तृतीयाः पाद: - सूत्र ३६-३७

ब्रह्मसूत्र वरील हा टीका ग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय: ॥३६॥

व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्यय: ।
इतश्च जीवस्य कर्तृत्वं यदस्य लौकिकीषु वैदिकीषु च क्रियासु कर्तृत्वं व्यपदिशति शास्त्रं विज्ञानं यज्ञं तनुते ।
कर्माणि तनुतेऽपि चेति ।
ननु विज्ञानशब्दो बुद्धौ समधिगत: ।
कथमनेन जीवस्य कर्तृत्वं सूच्यत इति ।
नेत्युच्यते ।
जीवस्येव निर्देशो न बुद्धे: ।
न चेज्जीवस्य स्यान्निर्देशविपर्यय: स्यात् ।
विज्ञानेनेत्येवं निरदेक्ष्यत् ।
तथा हयन्यत्र बुद्धिविवक्षयां विज्ञानशब्दस्य करणविभक्तिनिर्देशो दृश्यते तदेषां प्राणानां विज्ञानेन विज्ञानमादायेति ।
इह तु विज्ञानं यज्ञं तनुत इति कर्तृसामानाधिकरण्यनिर्दिशादबुद्धिव्यतिरिक्तस्यैवात्मन: कर्तृत्वम सूच्यत इत्यदोष: ॥३६॥

उपलब्धिवदनियम: ॥३७॥

अत्राह यदि बुद्धिव्यतिरिक्तो जीव: कर्ता स्यात्स स्वतन्त्र: स्वतन्त्र: सन्प्रियं हितं चैवात्मनो नियमेन संपादयेन्न विपरीतम् ।
विपरीतम् ।
विपरीतमपि तु संपादयन्नुपलभ्यते ।
न च स्वतन्त्रस्यात्मन ईदृशी प्रवृत्तिरनियमेनोपपद्यत इति ।
अत उत्तरं पठति ।
उपलब्धिवदनियम: ॥
यथायमात्मोपलब्धिं प्रति स्वतन्त्रोऽप्यनियमेनेष्टमनिष्टं चोपलभत एवमनियमेनैवेष्टमनिष्टं च संपादयिष्यति ।
उपलब्धावप्यस्वातन्त्र्यमुपलब्धिहेतुफादानोपलम्भादिति चेत् । न ।
विषयप्रकल्पनामात्रप्रयोजनत्वादुपलब्धिहेतूनाम् ।
उपलब्धौ त्वनन्याप्रेक्षत्वमात्मनश्चैद्तन्ययोगात् ।
अपै चार्थक्रियायामपि नात्यन्तमात्मन: स्वातन्त्र्यमस्ति देशकालनिमित्तविशेषापेक्षत्वात् ।
न च सहायापेक्षस्य कर्तु: कर्तृत्वं निवर्तते ।
भवति हयेधोदकाद्यपेक्षस्यापि पक्तु: पक्तृत्वम् ।
सहकारिवैचित्र्याञ्चेष्टानिष्टार्थक्रियायामनियमेन प्रवृत्तिरात्मनो न विरुध्यते ॥३७॥

N/A

References : N/A
Last Updated : December 12, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP