा परिसमाप्यते ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP