इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोर्थान्तरभावः ॥१॥
संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः ॥२॥
तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् ॥३॥
अभूदित्यपि ॥४॥
सति च कार्यादर्शनात् ॥५॥
एकार्थसमवायि कारणान्तरेषु दृष्टत्वात् ॥६॥
एकदेशे इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषेभ्यः ॥७॥