दृष्टादृष्ट प्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय ॥१॥
अभिषेचनोपवास ब्रह्मचर्यगुरुकुलवासवानप्रस्थ यज्ञदान प्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय ॥२॥
चातुराश्रम्यमुपधा अनुपधाश्च ॥३॥
भावदोष उपधादोषो ऽनुपधा ॥४॥ यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितं च तच्छुचि ॥५॥
अशुचीति शुचिप्रतिषेधः ॥६॥
अर्थान्तरं च ॥७॥
अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद् विद्यते वार्ऽथान्तरत्वाद् यमस्य ॥८॥
असति चाभावात् ॥९॥
सुखाद्रागः ॥१०॥
तन्मयत्वाच्च ॥११॥
अदृष्टाच्च ॥१२॥
जातिविशेषाच्च ॥१३॥
इच्छाद्वेषपूर्विका धर्माधर्म प्रवृत्तिः ॥१४॥
तत्संयोगो विभागः ॥१५॥
आत्मकर्मसु मोक्षो व्याख्यातः ॥१६॥