तृतीयाः पाद: - सूत्र १६

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


चराचरव्यपाश्रयस्तु स्यात्तव्द्यपदेशो भाक्तस्तद्भावभावित्वात् ॥१६॥

चराचरव्यपाश्रयस्तु स्यात्तव्द्यपदेशो भाक्तस्तद्भावभावित्वा‍त् ।
स्तो जीवस्याप्युत्पत्तिप्रलयौ जातो देवदत्तो मृतो देवदत्त इत्येत्रंजात्टीयकाल्लौकिकव्यपदेशाज्जातकर्मादिसंस्कारविधानाच्चेति स्यात्कस्यचिद्भ्रानिस्तामपनुदाम: ।
न जीवस्योत्पत्तिप्रलयौ स्त: शास्त्रफलसंबन्धोपपत्ते: ।
शरीरानुविनाशिनि हि जीवे शरीरान्तरगतेष्टानिष्टप्राप्तिपरिहारार्थौ विधिप्रतिषेधावनर्थकौ स्याताम् ।
श्रूयते च जीवापेतं वाव किलेदं म्रियते न जीवो म्रियत इति ।
ननु लौकिको जन्ममरणव्यपदेशो जीवस्य दर्शित: ।
सत्यं दर्शित: ।
भाक्तस्त्वेष जीवस्य जन्ममरणव्यपदेश: ।
किमाश्रय: पुनरयं मुख्यो यदपेक्षया भाक्त इति ।
उच्यते । चराचरव्यपाश्रय: ।
स्थावरजङ्गमशरीरविषयौ जन्ममरणशद्बौ ।
स्थावरजङ्गमानि हि भूतानि जायन्ते च म्रियन्ते च ।
अतस्तद्विषयो जन्ममरणशब्दौ मुख्यौ सन्तौ तत्स्थे जीवात्मन्युपचर्येते ।
तद्वावभावित्वात् ।
शरीरप्रादुर्भावतिरोभावयोर्हि सतोर्जन्ममरणशब्दौ भवतो नासतो: ।
न हि शरीरसंबन्धादन्यत्र जीवो जातो मृतो वा केनचिल्लक्ष्यते ।
स वा अयं पुरुषो जायमान: शरीरमभिसंपद्यमान: स उत्क्रामन्म्रियमाण इति च शरीरसंयोगवियोगनिमित्तावेव जन्ममरणशद्बौ दर्शयति ।
जातकर्मादिवधानमपि देहप्रादुर्भावापेक्षमेव द्रष्टव्यम् ।
अभावाज्जीवप्रादुर्भावस्य ।
जीवस्य परस्मादात्मन उत्पत्तिर्वियदादीनामिवास्ति नास्ति वेत्येतदुत्तरेण सूत्रेण वक्ष्यति ।
देहाशयौ तावज्जीवस्य स्थूलावुत्पत्तिप्रलयौ न स्त इत्येतदनेन सूत्रेणावोचत् ॥१६॥

N/A

References : N/A
Last Updated : December 09, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP