बृहद्यात्रा - मुहूर्त

‘ गणित ज्योतिष' या विषयावरील वराहमिहीराने लिहीलेला हा ग्रंथ ज्योतिषप्रेमींसठी अत्यंत उपयोगी आहे


गरवणिजविष्टिपरिवर्जितानि करणानि यातुर् इष्टानि ।

गरम् अपि कैश् चिच् छस्तं वणिजं च वणिक्क्रियास्व् एव ।

शिवभुजगमित्रपितृवसुजलविश्वविरिञ्चिपङ्कजप्रभवाः ।

इन्द्राग्नीन्द्रनिशाचरवरुणार्यमयोनयश् चाह्नि ॥

रुद्राजाहिर्बुध्न्याः पूषा दस्रान्तकाग्निधातारः ।

इन्द्वदितिगुरुहरिरवित्वष्ट्रनिलाख्याः क्षणा रात्रौ ॥

अह्नः पञ्चदशांशो रात्रेश् चैवं मुहूर्त इति संज्ञा ॥

स च विज्ञेयस् तज्ज्ञैश् छायायन्त्राम्बुभिर् युक्त्या ॥

नक्षत्रवत् क्षणानं परिघादि तदीश्वरैः समं चिन्त्यं ।

फलम् अपि तद् एव दृष्टं गर्गाद्यैस् तत्र च श्लोकाः ॥

अहोरात्रं च सम्पूर्णं चन्द्रनक्षत्रयोजितम् ।

तन्नक्षत्रमुहूर्ताश् च समकर्मगुणाः स्मृताः ॥

अष्टमे ऽर्धदिवसे समे शुभो यो विरिञ्चविभुसंज्ञितः क्षणः ।

तेन यानम् अपहाय दक्षिणां सर्वदिक्ष्व् अभिजिता प्रशस्यते ॥

N/A

References : N/A
Last Updated : January 16, 2012

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP