तृतीयाः पाद: - सूत्र ३०

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ॥३०॥

स्यादेतद्यदि बुद्धिगुणसारत्वादात्मन: संसारित्वं कल्प्येत ततो बुद्धयात्मनोर्भिन्नयो: संयोगावसानमवश्यं भावीत्यतो बुद्धिवियोगे सत्यात्मनो विभक्तस्यानालक्ष्यत्वादसत्त्वमसंसारित्वं वा प्रसज्येतेति ।
अत उत्तरं पठति ।
यावदात्मभावित्वाच्च न दोषस्तद्दर्शनात् ।
नेयमनन्तरनिर्दिष्टादोषप्राप्तिराशङ्कनीया ।
कस्मात् । यावदात्मभावित्वाद्बुद्धिसंयोगस्य ।
यावदयमात्मा संसारी भवतियावदस्य सम्यग्दर्शनेन संसारित्वं न निवर्तते तावदस्य बुद्धया संयोगो न शाम्पति ।
यावदेव चायं बुध्युपाधिसंबन्धस्तावदेवास्य जीवस्य जीवत्वं संसारित्वं च ।
परमार्थतस्तु न जीवो नाम बुद्धयुपाधिपरिकल्पितस्वरूपव्यतिरेकेणास्ति ।
न हि नित्यमुक्तस्वरू पात्सर्वज्ञादीश्वरादन्यश्चेतनो धातुर्द्वितीयो वेदान्तार्थनिरूपणायामुपलभ्यते ।
नान्योऽतोऽस्ति द्रष्टा श्रोता मन्ता विज्ञाता नान्यदतोऽस्तिद्रष्ट्ट श्रोतृ मन्तृ विज्ञातृ तत्त्वमस्यहं ब्रम्हास्मीत्यादिश्रुतिशतेभ्य: ।
कथं पुनरवगम्यते यावदात्मभावी बुद्धिसंयोग इति ।
तद्दर्शनादित्याह ।
तथा हि शास्त्रं दर्शयति योऽयं विज्ञानमय: प्राणेषु ह्रद्यन्तर्ज्योति: पुरुष: स समान: सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतिवेत्यादि ।
तत्र विज्ञानमय इति बुद्धिमय इत्येतदुक्तं भवति ।
प्रदेशान्तरे विज्ञानमयो मनोमय: प्राणमयश्चक्षुर्मय: श्रोत्रमय इति विज्ञानमयस्य मन आदिभि: सह पाठात् ।
बुद्धिमयत्वं च तदनुणसरत्वमेवाभिप्रेयते ।
यथा लोके स्त्रीमयो देवदत्त इति स्त्रीरागादिप्रधानोऽभिधीयते तद्वत् ।
स समान: सन्नुभौ लोकावनुसंचरतीति च लोकान्तरगमनेऽप्यवियोगं बुद्धया दर्शयति केन समानस्तयैव बुद्धयेति गम्यते संनिधानात् ।
तच्च दर्शयति ध्यायतीव लेलायतीवेति ।
एतदुक्तं भवति ।
नायं स्वतो ध्यायति नापि चलति ध्यायन्त्यां बुद्धौ ध्यायतीव चलन्त्यां बुद्धौ चलतीवेति ।
अपि च मिथ्याज्ञानपुर: सरोऽयमात्मनो बुद्धयुपाधिसंबन्ध: ।
 न च मिथ्याज्ञानस्य सम्यग्ज्ञानादन्यत्र निवृत्तिरस्तीत्यतो यावदब्रम्हात्मतानवबोधस्तावदयं बुद्धयुपाधिसंबन्धो न शाम्यति ।
दर्शयति च वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमस: परस्तात् ।
तमेव विदित्वाऽतिमृत्यमेति नान्य: पन्था विद्यतेऽयनायेति ॥३०॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP