संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीय परिच्छेद : पूर्वार्ध ५|
गृहेलिङ्गपूजनः

धर्मसिंधु - गृहेलिङ्गपूजनः

हिंदूंचे ऐहिक, धार्मिक, नैतिक अशा विषयात नियंत्रण करावे आणि त्यांना इह-परलोकी सुखाची प्राप्ती व्हावी ह्याच अत्यंत उदात्त हेतूने प्रेरित होउन श्री. काशीनाथशास्त्री उपाध्याय यांनी ’धर्मसिंधु’ हा ग्रंथ रचला आहे.

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


गृहेलिङ्गद्वयंनार्च्यशालग्रामद्वयंतथा । द्वेचक्रेद्वारकायास्तुनार्च्येसूर्यद्वयंतथा १ शक्तित्रयंत्रिविघ्नेशंद्वौशङ्खौनार्चयेत्सुधीः ।

अन्यत्रतु चक्राङ्कमिथुनंपूज्यंनैकंचक्राङ्कमर्चयेत् । इत्युक्तंतेनविकल्पः नार्चयेच्चतथामत्स्यकूर्मादिदशकंगृहे ।

अग्निदग्धाश्चभग्नाश्चन पूज्याःप्रतिमागृहे १ भग्नावास्फुटितावापिशालग्रामशिलाशुभा ।

शालग्रामाःसमाःपूज्याःसमेषुद्वितयंनहि २ विषमानैवपूज्यन्तेविषमेष्वेकएवहि ।

ससुवर्णशालग्रामदानेपृथ्वीदानफलम् शतशालग्रामपूजनेऽनन्तफलम्

अविभक्तानामपिभ्रातृणांदेवतार्चनमग्निहोत्रंसंध्याब्रह्मयज्ञश्चपृथगेव

स्त्रीशूद्रोवास्पर्शसहितंशालग्रामचक्राङ्कितबाणलिङ्गानिनार्चयेत् शूद्रोवाऽनुपनीतोवासधवाविधवाङ्गना ।

दूरादेवास्पृशानपूजांप्रकुर्याच्छिवकृष्णयोः १ शालग्रामबाणयोरेवस्पर्शननिषेधोनतुप्रतिमादौ

सर्ववर्णैस्तुसंपूज्याःप्रतिमाःसर्वदेवताः । लिङ्गान्यपितुप्ज्यानिमणिभिःकल्पितानिच २

इत्युक्तेःशालग्रामशिलाक्रीतामध्यमायाचिताऽधमा । उक्तलक्षणसंपन्नापारंपर्यक्रमागता १

उत्तमासातुविज्ञेयागुरुदत्तातुत्समा । तत्राप्यामलकीतुल्यापूज्यासूक्ष्मैवयाभवेत २ यथायथाशिलासूक्ष्मातथास्यात्तुमहत्फलम् ।

यवमात्रंतुगर्तःस्याद्यवार्धलिङ्गमुच्यते ३ शिवनाभिरितिख्यातस्त्रीषुलोकेषुदुर्लभः ।

शालग्रामशिलायास्तुप्रतिष्ठानैवविद्यते ४ महापूजांतुकृत्वादौपूजयेत्तांततोबुधः ।

बाणलिङ्गानिराजेन्द्रख्यातानिभुवन्त्रये ५ नप्रतिष्ठानसंस्कारस्तेषामावाहनंतथा ।

वासुदेवसंकर्षणप्रद्युम्नानिरुद्धविप्राद्यैःक्रमेणपूज्याः तल्लक्षणंतु पञ्चचक्रोवासुदेवः

षड्‌भिश्चक्रैः प्रद्युम्नः सप्तभिःसंकर्षणः एकादशभिरनिरुद्ध इति प्रणवोच्चारणाच्चैवशालग्रामशिलार्चनात् ।

ब्राह्मणीगमनाच्चैवशूद्रश्चाण्डालतांव्रजेत् १ दीक्षायुक्तैस्तथाशूद्रैर्मद्यपानविवर्जितैः ।

कर्तव्यंब्राह्मणद्वाराशालग्रामशिलार्चनम् २ विष्णुप्रीतिकरंनित्यंतुलसीकाष्ठचन्दनम् ।

कार्तिकेकेतकीपुष्यंयेनदत्तंहरेःकलौ ३ दीपदानंचदेवर्षेतारितंतेनवैकुलम् ।

शालग्रामसंबन्धितोयवच्चक्राङ्क शिलातोयस्यापिपानविधानात्सापिशालग्रामसन्निधौपूज्या

अग्राह्यंशिवनिर्माल्यंपत्रंपुष्पंफलंजलम् । शालग्रामस्यसंस्पर्शात्सर्वयातिपवित्रताम् १

मध्यमानामिकामध्येपुष्पंसंगृह्यपूजयेत् । अङ्गुष्ठतर्जन्यग्राभ्यांनिर्माल्यमपनोदयेत् २

विनाभस्मत्रिपुण्ड्रेणविनारुद्राक्षमालया । पूजितोपिमहादेवोनस्यात्तस्यफलप्रदः ३

विनामन्त्रंनाबिभृयाद्रुद्राक्शानभुविमानवः । पञ्चामृतंपञ्चगव्यं स्नानकालेप्रयोजत ४

रुद्राक्षस्यप्रतिष्ठायां मन्त्रपञ्चाक्षरंतथा । त्र्यम्बकादिकमन्त्रंचतथातत्रप्रयोजयेत् ५

अष्टोत्तरशतं कुर्याच्चतुःपञ्चाशदेवतु । सप्तविंशतिमानावामालाहीनानयुज्यते ६

सप्तविंशतिरुद्राक्षमालयादेहसंस्थया । यःकरोतिनरःपुण्यंसर्वकोटिगुणंभवेत् ॥

N/A

References : N/A
Last Updated : June 24, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP