कारणमिति द्रव्ये कार्यसमवायात् ॥१॥
संयोगाद्वा ॥२॥
कारणे समवायात् कर्माणि ॥३॥
तथा रूपे कारणैकार्थसमवायाच्च ॥४॥
कारणसमवायात् संयोगः पटस्य ॥५॥
कारणाकारणसमवायाच्च ॥६॥
संयुक्तसमवायादग्नेर्वैशेषिक -म् ॥७॥
दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो ऽभ्युदयाय ॥८॥
तद्वचनादाम्नायस्य प्रमाण्यमिति ॥९॥