तृतीयाः पाद: - सूत्र २५

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


गुणाद्वा लोकवत् ॥२५॥

गुणाद्वा लोकवत् ।
चैतन्यगुणव्याप्तेर्वाऽणोरपि सतो जीवस्य सकलदेहव्यापि कार्यं न विरुध्यते ।
यथा लोके मणिप्रदीपद्रभृतीनामपवरकैकदेशवर्तिनामपि प्रभाऽपवरकव्यापिनी सती कृत्स्नेऽपवरके कार्यं करोति तद्वत् ।
स्यात्कदाचिच्चन्दनस्य सवायवत्वात्स्‌क्ष्मावयवविसर्पणेनापि सकलदेह आहलादयितृत्वं न त्वणोर्जीवस्यावयवा: सन्ति यैरयं सकलं देहं विप्रसर्पेदित्याशङ्कय गुणाद्वा लोकवदित्युक्तम् ॥२५॥

N/A

References : N/A
Last Updated : December 10, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP