आत्मेन्द्रियार्थसन्निकर्षज्ञानस्य भावो ऽभावश्च मनसो लिङ्गम् ॥१॥
तस्य द्रव्यत्व नित्यत्वे वायुना व्याख्याते ॥२॥
प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् ॥३॥
प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तर विकाराः सुखदुःखेच्छाद्वेष प्रयत्नाश्चात्मनो लिङ्गानि ॥४॥
तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते ॥५॥
यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते ॥६॥
सामान्यतो दृष्टाच्चाविशेषः ॥७॥
तस्मादागमिकः ॥८॥
अहमिति शब्दस्य व्यतिरेकान्नागमिकम् ॥९॥
यदि दृष्टमन्वक्षमहं देवदत्तो ऽहं यज्ञदत्त इति ॥१०॥
दृष्ट्यात्मनि लिङ्गे एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः ॥११॥
देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्ययः ॥१२॥
सन्दिग्धास्तूपचाराः ॥१३॥
अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तर प्रत्यक्षः ॥१४॥
देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षो ऽहङ्कारः ॥१५॥
सन्दिग्धस्तूपचारः ॥१६॥
न तु शरीरविशेषाद्यज्ञदत्त विष्णुमित्रयोर्ज्ञानविषयः ॥१७॥
अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरेकाव्यभिचाराद्विशेष सिद्धेर्नागमिकः ॥१८॥
सुखदुःख ज्ञाननिष्पत्त्यविशेषादैकात्म्यम् ॥१९॥
व्यवस्थातो नाना ॥२०॥
शास्त्रसामर्थ्याच्च ॥२१॥