पृष्ठतः पूजिता शान्ता शिवा मांसास्थिवर्जिता ।
क्रूरशब्दातिदीप्ता च क्रूरकर्मणि पूजिता ॥
पूर्वोदीच्योः शिवा शस्ता शान्ता सर्वत्र पूजिता ।
धूमिताभिमुखी हन्ति स्वरदीप्ता दिगीश्वरान् ॥
[राजा कुमारो नेता च दूतः श्रेष्ठी चरो द्विजः ।
गजाध्यक्षश् च पूर्वाद्याः क्षत्रियाद्याश् चतुर्दिशम् ॥ ]
सर्वदिक्ष्व् अशुभा दीप्ता विशेषेणाह्न्यशोभना ।
पुरे सैन्ये ऽपसव्या च कष्टा पूर्वोन्मुखा शिवा ॥
याहीत्य् अग्निभयं शास्ति टाटेति मृतिचोदिताओओत्नोते {ष् .ब् मृतवेदिका } ।
धिग्धिक् दुष्कृतम् आच Kषे सज्वाला देशनाशिनी ॥
नैव दारुणताम् एके स्वज्वालायाःओओत्नोते {ष् .ब् सज्वालायाः } प्रचक्षते ।
अर्काद्यनलवत् तस्या वक्त्राज् ज्वाला स्वभावतःओओत्नोते {ष् .द् वक्त्रं लालास्वभावतः } ॥
अन्यप्रतिरुता याम्या सा बन्दहवधशंसिनी ।ओओत्नोते {ष् .ब् सोद्बन्धमृतशंसिनी }
वारुण्याभिरुताओओत्नोते {ष् .च् अनुरुता } सैव संसते सलिले मृतिम् ॥
अक्षोभ्यश्रवणं चेष्टं धनप्राप्तिः प्रियागमः ।
क्षोभात् प्रधानभेदश् च वाहनानाम् असम्पदःओओत्नोते {ष् .द् च सम्पदः } ।
फलम् आ सप्तमाद् एतद् अग्राह्यं परतो रुते ।
याम्यायां तद्विपर्यस्तं फलं षट्पञ्चमाद् रुतेओओत्नोते {ष् .द् ऋते } ॥
या रोमांचं मनुष्याणां शकृन्मूत्रं च वाजिनाम् ।
रावात् त्रासं च जनयेत् सा शिवा न शिवप्रदा ॥
मौनं गता प्रतिरुते नरद्विरदवाजिभिः ।
या शिवा सा शिवं सैन्ये पुरे वा संप्रयच्छति ॥