तृतीयाः पाद: - सूत्र १

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न वियदश्रुते: ॥१॥

न वियदश्रुते: ।
वेदान्तेषु पत्र तत्र भिन्नप्रस्थाना उत्पत्तिश्रुतय उपलभ्यन्ते ।
केचिदाकाशस्योत्पत्तिमामननित केचिन्न ।
तथा केचिद्वायोरुत्पत्तिमामनन्ति केचिन्न ।
एवं जीवस्य प्राणानां च ।
एवमेव क्रमादिद्वारकोऽपि विप्रतिपेध: श्रुत्यन्तरेषूपलक्ष्यते ।
विप्रतिषेधाच्च परपक्षाणामनपेक्षितत्वं स्थापितं तद्वत्स्वपक्षस्यापि विप्रतिषेधादेवानपेक्षितत्वमाशङ्क्येतेत्यत: सर्ववेदान्तगतसृष्टिश्रुत्यर्थनिर्मलत्वाय  पर: प्रपञ्च आरभ्यते ।
तदर्थनिर्मलत्वे च फलं यथोक्ता शङकानिवृत्तिरेव ।
तत्र तावत्प्रतिपद्यते न वियदश्रुतोरीति ।
न खल्वाकाशमुत्पद्यते । कस्मात् ।
अश्रुते: । न हयस्योत्पत्तिप्रकरणे श्रवणमस्ति ।
छान्दोग्ये हि सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयमिति सच्छब्दवाच्य ब्रम्हा प्रकृत्य तदैक्षत तत्तेजोऽसृजत इति च पञ्चानां महाभूतानां मध्यमं तेज आदिकृत्वा त्रयाणां तेजोबन्नानामुत्पत्ति: श्राव्यते ।
श्रुतिश्व न: प्रमाणमतीन्द्रियार्थविज्ञानोत्पत्तौ ।
न चात्र श्रुतिररत्याकाशस्योत्पत्तिप्रतिपादिनी ।
तस्मान्नास्त्याकाशयोत्पत्तिरिति ॥१॥

N/A

References : N/A
Last Updated : December 07, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP