नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म ॥१॥
तद्विशेषेणादृष्टकारितम् ॥२॥
अपां संयोगाभावे गुरुत्वात् पतनम् ॥३॥
द्रवत्वात् स्यन्दनम् ॥४॥
नाड्या वायुसंयोगादारोहणम् ॥५॥
नोदनापीडनात् संयुक्तसंयोगाच्च ॥६॥
वृक्षाभिसर्पणमित्यदृष्टकारितम् ॥७॥
अपां सङ्घातो विलयनं च तेजः संयोगात् ॥८॥
तत्र विस्फूर्जतुर्लिङ्गम् ॥९॥
वैदिकं च ॥१०॥
अपां संयोगाद्विभागाच्च स्तनयित्नोः ॥११॥
पृथिवीकर्मणा तेजः कर्म वायुकर्म च व्याख्यातम् ॥१२॥
अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनं अणूनां मनसश्चाद्यं कर्मादृष्टकारितम् ॥१३॥
हस्तकर्मणा मनसः कर्म व्याख्यातम् ॥१४॥
आत्मेन्द्रियमनोर्ऽथसन्निकर्षात् सुख दुःखे ॥१५॥
तदनारम्भ आत्मस्थे मनसि शरीरस्य दुःखाभावः संयोगः ॥१६॥
अपसर्पणमुपसर्पणमशित पीतसंयोगाः कार्यान्तर संयोगाश्चेत्यदृष्टकारितानि ॥१७॥
तदभावे संयोगाभावो ऽप्रादुर्भावश्च मोक्षः ॥१८॥
द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तमः ॥१९॥
तेजसो द्रव्यान्तरेणावरणाच्च ॥२०॥
दिक्कालावाकाशं च क्रियावद्वैधर्म्यान्निष्क्रियाणि ॥२१॥
एतेन कर्माणि गुणाश्च व्याख्याताः ॥२२॥
निष्क्रियाणां समवायः कर्मभ्यो निषिद्धः ॥२३॥
कारणं त्वसमवायिनो गुणाः ॥२४॥
गुणैर्दिक् व्याख्याता ॥२५॥
कारणेन कालः ॥२६॥